64054: शमिता यज्ञे

Padacheda: शमिता | S | 1 | 1 |

यज्ञे | S | 7 | 1 |

Sutrartha


Vasu English Summary

शमिता is formed irregularly by the elision of णि before an इट् augmented affix when meaning a sacrificial act.

Vasu English Translation

शमिता is formed irregularly by the elision of णि before an इट् augmented affix when meaning a sacrificial act. Thus शृतं हविः शमितः ॥ It is formed by तृच् and is in the Vocative case. Why do we say ‘when referring to a sacrificial act’? See शृतं हविः शमयितः ॥ See Satpatha Brahmana III.8.3, 4 and 5.

Kashika

यज्ञकर्मणि शमितेति इडादौ तृचि णिलोपो निपात्यते। शृ॒तं ह॒वि३ः श॑मितः (तै०सं० ६.३.१०.१)। तृचि संबुध्यन्तमेतत्। यज्ञ इति किम्? शृतं हविः शमयितः॥

Siddhanta Kaumudi

शमयितेत्यर्थः ॥

Balamanorama

शमिता यज्ञे - तथाच अगुणवचनादपि कर्तृशब्दादिष्ठन्प्रत्यये ‘कर्तृ-इष्ठ’ इति स्थिते ‘इष्ठेमेयस्सु’ इति विहिते टिलोपे प्राप्ते — तुरिष्ठेयमेयःसु । ‘तृ’ इत्यस्यतु॑रिति षष्ठएकवचनम् । एष्विति । इष्ठन्, इमन्, इयस् इत्येतिष्वित्यर्थः । अयं लोपः सामर्थ्यात्सर्वादेशः, अन्त्यस्य ऋकारस्यटे॑रित्येव सिद्धेः । करिष्ठ इति । अयमनयोरति शयेन कर्तेत्यर्थः । दोहीयसी धेनुरिति । इयमनयोरतिशयेन दोग्ध्रीत्यर्थः । इष्ठनि ‘भस्याढे’ इति पुंवत्त्वे ङीपो निवृत्तौ तृप्रत्ययस्य लोपे परनिमित्ताऽभावात्दादे॑रिति घत्वस्य निवृत्तौ उगित्त्वात् ङीपिदोहियसी॑ति रूपम् ।पुगन्ते॑ति गुणस्तु न निवर्तते, लुप्तेऽपि तृचि प्रत्ययलक्षणेन तत्सत्त्वात् ।

Padamanjari

तृचि सम्बुद्ध्यन्तमेतादिति । उदाहृताभिप्रायमेतत् । सूत्रे तु शुद्धप्रथमैकवचनान्तम् । सर्वासु च विभक्तिषु निपातनम् प्रथमैकवचनस्थाविवक्षितत्वात् । तथा च सूत्रार्थकथनसमये इडादौ तृचि सामान्येनोक्तम् । प्रयोगोऽपि तथाविध एव - शामितारो यदत्र सुकृतमिति, शमितृभ्यश्चैवैनन्तन्निगृहीतृब्यश्चेति च । शामित्रमिति तद्धितेऽपि भवति । सूत्रे च सम्बुद्ध्यन्तं विवक्षितं चेच्छमितर्यज्ञ इति प्राप्नोति ॥

Nyaas

शमितः इत्यत्र पूर्धवद्? ह्रस्वत्वम्। ऋतो ङिसर्वनामस्थानयोः (7.3.110) इति गुणः, हल्ङ्यादिना (6.1.66) सुलोपः, रेफस्य विसर्गः। तृचि सम्बुद्ध्यन्तमेतत् इति। निष्ठान्तमेतदिति कस्यचिदाशङ्का स्यात्, अतस्तां निराकर्तुमिदमुक्तम्। शमयितः इत्येतदपि तृचि सम्बुद्ध्यन्तम्॥

Prakriyasarvasvam

यज्ञमन्त्रे शमितेति स्यात् । जनयिता शमयितेति लोके ।।