64053: जनिता मन्त्रे

Padacheda: जनिता | S | 1 | 1 |

मन्त्रे | S | 7 | 1 |

Sutrartha


Vasu English Summary

In a मन्त्र the word जनिता is formed irregularly by the elision of णि before the affix तृ with the augment इट् ।

Vasu English Translation

In a मन्त्र the word जनिता is formed irregularly by the elision of णि before the affix तृ with the augment इट् । Thus यो नः पिता जनिता ॥ Otherwise जनयिता in secular literature. It is an exception to (6.4.51).

Kashika

जनितेति मन्त्रविषय इडादौ णिलोपो निपात्यते। यो नः पिता जनिता (ऋ० १०.८२.३)। मन्त्र इति किम् ? जनयिता॥

Siddhanta Kaumudi

इडादौ तृचि णिलोपो निपात्यते । यो नः पिता जनिता (यो नः॑ पि॒ता ज॑नि॒ता) ॥

Nyaas

इङादौ णिलोपो निपात्यते इति। जनिता इति तृजन्तम्, तत्र अनिटि इति प्रतिषेधादिडादौ न न प्राप्नौति, अतो निपात्यते। ह्यसवत्वन्तु जनीजृष्क्नसुरञ्जोऽमन्ताश्च (ग।सू।धातुपाठः-817) इति मित्संज्ञकत्वात्? मितां ह्रस्वः (6.4.92) इत्यनेनैव सिद्धम्॥

Prakriyasarvasvam

जनयतेर्णिलोपो निपात्यते । यो नः पिता जनिता ।