64056: ल्यपि लघुपूर्वात् ======================== **Padacheda:** ल्यपि | S | 7 | 1 | लघुपूर्वात् | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- अय् is substituted for the इ of णि before the Absolutive affix ल्यप् when the vowel preceding the इ is light. Vasu English Translation ------------------------ अय् is substituted for the इ of णि before the Absolutive affix ल्यप् when the vowel preceding the इ is light. Thus प्रशमय्य गतः, संदमय्य गतः, प्रवेभिदय्य, प्रगणय्य ॥ But प्रपात्य गतः the vowel preceding the इ being long. Here (6.4.51) applies. The shortening, the elision of य and the elision of अ should not be considered as *asiddha*, as their place of operation is not the same. Thus शम् + णिच् = शामि; this आ is shortened by (6.4.92), and we have शमि ॥ This shortening is not to be considered as *asiddha*, for if *asiddha*, there being no *laghu* *purva*, the present rule would not apply. Similarly वेभिद्य is the Intensive root, its य is elided by (6.4.49), this elision is not considered as *asiddha*, if it were *asiddha*, the इ of भि would not be *laghu*. Similarly the elision of अ in गण which is a root which ends in अ, (see *Dhatupatha* *Churadi* 309), is not considered as *asiddha* for similar reasons. Bhashya ------- ल्यपि लघुपूर्वात् (3054) (6556 षष्ठ्यन्तन्यासे दोषवार्तिकम् ॥ 1 ॥) - ल्यपि लघुपूर्वस्येति चेत् व्यञ्जनान्तेषूपसंख्यानम् - ल्यपि लघुपूर्वस्येति चेत् व्यञ्जनान्तेषूपसंख्यानं कर्तव्यम् । प्रशमय्य गतः । प्रतमय्य गतः ॥ (षष्ठ्यन्तन्यासे द्वितीयदोषदर्शकभाष्यम्) अल्लोपे च गुरुपूर्वात्प्रतिषेधो वक्तव्यः । प्रतिचिकीर्ष्य गतः ॥ (6557 पञ्चम्यन्तन्यासस्थापकवार्तिकम् ॥ 2 ॥) - ल्यपि लघुपूर्वादिति वचनात् सिद्धम् - ल्यपि लघुपूर्वादिति वक्तव्यम् ॥ (दोषोपस्थापकभाष्यम्) एवमपि ह्रस्वयल्लोपाल्लोपानामसिद्धत्वात् ल्यपि लघुपूर्वात् इत्ययादेशो न प्राप्नोति । प्रशमय्य गतः । प्रतमय्य गतः । प्रचेछिदय्य गतः । प्रबेभिदय्य गतः । प्रगदय्य गतः । प्रस्तनय्य गतः ॥ (6558 दोषवारकवार्तिकम् ॥ 3 ॥) - ह्रस्वादिषु चोक्तम् - किमुक्तम् ? ।समानाश्रयवचनात्सिद्धम् इति ॥ कथम् ? णावेते विधयः, णेर्ल्यप्ययादेशः ॥ Kashika ------- ल्यपि परतो लघुपूर्वाद् वर्णाद् उत्तरस्य णेरयादेशो भवति। प्रणमय्य, प्रतमय्य, प्रदमय्य, प्रशमय्य, संदमय्य गतः। प्रबेभिदय्य गतः। प्रगणय्य गतः। ह्रस्वयलोपाल्लोपानामसिद्धत्वं न भवत्यसमानाश्रयत्वात् ह्रस्वादयो हि णौ, ल्यपि णेरयादेशो भवति। लघुपूर्वादिति किम् ? प्रपात्य गतः॥ Siddhanta Kaumudi ----------------- लघुपूर्वात्परस्य णेरयादेशः स्यात् ल्यपि । विगणय्य । प्रणमय्य । प्रबेभिदय्य । लघुपूर्वात्किम् । सम्प्रधार्य ॥ Tattvabodhini ------------- **ल्यपि लघुपूर्वात्** - लघुपूर्वादिति । लघुः पूर्वो यस्माद्वर्मात् । लघुपूर्ववर्णात्परस्येत्यर्थः । विगणय्येति । नन्विह णौ कुतस्याऽल्लोपस्य पूर्वस्माद्विधौ स्थानिवद्भावाल्लघुपूर्वकवर्णात्परत्वं नास्ति । न चारम्भसामर्थ्यात्, अनुगमय्येत्यादौ मित्सु चरितार्थत्वात् । अत्रोच्यते — पूर्वस्माद्विधौ स्थानिवत्त्वमनित्यं,निष्ठायां सेटी॑ति लिङ्गात् । तथा चात्र स्थानिवत्त्वाऽभावाण्णेरयादेशो भवत्येव ।निष्ठायां सेटी॑त्यस्याऽनित्यत्वज्ञापकत्वं तुअचः परस्मि॑न्निति सूत्र एवास्माभिरुपपादितमिति नात्रोपपाद्यते । प्रणमय्येति । अमन्तत्वान्मित्त्वे, मितां ह्रस्वः । प्रबेभिदय्येति । भिदेर्यङन्ताद्बेभिद्येत्यस्माण्णिच्यल्लोपेयस्य हलः॑ इति यलोपः । ननु ह्रस्वलोपाऽल्लोपानामाभीयत्वेनाऽसिद्धत्वाल्लघुपूर्वकवर्णात्परो णिर्नास्तीति कथमिह णेरयादेशः स्ादिति [गणयतीत्यादौ वा कथं स्यादिति] चेन्मैवम्,असिद्धवदत्राभा॑दित्यत्रसमानाश्रये तस्मिन्कर्तव्ये तदसिद्धं स्या॑दिति हि व्याख्यातम् । तेनात्राशङ्कैव नास्ति, ह्रस्वादयो हिणौ, णेरयादेशस्तु ल्यपि परत इति व्याश्रयत्वात् । Nyaas ----- `लधूपूर्वात्` इति। लघुः पूर्वो यस्मादिति बहुव्रीहिः। वर्णोऽन्यपदार्थः। `प्रणमप्य, प्रतमय्य, प्रदमय्य, प्रशमय्य` इति। अत्र नमादीनां मित्त्वात्? पूर्ववद्? ह्रस्वत्वे कृते मकारो लघूपूर्वः। `प्रवेभिदय्य गतः` इति। भिदेर्यङन्ताण्णिच्। **यस्य हलः** (6.4.49) इति यकालोपः। अत्रापि दकारो लघूपूर्वः। `प्रगणय्य` इति। `गण संख्याने` (धातुपाठः-1853), चुरादावन्तः पूर्धवदल्लोपः। अत्रापि णकारो लघूपूर्वः। ननु ह्रस्वादय एवा भाच्छास्त्रीयाः, अयादेशोऽपि; तत्र `असिद्धवदत्रा भात्` (6.4.22) इति ह्लस्वादीनामसिद्धत्वाल्लधुपूर्वत्वं मकारादेर्वर्णस्य नोपपद्यते? इत्यत आह -`ह्रस्वयलोपाल्लोपानाम्` इत्यादि। कथमसमानाश्रयत्वम्? इत्याह -`ह्रस्वादयो हि` इत्यादि। अथ पूर्वग्रहणं किमर्थम्, न लघोरित्येवोच्येत? अशक्यमेवं वक्तुम्; एवमुच्यमाने लघोरुत्तरस्य णेर्ल्यप्ययादेशो भवतीत्येष वाक्यार्थः। तथा च `प्रतमय्य` इत्यादौ न स्यात्, हला व्यवधानात्। क्व तरहि स्यात्? `प्रगणय्य` इत्यादौ। ननु चात्राप्यतो लोपे कृते लघोरुत्तरो णिनं सम्भवत्येव, तत्र वचनसामर्थ्याद्ध्यवधानमाश्रयिष्यते? नैतदेवम्; वचनसामर्थ्याद्भूतपूर्वगतिराश्रायिष्यते। कृत एतल्लभ्यते -वचनसामर्थ्याद्ध्यवधानमाश्रयितव्यम्, न तु भूतपूर्वगतिरिति? भूतपूर्वगतावाश्रीयमाणायां `प्रगणय्य` इत्यादादेव स्यात्, `प्रणमय्य गतः` इत्यादौ तु न स्यात्। तस्मात्? पूर्वग्रहणं कर्तव्यम्॥ Prakriyasarvasvam ----------------- लघुपूर्वात् वर्णात् परस्य णेर्ल्यपि परेऽयादेशः स्यात् । प्रकथय्य । प्रशमय्य । निशमय्य । निशम्येत्यणिजन्तात् सिद्धम् । अलघुपूर्वात् तु 'णेरनिटि' (६-४-५१) इति णिलोप एव । प्रपाल्य । प्रपाठ्य ॥ Sutra Prayogas -------------- * **संगमय्य** (रघुवंशम्): `ल्यपि लघुपूर्वात्` इति णेरयादेशः। * **संगमय्य** (रघुवंशम्): `ल्यपि लघुपूर्वात्` इति णेरयादेशः। * **प्रणमय्य** (कुमारसम्भवम्): `ल्यपि लघुपूर्वात्` इति णेरयादेशः। * **विरहय्य** (किरातार्जुनीयम्): `ल्यपि लघुपूर्वात्` इत्ययादेशः। * **विगणय्य** (किरातार्जुनीयम्): `ल्यपि लघुपूर्वात्` इत्ययादेशः। * **विरहय्य** (किरातार्जुनीयम्): `ल्यपि लघुपूर्वात्` इत्ययादेशः। * **निशमय्य** (शिशुपालवधम्): `ल्यपि लघुपूर्वात्` इत्ययादेशः। * **विरहय्य** (शिशुपालवधम्): `ल्यपि लघुपूर्वात्` इत्ययादेशः। * **निशम्य** (शिशुपालवधम्): `ल्यपि लघुपूर्वात्` इति णेरयादेशः।