64052: निष्ठायां सेटि

Padacheda: निष्ठायाम् | S | 7 | 1 |

सेटि | S | 7 | 1 |

Sutrartha


Vasu English Summary

The affix णि is elided before the affixes क्त and क्तवतु when these take the augment इट् ।

Vasu English Translation

The affix णि is elided before the affixes क्त and क्तवतु when these take the augment इट् । Thus कारितम्, हारितम्, गणितम्, लक्षितम् ॥ Why do we say “before an ardhadhatuka affix having the augment इट्”? Observe संज्ञपितः पशुः ॥ This is the part participle of the causative, the इ being the sign of the causative. By (7.2.15) read with (7.2.49), ज्ञप् is a root which takes no इट् augment in the Nishtha. It may be objected that (7.2.15) preventing इट् augment applies to verbs of one syllable (7.2.10), and the causative ज्ञपि being of two syllables will always have इट् in the Nishtha, and so it is useless to use the word सेटि in the sutra. The word सेटि in the sutra fixes the time when the elision of णि should take place. Namely, first there should be added the augment इट् and then, there should take place the elision of णि ॥ Otherwise we shall have this difficulty कारि + त, here let us elide the णि first : and we get कार् + त, now we cannot add इट् to त, for कार् being a verb of one syllable will not take इट् by (7.2.10). Therefore, the reverse process must be adopted. We must elide इट् first. For ज्ञपितः see also (7.2.27).

Bhashya

निष्ठायां सेटि (3050) (पदकृत्यभाष्यम्) अथ सेड्ग्रहणं किमर्थम् ? निष्ठायां सेड्ग्रहणमनिटि प्रतिषेधार्थम् । निष्ठायां सेड्ग्रहणं क्रियते अनिटि प्रतिषेधो यथा स्यादिति । संज्ञपितः पशुरिति ॥ (6549 सेड्ग्रहणानर्थक्यबोधकवार्तिकम् ॥ 1 ॥) - निष्ठायां सेड्ग्रहणमनिटि प्रतिषेधार्थमिति चेत्तत्सिद्धम् - निष्ठायां सेड्ग्रहणमनिटि प्रतिषेधार्थमिति चेदन्तरेणापि सेड्ग्रहणं तत्सिद्धम् । कथम् ? अनिडभावात् ॥ (अनिडभावाक्षेपे वार्तिकावतरणभाष्यम्) ननु च यस्य विभाषा (7.2.15) इति ज्ञपेरिटि्प्रतिषेधः ॥ (6550 अनिडभावसाधकवार्तिकम् ॥ 2 ॥) - एकाचो हि प्रतिषेधः - एकाचो हि स प्रतिषेधः । ज्ञपिश्चानेकाच् (6551 सेट्ग्रहणप्रयोजनवार्तिकम् ॥ 3 ॥) - इड्भावार्थं तु तन्निमित्तत्वाल्लोपस्य - इड्भावार्थं तर्हि सेड्ग्रहणं क्रियते । कथं पुनः सेटीत्यने नेट् शक्यो भावयितुम् ? तन्निमित्तत्वाल्लोपस्य । नात्राकृते इटि णिलोपेन भवितव्यम् । किं कारणम् ? सेटीत्युच्यते ॥ (6552 सेट्ग्रहणाभावे दोषवार्तिकम् ॥ 4 ॥) - अवचने हि णिलोप इट्प्रतिषेधप्रसङ्गः - अक्रियमाणे हि सेड्ग्रहणे णिलोपे कृते एकाचः इतीट्प्रतिषेधः प्रसज्येत । कारितम्, हारितम् ॥ (योगविभागेन सूत्रप्रत्याख्यानभाष्यम्) एवं तर्हि नार्थः सेड्ग्रहणेन, नापि सूत्रेण । कथम् ? सप्तमे योगविभागः करिष्यते । इदमस्ति - निष्ठायाम् (7.2.14), नेट् भवति । ततः - णेः। ण्यन्तस्य निष्ठायां नेट् भवति । कारितम् । हारितम् । ततः - वृत्तम् । वृत्तमिति च निपात्यते । (किं निपात्यते ? णेर्निष्ठायां लोपो निपात्यते ।) किं प्रयोजनम् ? नियमार्थम् । अत्रैव निष्ठायां णेर्लोपो भवति नान्यत्र । क्व मा भूत् ? कारितम् । हारितम् । इहापि तर्हि प्राप्नोति - वर्तितमन्नम्, वर्तिता भिक्षा । ततः - अध्ययने । अध्ययने चेत् वृतिर्वर्तते इति ॥ (6553 उपसंख्यानवार्तिकम् ॥ 5 ॥) - वृधिरमिशृधीनामुपसंख्यानं सार्वधातुकत्वात् - वृधिरमिशृधीनामुपसंख्यानं कर्तव्यम् । किं कारणम् ? सार्वधातुकत्वात् । वर्धन्तु त्वा सुष्टुतयो गिरो मे, वर्धयन्तु इत्येवं प्राप्ते । बृहस्पतिष्ट्वा सुम्ने रम्णातु, रमयतु इत्येवं प्राप्ते । अग्ने शर्द्ध महते सौभगाय, शर्द्धयेति प्राप्ते ॥ (उपसंख्यानानर्थक्यबोधकभाष्यम्) तत्तर्हि वक्तव्यम् । न वक्तव्यम् । वृधिरमिशृधीनामार्धधातुकत्वात्सिद्धम् । कथमार्धधातुकत्वम् ? अन्येऽपि हि धातुप्रत्यया उभयथा छन्दसि दृश्यन्ते ॥

Kashika

निष्ठायां सेटि परतो णेर्लोपो भवति। कारितम्। हारितम्। गणितम्। लक्षितम्। सेटीति किम्? संज्ञपितः पशुः। सेड्ग्रह्णसामर्थ्यादिह पूर्वेणापि न भवति। सनीवन्तर्ध० (७.२.४९) इति ज्ञपेरिटि विकल्पिते यस्य विभाषा (७.२.१५) इति निष्ठायां प्रतिषेधः। अथ पुनरेकाच इति तत्रानुवर्तते। तदा नित्यमत्र भवितव्यमेवेडागमेनेति सेड्ग्रहणमनर्थकम्? तत् क्रियते कालावधारणार्थम्, इडागमे कृते णिलोपो यथा स्यात्। अकृते हि तत्र णिलोपे सति कारितमित्यत्र **एकाच उपदेशेऽनुदात्तात्**(७.२.१०) इतीटः प्रतिषेधः प्रसज्येत॥

Siddhanta Kaumudi

णेर्लोपः स्यात् । भावितः । भावितवान् । श्वीदितः - (SK3039) इति नेट् । संप्रसारणम् । शूनः । दीप्तः । गुहू, गूढः । वनु, वतः । तनु, ततः । पतेः सनि वेट्कत्वादिडभावे प्राप्ते द्वितीयाश्रित - (SK686) इति सूत्रे वेट्कत्वात्सिद्धे कृन्तत्यादीनामीदित्त्वेनानित्यत्वज्ञापनाद्वा । तेन धावितमिभराजधियेत्यादि । यस्य विभाषा (SK3025) इत्यत्रैकाच इत्येव । दरिद्रतः ॥

Laghu Siddhanta Kaumudi

णेर्लोपः। भावितः। भावितवान्। दृह हिंसायाम्॥

Balamanorama

निष्ठायां सेटि - निष्ठायां सेटि । णेर्लोपः स्यादिति । सेषपूरणमिदम् ।णेरनिटी॑त्यतो णेरिति, ‘आतो लोपः’ इत्स्माल्लोप इति चानुवर्तते इति भावः । ‘अनिटी’ ति निषेधादप्राप्ते आरम्भः ।टु ओ इआ गतिवृद्ध्योः॑ अस्मात् क्ते आह श्वीदित इति नेडिति । संप्रसारणमिति । यजादित्वादिति भावः । संप्रासरणे सति पूर्वरूपे ‘हलः’ इति दीर्घेओदितश्चे॑ति निष्ठानत्वे रूपमाह — शून इति । यद्यपि मूलेओदितश्चे॑त्यत्र उच्छून इत्युदाहृतमेव, तथापि विशेषविवक्षया पुनरिहोपन्यासः । अत्र अलविधित्वेऽपि ‘हल’ इत्यारम्भसामाथ्र्यादेव पूर्वरूपस्य संप्रसारणत्वम् । न च नित्यत्वात्संप्रसारणपूर्वरूपयोःश्र्युकः कितीत॑त्येव निषेधसिद्धेः इआग्रहमं व्यर्थमिति वाच्यम्,श्र्युकः किती॑त्यत्र ‘एकाच उपदेशे’ इत्यत उपदेशे इत्यनुवृत्तेः । तथा च उपेदशे उगन्तत्वाऽभावान्निषेधाऽप्राप्तौ इआग्रहणम् । अत एवस्तीर्त्वे॑त्यादौ उपदेशे उगन्तत्वमादाय इण्निषेधसिद्धिरित्यलम् । ईदित उदाहरति — दीप्तैति । ‘दीपी दीप्तौ’ दिवादिः । ईदित्त्वान्नेट् । गूढ इति । ऊदित्त्वेन वेट्कत्वात्यस्य विभाषे॑ति नेट् । ढत्वधत्वष्टुत्वढलोपदीर्घाः । वनु वतः । तनु तत इति ।उदितो वे॑ति क्त्वायां वेट्कत्वात्यस्य विभाषे॑ति नेट् ।अनुदात्तोपदेशे॑ति नकालोपः । पतेः सनीति । ‘पत्लृ गतौ’ अस्यतनिपतिदरिद्राणानुपसङ्ख्यान॑मिति सनि वेटक्त्वात्यस्य विभाषे॑ति निष्ठायामिण्निषेधे प्राप्ते इत्यर्तः । ‘पतित’ शब्दे इटं साधयितुं युक्त्यन्तरमिति वक्तव्यम्, तत्तु न संभवति । एषांसेऽसिचि कृतचृतछृदतृदनृतः॑ इति सकारादौ वेट्कतयायस्य विभाषे॑त्येव निष्ठायां नित्यमिण्निषेधासिद्धेः । ततश्च एषामीदित्करणात्यस्य विभाषे॑ति इण्निषेधस्य अनित्यत्वं विज्ञायते । एवं च कृतादीनांयस्य विभाषे॑ति इण्निषेधस्याऽभावसंभावनायां ‘श्वीदितः’ इण्निषेधार्थमीदित्त्वमर्थवत् ।तथा च पतितशब्देयस्य विभाषे॑त्यनित्यत्वान्न भवतीत्यर्थः । तेनेति ।यस्य विभाषे॑त्यस्याऽनित्यत्वज्ञापनेनेत्यर्थः । धावितमिति । ‘स्वरतिसूती’ धूञो वेट्कत्वेऽपियस्य विभाषे॑ति निष्ठायामिण्निषेधः स्यादित्यत आह — यस्य विभाषेत्यत्रेति ।

Tattvabodhini

निष्ठायां सेटि - संप्रसारणमिति ।वचिस्वपी॑त्यनेन । शून इति । टुओश्वि गतिवृद्ध्योः ।हलः॑ इति दीर्घः ।ओदितश्च॑ इति निष्ठातस्य नः । गूढ इति ।यस्य विभाषे॑ति नेट् । ढत्वधत्वष्टुत्वढलोपदीर्घाः । वतः तत इति ।अनुदात्तोपदेशे॑ति नलोपः । सनि केट्कत्वादिति ।तनिपतिदरिद्रातिभ्यः सनो वा इड्वाच्यः॑ इति वचनात् । कृन्तत्यादीनामिति ।श्वीदित॑ इति निष्ठायामनिट्त्वार्थं कृती छेदने, चृती हिंसाग्रन्थनयोः, नृती गात्रविक्षेपे इत्यतेषामीदित्त्वकरणेनयस्य विभाषे॑त्यस्याऽनित्यत्वज्ञापनाद्वा पतित इति सिद्धमित्यर्थः ।

Padamanjari

सेटीति किमिति । अनिटि पूर्वेण सिद्धत्वात्सेडर्थमेवेदं सूत्रं भविष्यतीति प्रश्नः । सामर्थ्यात्पूर्वसूत्रप्राप्तेरेव व्यावृत्तिरित्युतरम् । संज्ञापित इति । वा दान्तशान्तपूर्ण इत्यत्र ज्ञपेर्निपातनमाश्रीयते - ज्ञप्तः, ज्ञपित इति । अथ पुनरिति । प्रतिपतृविप्रतिपत्या सन्दिग्धाभिधानम् । कालावधारणार्थमिति । सेड्ग्रहणे क्रियमाणे यदा निष्ठा सेड्भवति तदा लोपो भवति न प्रागिति कालाबधारणं लभ्यते । किं पुनः स्याद्यद्येवमर्थं सेड्ग्रहणं न क्रियेत तत्राह - अकृते हीति । णिलोपे सतीति । नित्यत्वात् । स हि कृतेऽपीटि प्राप्नोत्यकृतेऽपि, इट्पुनरनित्यः, णिलोपे सत्येकाचेति प्रतिषेधात् ।यस्य च निमितं लक्षणान्तरेण विहन्यते न तदनित्यम्, न हि बालिसुग्रीवयोर्युध्यमानयोर्भगवता रामेण बालिनि हते सुग्रीवापेक्षया बालिनो दौर्बल्यं मन्यन्ते शूरमानिनः सत्यम् कार्यगतभावाभावविवक्षायां तु तत्राश्रीयते । इट्प्रतिषेधः प्रसज्येतेति । एकदेशविकृतस्यानन्यत्वात् । एतच्च पूर्वस्मादपि विधौ स्थानिवद्भावमनाश्रित्योक्तम्। भाष्ये तु सूत्रमिदं प्रत्याख्यातम् । सप्तमे णेरध्ययने वृतम् इत्ययं योगस्त्रेधा विभक्तव्यः, क्रमविपर्ययश्चाश्रयणीयः - णेः इत्येको योगः, तत्र निष्ठायां नेडिति वर्तते - ण्यन्तादुतरस्य निष्ठाया इण्न भवति ततः वृतम् - वुतमिति निपात्यते, णिलोपः । किमर्थमिदम् नियमार्थम् - अत्रैव निष्ठायां णेर्लोपो भवति, नान्यत्रेति । क्व मा भूत् कारितम्, हारितम्, कैमर्थक्यान्नियमो भवति, विधेयं नास्तीति कृत्वा । इह चास्ति विधेयम्, किम् गुणाभावः । एवं तर्हि तन्त्रावृत्येकशेषाणामन्यतमाश्रयणादेकस्य नियमार्थत्वमपरस्य गुणनिषेधार्थत्वं भवति, ततोऽध्ययने, वर्तेरध्ययन एव णिलोप इति ॥

Nyaas

गणितम्, लक्षितम् इति। गण संख्याने (धातुपाठः-1853) लक्ष दर्शनाङ्कनयोः (धातुपाठः-1538)। संज्ञपितः पशुः इति। ननु चात्र यदि सेटि इति वचनादनेन न भवितव्यम्, तदा पूर्वसूत्रेण कस्मान्न भवति? इत्याह - सेङ्ग्रहणसामर्थ्यात् इत्यादि। यदि ह्रनिटि पूर्वेण णिलोपः स्यात्? सेङ्ग्रहणमनर्थकं स्यात्, निष्ठायाम् इत्येवं ब्राऊयात्, आरम्भसामर्थ्यादेव हि सेङर्थो भविष्यति। तस्मात्? सेङ्ग्रहणसामर्थ्यात्? पूर्वेणापि संज्ञापितः पशुः इत्यत्र णिलोपो न भवति। कथं पुनरत्र सेङ्? निष्ठा न भवति? इत्याह - सनीवन्तर्ध इत्यादि। अथ इत्यादि। अथ यस्य विभाषा (7.2.15) इत्यत्र एकाच उपदेशेऽनुदात्तात् (7.2.10) इत्यत्र एकाज्ग्रहणमनुवर्तते, ततोऽनेकाच्त्वाज्ज्ञपेः प्रतिषेधाभावाद्? भवितव्यमिडागमेन निष्ठायाम्। तस्मात्? सेङ्ग्रहणमनर्थकं स्यात्; व्यावर्त्त्याभावात्। ननु च ज्ञप्तः इत्यत्र मा भूदित्येवमर्थं सेङ्ग्रहणं भविष्यति? नैतदस्ति; क्रियमाणेऽपि सेङ्ग्रहणे वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः (7.2.27) इति निपातानादत्र भवितव्यमेव णिलोपेन। यदि तह्र्रनर्थकं सेङ्ग्रहणम्, तत्? किमर्थं क्रियते? इत्याह - तत्? क्रियते इत्यादि। पूर्वमिडागमे कृते सेटि निष्ठायां जातायां पश्चाण्णिलोपो यथा स्यादित्येवमर्थं सेङ्ग्रहणं कृतम्। कः पुनरकृत इटि णिलोपे सति दोषः स्यात्, यन्निवृत्त्यर्थं पूर्वमिडागम इष्यते? इत्याह - अकृते हि इत्यादि। असति सेङ्ग्रहणे कारित इति स्थिते णिलोपः प्राप्नोति, इट्? च्, तत्र कृताकृतप्रसङ्गित्वेन णिलोपेनैव भवितव्यम्; णिलोपे च सत्येकदेशविकृतसयानन्यत्वात्? स एवायं करोतिरिति एकाच उपदेशेऽनुदात्तात् (7.2.10) इतीट्प्रतिषेधः प्रसज्येत, ततश्च कारितम् इत्येतन्न सिद्ध्येत्। तस्मात्? सेङ्ग्रहणं कर्तव्यम्॥

Prakriyasarvasvam

सेटि निष्ठायां परतो णिलोपः स्यात् । तस्मादिडेव श्रूयते । वर्तितम् । केचिदधीते वर्तितमपीच्छन्ति ॥