64056: ल्यपि लघुपूर्वात्

Padacheda: ल्यपि | S | 7 | 1 |

लघुपूर्वात् | S | 5 | 1 |

Sutrartha


Vasu English Summary

अय् is substituted for the इ of णि before the Absolutive affix ल्यप् when the vowel preceding the इ is light.

Vasu English Translation

अय् is substituted for the इ of णि before the Absolutive affix ल्यप् when the vowel preceding the इ is light. Thus प्रशमय्य गतः, संदमय्य गतः, प्रवेभिदय्य, प्रगणय्य ॥ But प्रपात्य गतः the vowel preceding the इ being long. Here (6.4.51) applies. The shortening, the elision of य and the elision of अ should not be considered as asiddha, as their place of operation is not the same. Thus शम् + णिच् = शामि; this आ is shortened by (6.4.92), and we have शमि ॥ This shortening is not to be considered as asiddha, for if asiddha, there being no laghu purva, the present rule would not apply. Similarly वेभिद्य is the Intensive root, its य is elided by (6.4.49), this elision is not considered as asiddha, if it were asiddha, the इ of भि would not be laghu. Similarly the elision of अ in गण which is a root which ends in अ, (see Dhatupatha Churadi 309), is not considered as asiddha for similar reasons.

Bhashya

ल्यपि लघुपूर्वात् (3054) (6556 षष्ठ्यन्तन्यासे दोषवार्तिकम् ॥ 1 ॥) - ल्यपि लघुपूर्वस्येति चेत् व्यञ्जनान्तेषूपसंख्यानम् - ल्यपि लघुपूर्वस्येति चेत् व्यञ्जनान्तेषूपसंख्यानं कर्तव्यम् । प्रशमय्य गतः । प्रतमय्य गतः ॥ (षष्ठ्यन्तन्यासे द्वितीयदोषदर्शकभाष्यम्) अल्लोपे च गुरुपूर्वात्प्रतिषेधो वक्तव्यः । प्रतिचिकीर्ष्य गतः ॥ (6557 पञ्चम्यन्तन्यासस्थापकवार्तिकम् ॥ 2 ॥) - ल्यपि लघुपूर्वादिति वचनात् सिद्धम् - ल्यपि लघुपूर्वादिति वक्तव्यम् ॥ (दोषोपस्थापकभाष्यम्) एवमपि ह्रस्वयल्लोपाल्लोपानामसिद्धत्वात् ल्यपि लघुपूर्वात् इत्ययादेशो न प्राप्नोति । प्रशमय्य गतः । प्रतमय्य गतः । प्रचेछिदय्य गतः । प्रबेभिदय्य गतः । प्रगदय्य गतः । प्रस्तनय्य गतः ॥ (6558 दोषवारकवार्तिकम् ॥ 3 ॥) - ह्रस्वादिषु चोक्तम् - किमुक्तम् ? ।समानाश्रयवचनात्सिद्धम् इति ॥ कथम् ? णावेते विधयः, णेर्ल्यप्ययादेशः ॥

Kashika

ल्यपि परतो लघुपूर्वाद् वर्णाद् उत्तरस्य णेरयादेशो भवति। प्रणमय्य, प्रतमय्य, प्रदमय्य, प्रशमय्य, संदमय्य गतः। प्रबेभिदय्य गतः। प्रगणय्य गतः। ह्रस्वयलोपाल्लोपानामसिद्धत्वं न भवत्यसमानाश्रयत्वात् ह्रस्वादयो हि णौ, ल्यपि णेरयादेशो भवति। लघुपूर्वादिति किम् ? प्रपात्य गतः॥

Siddhanta Kaumudi

लघुपूर्वात्परस्य णेरयादेशः स्यात् ल्यपि । विगणय्य । प्रणमय्य । प्रबेभिदय्य । लघुपूर्वात्किम् । सम्प्रधार्य ॥

Tattvabodhini

ल्यपि लघुपूर्वात् - लघुपूर्वादिति । लघुः पूर्वो यस्माद्वर्मात् । लघुपूर्ववर्णात्परस्येत्यर्थः । विगणय्येति । नन्विह णौ कुतस्याऽल्लोपस्य पूर्वस्माद्विधौ स्थानिवद्भावाल्लघुपूर्वकवर्णात्परत्वं नास्ति । न चारम्भसामर्थ्यात्, अनुगमय्येत्यादौ मित्सु चरितार्थत्वात् । अत्रोच्यते — पूर्वस्माद्विधौ स्थानिवत्त्वमनित्यं,निष्ठायां सेटी॑ति लिङ्गात् । तथा चात्र स्थानिवत्त्वाऽभावाण्णेरयादेशो भवत्येव ।निष्ठायां सेटी॑त्यस्याऽनित्यत्वज्ञापकत्वं तुअचः परस्मि॑न्निति सूत्र एवास्माभिरुपपादितमिति नात्रोपपाद्यते । प्रणमय्येति । अमन्तत्वान्मित्त्वे, मितां ह्रस्वः । प्रबेभिदय्येति । भिदेर्यङन्ताद्बेभिद्येत्यस्माण्णिच्यल्लोपेयस्य हलः॑ इति यलोपः । ननु ह्रस्वलोपाऽल्लोपानामाभीयत्वेनाऽसिद्धत्वाल्लघुपूर्वकवर्णात्परो णिर्नास्तीति कथमिह णेरयादेशः स्ादिति [गणयतीत्यादौ वा कथं स्यादिति] चेन्मैवम्,असिद्धवदत्राभा॑दित्यत्रसमानाश्रये तस्मिन्कर्तव्ये तदसिद्धं स्या॑दिति हि व्याख्यातम् । तेनात्राशङ्कैव नास्ति, ह्रस्वादयो हिणौ, णेरयादेशस्तु ल्यपि परत इति व्याश्रयत्वात् ।

Nyaas

लधूपूर्वात् इति। लघुः पूर्वो यस्मादिति बहुव्रीहिः। वर्णोऽन्यपदार्थः। प्रणमप्य, प्रतमय्य, प्रदमय्य, प्रशमय्य इति। अत्र नमादीनां मित्त्वात्? पूर्ववद्? ह्रस्वत्वे कृते मकारो लघूपूर्वः। प्रवेभिदय्य गतः इति। भिदेर्यङन्ताण्णिच्। यस्य हलः (6.4.49) इति यकालोपः। अत्रापि दकारो लघूपूर्वः। प्रगणय्य इति। गण संख्याने (धातुपाठः-1853), चुरादावन्तः पूर्धवदल्लोपः। अत्रापि णकारो लघूपूर्वः। ननु ह्रस्वादय एवा भाच्छास्त्रीयाः, अयादेशोऽपि; तत्र असिद्धवदत्रा भात् (6.4.22) इति ह्लस्वादीनामसिद्धत्वाल्लधुपूर्वत्वं मकारादेर्वर्णस्य नोपपद्यते? इत्यत आह -ह्रस्वयलोपाल्लोपानाम् इत्यादि। कथमसमानाश्रयत्वम्? इत्याह -ह्रस्वादयो हि इत्यादि। अथ पूर्वग्रहणं किमर्थम्, न लघोरित्येवोच्येत? अशक्यमेवं वक्तुम्; एवमुच्यमाने लघोरुत्तरस्य णेर्ल्यप्ययादेशो भवतीत्येष वाक्यार्थः। तथा च प्रतमय्य इत्यादौ न स्यात्, हला व्यवधानात्। क्व तरहि स्यात्? प्रगणय्य इत्यादौ। ननु चात्राप्यतो लोपे कृते लघोरुत्तरो णिनं सम्भवत्येव, तत्र वचनसामर्थ्याद्ध्यवधानमाश्रयिष्यते? नैतदेवम्; वचनसामर्थ्याद्भूतपूर्वगतिराश्रायिष्यते। कृत एतल्लभ्यते -वचनसामर्थ्याद्ध्यवधानमाश्रयितव्यम्, न तु भूतपूर्वगतिरिति? भूतपूर्वगतावाश्रीयमाणायां प्रगणय्य इत्यादादेव स्यात्, प्रणमय्य गतः इत्यादौ तु न स्यात्। तस्मात्? पूर्वग्रहणं कर्तव्यम्॥

Prakriyasarvasvam

लघुपूर्वात् वर्णात् परस्य णेर्ल्यपि परेऽयादेशः स्यात् । प्रकथय्य । प्रशमय्य । निशमय्य । निशम्येत्यणिजन्तात् सिद्धम् । अलघुपूर्वात् तु ‘णेरनिटि’ (६-४-५१) इति णिलोप एव । प्रपाल्य । प्रपाठ्य ॥

Sutra Prayogas

  • संगमय्य (रघुवंशम्): ल्यपि लघुपूर्वात् इति णेरयादेशः।

  • संगमय्य (रघुवंशम्): ल्यपि लघुपूर्वात् इति णेरयादेशः।

  • प्रणमय्य (कुमारसम्भवम्): ल्यपि लघुपूर्वात् इति णेरयादेशः।

  • विरहय्य (किरातार्जुनीयम्): ल्यपि लघुपूर्वात् इत्ययादेशः।

  • विगणय्य (किरातार्जुनीयम्): ल्यपि लघुपूर्वात् इत्ययादेशः।

  • विरहय्य (किरातार्जुनीयम्): ल्यपि लघुपूर्वात् इत्ययादेशः।

  • निशमय्य (शिशुपालवधम्): ल्यपि लघुपूर्वात् इत्ययादेशः।

  • विरहय्य (शिशुपालवधम्): ल्यपि लघुपूर्वात् इत्ययादेशः।

  • निशम्य (शिशुपालवधम्): ल्यपि लघुपूर्वात् इति णेरयादेशः।