64051: णेरनिटि

Padacheda: णेः | S | 6 | 1 |

अनिटि | S | 7 | 1 |

Sutrartha


Vasu English Summary

The इ of the verbal अङ्ग (stem) formed with the affix णि is elided before an आर्धधातुक affix which does not take the augment इट् ।

Vasu English Translation

The इ of the verbal अङ्ग (stem) formed with the affix णि is elided before an आर्धधातुक affix which does not take the augment इट् । This debars इयङ्, the semi-vowel य, the guna, Vriddhi and the long substitutions. Thus अततक्षत्, अररक्षत्, आशिशत्, कारणा, हारणा, कारकः, हारकः, कार्यते, हार्यते and ज्ञीप्सति (see (VII.4. I) for the shortening of the stem of the Aorists in these). Why do we say ‘not having the augment इट्?’ Observe कारयिता and हारयिता ॥

Bhashya

णेरनिटि (3049) (अनिटिग्रहणप्रत्याख्यानभाष्यम्) अनिटीति किमर्थम् ? कारयिता । कारयितुम् । अनिटीति शक्यमवक्तुम् । कस्मान्न भवति - कारयिता, कारयितुम् ? निष्ठायां सेटि (6.4.52) इत्येतन्नियमार्थं भविष्यति - निष्ठायामेव सेटि णेर्लोपो भवति नान्यत्रेति । क्व मा भूत् ? कारयिता, कारयितुम् । अथवा -उपरिष्टाद्योगविभागः करिष्यते - इदमस्ति निष्ठायां सेटि जनिता मन्त्रे शमिता यज्ञे । ततः - अय् । अयादेशो भवति णेः सेटि । ततः - आमन्ताल्वाय्येत्न्विष्णुषु । अय् भवतीत्येव ॥

Kashika

अनिडादावार्धधातुके णेर्लोपो भवति। इयङ्यण्गुणवृद्धिदीर्घाणामपवादः। अततक्षत्। अररक्षत्। आशिशत्। आटिटत्। कारणा। हारणा। कारकः। हारकः। कार्यते। हार्यते। ज्ञीप्सति। अनिटीति किम्? कारयिता। हारयिता॥

Siddhanta Kaumudi

अनिडादावार्धधातुकेपरे णेर्लोपः स्यात् । परत्वात् एरनेकाचः -(SK272) इति यणि प्राप्ते ॥<!ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेनेति वार्तिकम् !> (वार्तिकम्) ॥ णिलेपस्य तु पाचयतेः पाक्तिरित्यादि क्तिजन्तमवकाश इति भावः । वस्तुतस्त्वनिटीति वचनसामर्थ्यादार्धधातुकमात्रमस्य विषयः । तथा चेयङादेरपवाद एवायम् । इयङ् । अततक्षत् । यण् । अटिटत् । गुणः । कारणा । वृद्धिः । कारकः । दीर्घः । कार्यते ॥

Laghu Siddhanta Kaumudi

अनिडादावार्धधातुके परे णेर्लोपः स्यात्॥

Balamanorama

णेरनिटि - णेरनिटि । आर्धधातुक इत्यधिकृतम् । ‘अतो लोप’ इत्यस्माल्लोप इत्यनुवर्तते ।अनिटी॑त्यस्य आर्धधातुकविशेषणत्वात्तदादिविधिः ।तदाह — अनिडादाविति । तथा च णिलोपे काम त इति स्थिते — परत्वादिति । ‘एरनेकाच’ इत्यस्यणेरनिटी॑त्यपेक्षया परत्वाण्णिलोपं बाधित्वा यणि प्राप्ते सतीत्यर्थः । कृते तु यणि लोपे दुर्लभः, णेरभावात् । स्थानिवत्त्वेऽपि यणा बाधितस्य पुनरुन्मेषो दुर्लभः । वस्तुतस्तु स्थानिवत्त्वमेवेह दुर्लभम्, यण्स्थानिनमिकारमलं णित्वरूपेणाश्रित्य प्रवर्तमानस्य णिलोपस्याऽल्विधित्वेन तत्र स्तानिवत्त्वाऽसंभवात् । स्पष्टा चेयं रीतिर्भोभगो इति सूत्रभाष्ये इति शब्देन्दुशेखरे विस्तरः । ण्यल्लोपाविति । णिलोप इयङ्यण्गुणवृद्धिदीर्घेभ्यः, अल्लोपस्तु वृद्धिदीर्घाभ्यां पूर्वविप्रतिषेधेनेति विवेकः । तथाच पूर्वविप्रतिषेधादिह यणं बाधित्वा णिलोपो भवतीति स्थितम् । ननु अततक्षत्, आटिटत्, कारणा, कारकः,कार्यते इति वक्ष्यमाणेषु वार्तिकोदाहरणेषु क्रमेण इयडण्गुणवृद्धिदीर्घाणामवस्यं प्राप्ेतर्णिलोपस्य निरवकाशत्वादेव इयङादिबाधकत्वसंभवादिदं वार्तिकं व्यर्थम्, सुधियौ, प्रध्यौ, कर्ता, चिकाय, सूयादित्यादौ इयङ्यण्गुणवृद्धिदीर्घाणां सावकासत्वादित्यत आह — णिलोपस्य त्विति । पच्धातोर्णिचि उपधावृद्धौ पाचीति ण्यन्तात्स्त्रियां क्ति॑न्निति क्तिनि,तितुत्रतथसिसुसकरसकेषु चे॑तीण्निषेधे,णेरनिटी॑ति णिलोपे, कुत्वे पाक्तिरिति स्थितिः ।क्तिजन्त॑मिति पाठे तुक्तिच्क्तौ च संज्ञाया॑ मिति क्तिज्बोध्यः ।पाक्ति॑रिति कस्यचित्संज्ञा । अत्र इयङादीनामप्रसक्तेर्णिलोपस्यापि सावकाशत्वं तुल्यम् । तत्र अततक्षदित्यादौ परत्वादियङादिप्राप्तौ तन्निवृत्त्यर्थं वार्तिकमिदमारम्भणीयमिति भावः । वार्तिकं व्यर्थमेवेत्याह — वस्तुस्त्विति । आर्धधातुकमात्रमिति । कृत्स्नमनिडाद्यार्धधातुकमस्य णिलोपस्य विषय इत्यर्थः । तथा च अततक्षदित्यादौ परानपि इयङादीन् णिलोपोऽपवादत्वाद्बाधते । परापेक्षयाऽपवादस्य प्रबलत्वात् । परत्वादियङादीनां णिलोपबाधकत्वाभ्युपगमे हि णेरनिटीत्यत्र अनिटीति व्यर्थम् । कारयितेत्यादाविडाद्यार्धधातुके गुणेनैव णिलोपस्य बाधसिद्धेः । ततस्च अनिटीति वचनसामर्थ्यादिनिडादावार्धधातुके सर्वस्मिन्परे णिलोप इति विज्ञायते । एवं च अततक्षदित्यादावियङादिप्रवृत्तियोग्येऽप्यार्धधातुके सर्वत्र णिलोपैति, — अस्य निरवकाशत्वादपवादत्वादेव णिलोपेन इयङादिबाधसिद्धेर्वार्तिकमिदं व्यर्थमित भावः । अपवाद एवायमिति । णिलोप इत्यर्थः । अतो लोपस्तु ‘चिकीर्षक’ इत्यत्र वृदिंध,चिकीष्र्या॑दित्यत्रअकृत्सार्वधातुकयो॑रिति दीर्घं च बाधित्वा पूर्वविप्रतिषेधाद्भवति । नह्रतो लोपोवृद्धिदीर्घयोरपवादः, गोपायितेत्यादौ वृद्दिदीर्घयोरप्राप्तयोरप्यतो लोपस्यारम्भादित्यलम् । इयङिति । उदाहरणसूचनमिदम् । अततक्षिदिति । तक्षदातोण्र्यन्ताल्लुङस्तिपि इकारलोपे चङि द्वित्वे संयोगपूर्वक्तवादेरनेकाचेति यणभावे इयङि प्राप्ते पूर्वविप्रतिषेधाण्णिलोपे हलादिशेषेऽडागमेऽततक्षदिति रूपम् । यणिति । उदाहरणसूचनम् । आटिटदिति । अटधातोण्र्यन्तादाटीत्यस्माल्लुङि तिपि इकारलोपे चङि ‘टी’ त्यस्य द्वित्वे ‘एरनेकाच’ इति यणं बाधितवा पूर्वविप्रतिषेधाण्णिलोपे आटि वृद्धौ रूपम् । गुण इति । उदाहरणसूचनम् । कारणेति ।स्त्रिया॑मत्यधिकारे कृञ्धातोण्र्यन्तात्कारीत्यस्माण्ण्वुलि अकादेशे वृदिंध बाधित्वा पूर्वविप्रतिषेधाण्णिलोपे रूपम् । दीर्घ इति । उदाहरणसूचनम् । कार्यत इति । कृञ्धातोर्ण्न्तात्कारीत्यस्मात्कर्मण लटि यकिअकृत्सार्वधातुकयो॑रिति दीर्घं बाधित्वा पूर्वविप्रतिषेधाण्णिलोपः । तथा च प्रकृते काम् इ अ त इत्यत्र ‘एरनेकाच’ ति यणं बाधित्वा णिलोपे काम त इति स्थितम् ।

Tattvabodhini

णेरनिटि - णेरिति णिङ्णिचोग्र्रहणम् । एवमन्यत्रापि बोध्यम् ।अनिटी॑त्यनेनाधिकृतमाद्र्धधातुक इत्येतद्विशेष्यते ।यस्मिन्विदि॑रिति तदादिविधिः ।अतो लोपः॑ इत्यस्माल्लोप इति चानुवर्तते, तदाह — अनिडादावित्यादि । यणि प्राप्त इति । ननु परत्वादियङ्यणादिविधयो यथासंभवमत्र सन्तु नाम, तेषु स्थानिवद्भावाण्णिग्रहणेन ग्रहणाल्लोपो भविष्यतीति चेत्, नैवं शङ्क्यम्, इयङादेशे ह्रन्त्यलोपः प्रसज्येतेति दोषः स्यात् । एतच्च अतो लोपः॑इति सूत्रे भाष्ये स्थितम् । न चाऽत्रकारणा॑कारक॑ इत्यादौ गुणवृद्ध्योः कृतयोरन्तरङ्गत्वादयायादेशयोः कृतयोरन्त्यस्य लोपः प्राप्नोतीति कथमियङादेशे एव दोषौक्त इति शङ्क्यं,॒वार्णादाङ्गं बलीयःर॑ इत्ययादौ बाधित्वा णिलोपो भविष्यतीति भाष्याशयात् । ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेनेति । ण्यल्लोपाविति । णिलोपः इयङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेन । अल्लोपस्तु- वृद्धिदीर्घाभ्यामिति विवेकः । णिलोपस्य निरवकाशत्वेन वार्तिकस्योक्तसंभव एव नास्तीत्यत आह — पाक्तिरित्यादि क्तिजन्तमिति । तत्रतितुत्रे॑तीण्निषेधादिति भावः । वचनसामर्थ्यादिति । अयं भावः — णे॑रित्येतावति सूत्रे कृतेऽप्याद्र्धधातुक इत्यनुवृत्त्या आर्धधातुके परतः प्रवर्तमानो णिलोप इयङ्यणादिभिर्बाधितः सन् परिशेषात् क्तिच्येव स्यादित्यनिटीत्यस्य वैयथ्र्यं प्रसज्येत, तथा चाऽनिडाद्याद्र्धधातुकं सर्वमप्यस्य विषयो, न तु क्तिजन्तमेवेति । अयमिति । णिलोप इत्यर्थः । अल्लोपांशे तु वचनमपेक्षितमेव । तेनचिकीर्षक॑ इत्यत्र वृद्धि, चिकीष्र्यादित्यत्रअकृत्सार्वे॑ति दीर्घं च बाधित्वा पूर्वप्रतिषेधेनअतो लोपः॑ इति लोपो भवतीत्याहुः ।

Padamanjari

इयङदिभिरेव सर्वस्य विषयस्यावष्टब्धत्वादनवकाशो णिलोपस्तेषां बाधक इत्याह - इयङ्यणित्यादि । एननु पाचयतेः पाक्तिः, याजयतेर्याष्टिरित्युदारहिष्यति, ण्यासश्रन्थो युच् इति युचि प्राप्ते क्तिन्नजादिभ्यः इति क्तिन्प्रत्ययः क्तिज्वा पुनरयं द्रष्टव्यः, तत्कथमनवकाशः उच्यते, यद्येतावत् प्रयोजनं स्यात्, अनिटीति न वक्तव्यंस्यत्, अतोऽनिटीति वचनादीर्घधातुकमात्रविषयतास्यावसीयते, ततश्च युक्तमियङदीन्प्रत्यपवादत्वम् । वार्तिककारेण तु पूर्वविप्रतिषेधः पठितः - ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेन इति । अततक्षदिति । अत्र चङे ङित्वाद् गुणिस्याप्रसङ्गः, संयोगपूर्वत्वाद् एरनेकाचः इति यणोऽप्यप्रसङ्गः । इयङ् एएवायं विषयः, संयोगपूर्वत्वाद् एरनेकाचः इति यणोऽप्यप्रसङ्गः । इयङ् एवायं विषयः, अत्रेयङ् सिति पुनः प्रसङ्गविज्ञानात् भवन्नपि लोपोऽन्त्यस्य स्यात् । । आशिशदिति । एरनेकाचः इति यणोऽत्र प्रसङ्गः । अत्र सत्यपि यणि असिद्धत्वात्पुनःप्रसङ्गविज्ञानेन वा णिलोपे सति सिद्धमिष्टम् । एवं गुणवृद्धिदीर्घविषयेऽपि द्रष्टव्यम् । च न गुणवृद्ध्योरयादेशप्रसङ्गः, वार्णादाङ्गं बलीयः इति णिलोपः । ज्ञीप्सतीति । आप्ज्ञप्यृधामीत् अज्झनगमां सनि इति दीर्घप्रसङ्गः । अनिटीति शक्यमकर्तुम् । कथं कारयिता निष्ठायां सेटि इत्येतन्नियमार्थं भविष्यति - सेटि यदि भवति निष्ठायामेवेति । विपरीतस्तु नियमो न भवति - निष्ठायां सेट।लेवेति अनिटो निष्ठाया असम्भवात् । असम्भावश्चोतरसूत्रे वक्ष्यते । अथ वा - अयामन्ताल्वाय्येन्विष्णुषु इत्यत्र णेरिति योगविभागः क्रियते, सेट।लर्द्धधातुके णेरयादेशो भवति लोपस्यापवादः ॥

Nyaas

णेः इति। णिङणिचोर्विशेषकरावनुबन्धावुबन्धावुत्सृज्य यत्? समान्यं णिमात्रं तस्य ग्रहणम्। इयङादिभिः सर्वस्य विषयस्यावष्टब्धत्वादनवकाशीऽयं णिलोपस्तेषामपवादोऽयं विज्ञायत इत्यत आह -इयङ्यण् इत्यादि। अततक्षत्, अररक्षत् इति। तक्षिरक्षिभ्यां हेतुमण्णिच्, तदन्तालुङ्? णिश्रिदुरुआउभ्यः (3.1.48) इत्यादिना च्लेश्चङ्, ङित्त्वाद्? गुणस्य प्रसङ्ग एव नास्तीतीयङादेशः स्यात्। अतस्तस्यापवादो णिलोपः। `आटिटत्, आशिशत्। अटशिभ्यां पूर्वं णिजादिषु कृतेषु अजादेर्द्वितीयस्य (6.1.2) इति टिशब्दशिशब्दौ द्विरुच्येते। अत्र एरनेकाचः (6.4.82) इत्यादिना प्राप्तस्य यणादेशस्यायमपवादः। कारणा, हारणा इति। अत्र सार्वधातुकार्धधातुकयोः (7.3.84) इति प्राप्तस्य गुणस्य। कारकः, हारकः इति। अत्र अचो ञ्णिति (7.2.115) इति वृद्धेः। कार्यते, हार्यते इति। अत्र अकृत्सार्वधातुकयोः (7.4.25) इति प्राप्तस्य दीर्घस्य। ज्ञीप्सति इति। अज्झनगमां सनि (6.4.16) इति प्राप्तस्य दीर्घस्यैव। जानातेर्णिचि अर्त्तिह्यी (7.3.36) इत्यादिना पुक्, मारणतोषणनिशामनेषु ज्ञा (धातुपाठः-811) इति घटादिपाठात्? घटादयो मितः (ग।सू।धातुपाठः-817) इति मित्संज्ञा, मितां ह्रस्वः (6.4.92) इति ह्रस्वत्वम्, अत्र लोपोऽभ्यासस्य (7.4.58) इत्यभ्यासलोपः। कारयिता, हारयिता इति। अनिटि इति वचनादिह न भवति। अनिटि इति शक्यमकर्तुम्। कथम्? निष्ठायां सेटि (6.4.52) इति नियमार्थं भविष्यति -निष्ठायामेव सेटि, नान्यत्रेति? अयुक्तमेतत्, विपरीतनियमोऽप्याशङ्क्येत -सेटएव निष्ठायाम् इति। तथा च सति कारयिता इत्यत्र स्यादेव णिलोपः। तस्माद्विपरीतनियमाशङ्कानिरासार्थं अनिटि इत्युक्तम्॥

Prakriyasarvasvam

अनिट्यार्धधातुके परे णेर्लोपः स्यात् । चोर्यम् । इटि तु णेर्लोपाभावाद् गुणायादेशौ । चोरयितव्यम् । ‘णेरनिटि’त्यत्र ‘क्यस्य विभाषा’ (६-४-५०) इत्यतो विभाषानुवृत्त्या गणयतेर्यति णिलोपो वेत्याहुः । गणि य । गुणे कृते गणेयम् । णिलोपे गण्यम् ।

Sutra Prayogas

  • व्याघानितास्महे (भट्टिकाव्यम्): णेरनिटि इति इटोऽसिद्धत्वात् णिलोपः।

  • **** (भट्टिकाव्यम्): णेरनिटि इति इटोऽसिद्धत्वात् णिलोपः।