64050: क्यस्य विभाषा¶
Padacheda: क्यस्य | S | 6 | 1 |
विभाषा | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The elision of य of he Denominative अङ्ग (stem) (क्य) is optional when preceded by a consonant and followed by an आर्धधातुक affix.
Vasu English Translation¶
The elision of य of he Denominative अङ्ग (stem) (क्य) is optional when preceded by a consonant and followed by an आर्धधातुक affix. The क्य denotes the affixes क्यच् and क्यङ् ॥ Thus समिध्यिता or समिधिता, दृषद्यिता or दृषदिता meaning समिधमात्मन इच्छति or समिध इवाचरति &c.
Kashika¶
क्यस्य हल उत्तरस्य विभाषा लोपो भवत्यार्धधातुके। समिध्यिता, समिधिता। दृषद्यिता, दृषदिता। समिधमात्मन इच्छति, समिद् इवाचरति इति वा क्यच्क्यङौ यथायोगं कर्तव्यौ॥
Siddhanta Kaumudi¶
हलः परयोः क्यच्क्यङोर्लोपो वा स्यादार्धधातुके । आदेः परस्य (SK44) । अतो लोपः (SK2308) । तस्य स्थानिवत्त्वाल्लघूपधगुणो न । समिधिता । समिध्यिता ॥<!मान्तप्रकृतिकसुबन्तादव्ययाच्च क्यच् न !> (वार्तिकम्) ॥ किमिच्छति । इदमिच्छति । स्वरिच्छति ॥
Laghu Siddhanta Kaumudi¶
हलः परयोः क्यच्क्यङोर्लोपो वार्धधातुके। आदेः परस्य। अतो लोपः। तस्य स्थानिवत्त्वाल्लघूपधगुणो न। समिधिता, समिध्यिता॥
Balamanorama¶
क्यस्य विभाषा - क्यस्य विभाषा । ‘यस्य हलः’ इत्यतो हल इति पञ्चम्य्नतमनुवर्तते । ‘आर्धधातुके’ इत्यधिकृतम् । तदाह — हलः परयोः क्यच्क्यङोरिति । क्यष् तु नात्र गृह्रते,लोहितडाज्भ्यः क्यष्वचन॑मिति वक्ष्यमाणतया हलन्तात्तदभावात् । अन्तलोपमाशङ्क्याह — आदेः परस्येति । तथा च मिध् अ इता इति स्थिते आह — अतो लोप इति । तथा च समिध् इता इति स्थिते लघूपधगुणमाशङ्क्याह — तस्य स्थानिवत्त्वादिति । क्यच्सूत्रेमान्ताव्ययेभ्यः प्रतिषेधः॑ इति वार्तिकम् । मान्तेभ्योऽव्ययेभ्यश्च प्रतिषेध इत्यर्थे पुत्रमात्मन इच्छति पुत्रीयतीत्यत्र न स्यात्, पुत्राविच्छतीत्यादेव स्यात् । मान्तानि अव्ययानि मान्ताव्ययानि तेभ्य इत्यर्थे स्वरिच्छतीत्यत्र क्यचः प्रतिषेधो न स्यात् । अतस्तद्वार्तिकं विवृण्वन्नाह — मान्तप्रकृतिकेति ।
Padamanjari¶
क्यस्य इति क्यच्क्यङेः सामान्येन ग्रहणम्, क्यषस्तु हलन्तादसम्भवः । समिधमिवात्मानमाचरतीति । अपपाठोऽयम्, एवं हि क्यङे वाक्यं न प्रदर्शितं स्यात्, क्यचश्च द्वितीयं वाक्यामनर्थकं स्यात् । विधिभेदान्नानर्थकमिति चेत् यद्येवम्, अधिकरणाच्चेति वक्तव्यम् इत्यस्यापि प्रदर्शनीयं स्यात् । तस्मात्समिदिवाचरतीति पाठः । अत्र केचित्कण्ड्वादियकोऽपि ग्रहणमिच्छन्ति, क्यस्य इति कतो यकारस्य ग्रहणे तात्पर्यम्, ताअदित्वं ककारस्याविवक्षितं वदन्ति, नेति वयमादित्वाविक्षायं प्रमाणाभावात् ॥
Nyaas¶
क्य इति क्यच्क्यङोरुत्सृष्टानुबन्धयोः सामान्येन ग्रहणम्; विशेषानुपादानात्। समिधमिवात्मानमाचरति इति। वेति वाशब्दः समुच्चये वर्तमानः समिदिवाचरतीत्यमुमर्थं ग्राहयति। यथायोगम् इति। यदात्मनः समिधमिच्छतीत्यर्थो विवक्ष्यते, तदा सुप आत्मनः क्यच् (3.1.8) इति क्यच्? कर्तव्यः, यदा समिधमिवात्मानामाचरतीति तदा उपमानादाचारे (3.1.10) इति क्यजेव, यदा समिदिवाचरतीति तदा कर्तुः क्यङ्? सलोपश्च (3.1.11) इति क्यङ् -इत्येष यथायोगशब्दार्थः॥
Prakriyasarvasvam¶
हलः परयोः क्यच्क्यङोर्यकारस्यार्धधातुके आदिलोपो वा स्यात् । ‘अत लोपः’ (६-४-४८) तस्य स्थानिवत्त्वादुपधागुणो न । अगोदुहीत्, अगोदुह्यीत् । गोदुहाञ्चकार, गोदुह्याञ्चकार । दिवमिच्छति दिव्यति । चतुर्यति । वान्तरान्तयोरधातुत्वाद् ‘हलि च’ (८-२-७७) इति दीर्घो न । क्विबन्तानां धातुत्वात्-गीर्यति, गीर्यिता, गिरिता । अत्र हलभावान्न दीर्घः । ‘मान्ताव्यययाः क्यज्नेति वाच्यम्’ वा । इदमिच्छति । स्वरिच्छति ।
Sudha¶
क्यस्य विभाषेति । यस्य हलः (6.4.49) इत्यतो हल इति पञ्चम्यन्तमनुवर्तते । आर्धधातुके (6.4.46) इत्यधिकृतम् । तदाह-हल:परयोरित्यादिना । अन्तलोपमाशङ्क्याह - आदेः परस्येति । लटि “समिध्यति” इति रूपम् । लिटि “समिधाञ्चकार”, “समिध्याञ्चकार” इति । “समिधिता”, “समिध्यिता”। समिधमात्मानमिच्छति इत्यर्थे क्यचि, धातुसंज्ञायाम् अमो लुकि, कचयोर्लोपे, नः क्ये (1.4.15) इति नियमेन पदत्वाभावान्न जश्त्वम् । तस्मात् “समिध्य” इति धातोर्लुटि, लुटस्तिपि, तिपो डात्वे, तासौ, टिलोपे तास आर्धधातुकत्वादिटि “समिध् य इ त् आ” इति जाते क्यस्य विभाषा (6.4.50) इति यलोपे प्राप्ते, अलोऽन्त्यस्य (1.1.52) इति परिभाषां प्रबाध्य आदेः परस्य इत्यनेन य् मात्रस्य लोपे, अतो लोपः (6.4.48) इत्यनेन अकारस्य च लोपे “समिधिता” इति रूपम् । क्यचो लोपाभावे समिध्यिता इति रूपम् । लृटि - “समिधिष्यति”, “समिध्यिष्यति” । लोटि - “समिध्यतु” । लङि -“असमिध्यत्” । लिङि - “समिध्येत्” । आशिषि - “समिध्यात्”, “समिध्य्यात्” । लुङि - “असमिधीत्”, “असमिध्यीत्” । लुङि - “असमिधिष्यत्”,”असमिध्यिष्यत्” इति ।