64059: क्षियः¶
Padacheda: क्षियः | S | 6 | 1 |
Sutrartha¶
Vasu English Summary¶
A long is substituted for the इ of क्षि before the Absolutive affix ल्यप्।
Vasu English Translation¶
A long is substituted for the इ of क्षि before the Absolutive affix ल्यप्। As प्रक्षीय, उपक्षीय ॥
Kashika¶
क्षियश्च दीर्घो भवति ल्यपि परतः। प्रक्षीय॥
Siddhanta Kaumudi¶
क्षियो ल्यपि दीर्घः स्यात् । प्रक्षीय ॥
Nyaas¶
छन्दसि इति निवृत्तम्। क्षियः इति निरनुबन्धकग्रहणे न सानुबन्धकस्य (व्या।प।53) इति क्षि क्षये (धातुपाठः-236) क्षि निवासगत्योः (धातुपाठः-1407) इत्यनयोग्र्रहणम्, न क्षिष्? हिंसायाम् (धातुपाठः-1506) [क्षीष् -धातुपाठः-] इत्यस्य॥
Prakriyasarvasvam¶
अस्य ल्यपि दीर्घः स्यात् । प्रक्षीय । ‘वेत्येक’ इति कौमुदी । प्रक्षित्य ॥