64046: आर्धधातुके ================= **Padacheda:** आर्धधातुके | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- From this up to युप्लुवोर्दीर्घश्छन्दसि (6.4.68), inclusive, is always to be supplied the words ' before an affix called आर्धधातुक -- आर्द्धधातुकं शेषः (3.4.114) etc.' Vasu English Translation ------------------------ From this up to युप्लुवोर्दीर्घश्छन्दसि (6.4.68), inclusive, is always to be supplied the words ' before an affix called आर्धधातुक -- आर्द्धधातुकं शेषः (3.4.114) etc.' This is an *adhikara* *sutra* and extends upto (6.4.69) (exclusive). In all the *sutras* upto (6.4.68) should be supplied the phrase "before an affix called *ardhadhatuka*". Thus (6.4.48) teaches "the अ standing at the end of a verbal stem is elided". To complete the sense we should add: "before an *ardhadhatuka* affix". Thus the final अ of the verbal stem चिकीर्ष is elided before the *ardhadhatuka* affix तृ, as चिकीर्षितृ, जिहीर्षितृ, but the final अ is not elided before a *sarvadhatuka* affix, as the अ of भव in भवति, भवतः ॥ The *luk*-elision of शप् after roots of अदादि class, implies that there is never *lopa* of शप् ॥ The following purposes are served by this *sutra*, i. e. an *ardhatuka* affix causes the following special changes (1) अतोलोपः - The elision of अ of a stem, as shown above, in चिकीर्षिता, चिकीर्षितुम्, (2) यलोपश्च, The elision of य by (6.4.49), (6.4.50) : as बेभिदिता, बेभिदितुम्, बेभिदितव्यम् from बेभिद्य the Intensive stem. Before *Sarvadhatuka*, we have बेभिद्यते, चेच्छिद्यते ॥ (3) णिलोपश्च प्रयोजनम्, The elision of णि by (6.4.51), as कारणा हारणा पाच्यते (पाचि + यक् + ते = पाच् + य + ते), याज्यते ॥ In *Sarvadhatuka*, पाचयति, याजयति, कारयति, हारयति ॥ (4) आल्लोपः, the elision of आ, (6.4.64) -- as पपतुः, पपुः, ववतुः ववुः, In *Sarvadhatuka*, यान्ति, वान्ति (5) ईत्वम् -- The substitution of long ई for आ in some roots, (6.4.65) as धीयते, दीयते; in *Sarvadhatuka* अदाताम्, अधाताम् (6) एत्वम् -- The substitution of ए for आ, (6.4.68); as स्नेयात्, ग्लेयात्; in *Sarvadhatuka*, स्नायात्, ग्लायात् ॥ This is confined to the Precative (*asirlin*). (7) चिण्वद्भावश्च सीयुटि, the treatment of the Precative like Aorist Passive in चिण्, by (6.4.62). as कारिषीट, हारिषीट ॥ In *Sarvadhatuka* क्रियेत, ह्रियेत ॥ _Kaisika :- अतो लोपो यलोपश्च णिलोपश्च प्रयोजनम् । आल्लोप ईत्वमेत्वं च चिण्वभावश्च सीयुटि ॥ Bhashya ------- आर्धधातुके (3044) (अधिकारप्रयोजनाधिकरणम्) (अधिकाराक्षेपभाष्यम्) कानि पुनरार्धधातुकाधिकारस्य प्रयोजनानि ? (अधिकारप्रयोजने श्लोकवार्तिकम्) अतो लोपो यलोपश्च णिलोपश्च प्रयोजनम् । आल्लोप इर्त्वमेत्वं च चिण्वद्भावश्च सीयुटि ॥ 1 ॥ अतो लोपः - चिकीर्षिता, चिकीर्षितुम् । आर्द्धधातुक इति किमर्थम् ? चिकीर्षति ॥ (प्रयोजनाक्षेपभाष्यम्) नैतदस्ति प्रयोजनम् । अस्त्वत्र सनोऽकारलोपः, शपोऽकारस्य श्रवणं भविष्यति ॥ (समाधानभाष्यम्) शप एव तर्हि मा भूदिति ॥ (आक्षेपभाष्यम्) एतदपि नास्ति प्रयोजनम् । आचार्यप्रवृत्तिर्ज्ञापयति - नानेन शपोऽकारस्य लोपो भवतीति, यदयमदिप्रभृतिभ्यः शपो लुकं शास्ति ॥ (ज्ञापकाक्षेपभाष्यम्) नैतदस्ति ज्ञापकम् । कार्यार्थमेतत्स्यात् । वित्तः, मृष्ट इति ॥ (प्रकारान्तरेण समाधानभाष्यम्) यत्तर्हि आकारान्तेभ्यो लुकं शास्ति - याति, वाति । अस्तेश्च । अस्तेश्च शपो लुकं शास्ति । अस्ति ॥ (अधिकारप्रयोजनभाष्यम्) इदं तर्हि प्रयोजनम् - वृक्षस्य । अतो लोपः प्राप्नोति ॥ (अधिकारप्रयोजनभाष्यम्) यलोपोऽपि प्रयोजनम् - बेभिदिता, चेछिदिता । आर्धधातुक इति किमर्थम् ? बेभिद्यते । चेछिद्यते ॥ (अधिकारप्रयोजनभाष्यम्) णिलोपः प्रयोजनम् - याज्यते, पाच्यते । आर्धधातुक इति किमर्थम् ? पाचयति, याजयति ॥ (अधिकारप्रयोजनभाष्यम्) आल्लोपः - ययतुः, ययुः ववतुः, ववुः । आर्धधातुक इति किमर्थम् ? यान्ति, वान्ति ॥ (अधिकारप्रयोजनभाष्यम्) इर्त्वम् - धीयते, दीयते । आर्धधातुक इति किमर्थम् ? अदाताम् । अधाताम् ॥ (अधिकारप्रयोजनभाष्यम्) एत्वम् - ग्लेयात्, म्लेयात् । आर्धधातुक इति किमर्थम् ? स्नायात् । स्नायाताम् ॥ (अधिकारप्रयोजनभाष्यम्) चिण्वद्भावश्च सीयुटि । चिण्वद्भावे सीयुटि किमुदाहरणम् ? कारिषीष्ट, हारिषीष्ट । आर्धधातुक इति किमर्थम् ? क्रियेत, ह्रियेत । नैतदुदाहरणम् । यका व्यवहितत्वान्न भविष्यति । इदं तर्ह्युदाहरणम् - प्रस्तुवीत । इदं चाप्युदाहरणम् - क्रियेत, ह्रियेत । ननु चोक्तं - यका व्यवहितत्वान्न भविष्यतीति । यक एव तर्हि मा भूदिति । किञ्च स्यात् ? वृद्धिः, वृद्धौ कृतायां युक् प्रसज्येत ॥ Kashika ------- आर्धधातुक इत्यधिकारः। **न ल्यपि** (६.४.६९) इति प्रागेतस्माद् यदित ऊर्ध्वमनुक्रमिष्याम आर्धधातुक इत्येवं तद् वेदितव्यम्। वक्ष्यति — **अतो लोपः** (६.४.८) — चिकीर्षिता । जिहीर्षिता। आर्धधातुक इति किम्? भवति, भवतः। अदिप्रभृतिभ्यः शपो लुग्वचनं (२.४.७२) प्रत्ययलोपलक्षणप्रतिषेधार्थं स्यादित्येतद् न ज्ञापकं शपो लोपाभावस्य। **यस्य हलः** (६.४.४९) — बेभिदिता। बेभिदितुम्। बेभिदितव्यम् आर्धधातुक इति किम्? बेभिद्यते। **णेरनिटि** (६.४.५१) — कारणा। हारणा। आर्धधातुक इति किम्? कारयति। हारयति। **आतो लोप इटि च** (६.४.६४) ययतुः, ययुः। ववतुः, ववुः। आर्धधातुक इति किम्? यान्ति। वान्ति। **घुमास्थागापाजहातिसां हलि** (६.४.६६) — दीयते। धीयते। आर्धधातुक इति किम्? अदाताम्। अधाताम्। **वान्यस्य संयोगादेः** (६.४.६८) — स्नेयात् स्नायात्। आर्धधातुक इति किम्? स्नायात्। आशीर्लिङोऽन्यत्र न भवति। **स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च** (६.४.६२) — कारिषीष्ट। हारिषीष्ट। आर्धधातुक इति किम्? क्रि येत। ह्रियेत। यगन्तस्याजन्तत्वात् चिण्वद्भावे सति वृद्धिः स्यात्, ततश्च युक् प्रसज्येत। अतो लोपो यलोपश्च णिलोपश्च प्रयोजनम्। आल्लोप ईत्वमेत्वं च चिण्वद्भावश्च सीयुटि॥ Siddhanta Kaumudi ----------------- इत्यधिकृत्य ॥ Padamanjari ----------- चिकीर्षितेति । सनन्तातृच् भवतीति सर्वत्रातो लोपे कृते अतो दीर्घो यञि इत्यस्य कोऽवकाशः, वचनात्पचाव त्यादिउ लोपं बाधित्वा दीर्घोऽस्तु । तत्र चरितार्थमदुपदेशाल्लसर्वधातुकानुदातत्वम् इति तदपि न ज्ञापकं सार्वधातुकेऽतो लोपाभावस्य यतर्ह्यदिप्रभृतिभ्यः शपो लुकं शास्ति तज्ज्ञापयति - न शपोऽतो लोप इति तत्राह - अदिप्रमृतिभ्यः शप इति । ये तर्हि न गुणवृद्धिभाजोऽदिप्रभृतयस्तेषामदादिषु पाठोनर्थकः सत्यम् वृक्षत्वम्, वृक्षतेत्यादावतो लोपे आर्दधधातुकाधिकारस्य प्रयोजनम् - बेभिद्यते इत्यत्र शपि सार्वधातुके न भवति । यङे यकारोपशस्तु हलन्तेषु चरितार्थः । कारवतीति । णिज्विधानं प्रत्ययलक्षणार्थमियङ्थ च स्यात् । यान्तीति । ननु श्नाभ्यस्तयोरात्ः इत्येन्नियमार्थ भविष्यत् - सार्वधातुके श्नाभ्यस्तयोरेवेति नैतदस्ति विपरीतोऽपि नोयमः स्यात् - श्नाभ्यस्तयोः सार्वधातुक एवेति, तदा च ययतुरित्यादौ न स्यात् । श्नाग्रहणं तूतरार्थ स्यात् । अदातामिति । लुङ्, गातिस्थाघु इत्यादिना सिचो लुक् । चिण्वद्भावे सति वृद्धिः स्यादिति । नन्वतो लोपो वृद्धेः पूर्वविप्रतिषेधे, तद्यथा - चिकीर्षक इति, अदिहनिमावाप्रभृतिभ्यः शपो लुग्विधानेन सार्वधातुकेऽतोलोपाभावस्य ज्ञापितत्वात्स्वाश्रयोऽतो लापो मा एभूच्चिण्वद्भावातु चिणि तस्य दर्शनात्स्यादेव । वृत्तिकारेण तु प्राप्तिमात्रमाश्रित्य वृद्धिः स्यात् - इत्युक्तम् । दोषोपलक्षणं वृद्धग्रहणम्, लोपेऽपि रुपासिद्धरेव । ततो युक् प्रसज्येतेति । आद्गुणः, इति तु वार्णत्वान्न लभ्यते, इट्प्रसङ्गस्तु विशेषाभावान्नोक्तः । प्रयोजनसंग्रहर्श्लोको गतार्थः । भ्रस्जो रोपधयोरमन्यतरस्याम्, दीङे युडचि क्ङिति इत्यत्र तु नास्य प्रयोजनम्, कथम् भृज्जतेः सार्वधातुके तुदादित्वाच्छः, तत्र ग्रहिज्यादिसूत्रेण सम्प्रसारणम् । दीङेऽपि दिवादित्वान् श्यना भाव्यमित्युक्तान्येव प्रयोजनानि । असिद्धत्वनिवृत्यर्थं द्वितीयाध्यायगोचरोः । आदेशा नेह विहिता वुगाल्लोपौ प्रयोजनम् ॥ अन्यथा - अस्त्यादेशस्य भवतेरसिद्धत्वान्न वुग्भवेत् । न चाचख्यतुरित्यादावाल्लोपः ख्याञसिद्धितः ॥ Nyaas ----- `चिकीर्षिता` इति। सन्नन्तात्? तुच्। `भवति, भवतः` इति। `आर्धधातुके` इत्यधिकारात्? सार्वधातुकेऽत्र शपो लोपो न भवति। यद्यत्र शपो लोपो मा भूदित्येवमर्थ आर्धधातुकाधिकारः क्रियते, तर्हि न कर्तव्यः, ज्ञापकादेव शपो लोपो न भविष्यति, आचार्यप्रवृत्तिज्र्ञापयति -`नानेन शपो लोपो भवति` इति यदयम्? **अदिप्रभृतिभ्यः शपः** (2.4.72) इति शपो लुकं शस्ति? इत्यत आह -`अदिप्रभृतिभ्यः` इत्यादि। इतिकरणो हेतौ। असति हि प्रयोजने ज्ञापकं भवति। अस्ति चादिप्रभृतिभ्यः शपो लुग्वचनस्य प्रयोजनम्। किं तत्? `वित्तः` इत्यत्र गुणो मा भूत्। यदि `वित्तः` इत्यत्र लोपः स्यात्, प्रत्ययलक्षणेन `पुगन्तलघूपधस्य` (7.3.86) इति गुणः स्यात्। `मृष्टः` इत्यत्र **मृजेर्वृद्धिः** (7.2.114) लुकि तु सति न भवति, **न लुमताङ्गस्य** (1.1.63) इति प्रत्ययलक्षणप्रतिषेधात्। तस्माददिप्रभृतिभ्यः शपो लुग्वचनं प्रत्ययलक्षमप्रतिषेधार्थं स्यादिति न ज्ञापकं शपो लोपाभावस्य। `बेभिदिता` इति। यङो लोपः। `बेभिद्यते` इत्यत्र शपि सार्वधातुके न भवति।`कारणा` इति। **ण्यासश्रन्थो युच्** (3.3.107) । `कारयति` इति शपि सार्वधातुके न भवति। `पपतुः, पपुः`। `ववतुः` ववुः` इति। अतुसुसौ। पातेर्वातेश्च **आतो लोप इटि च** (6.4.64) इत्यकारलोपः।`दीयते धीयते` इति। आर्धधातुके यकीत्त्वम्। `अदाताम्? अधाताम्` इति। लुङ, `तस्थस्थ` (3.4.101) इति तसस्ताम्; `गातिस्था` (2.4.77) इत्यादिना सिचो लुक्। `स्नायात्, स्नेयात्` इति। स्नातेराशिषि लिङ, तस्य **लिङाशिषि** (3.4.116) इत्यार्धधातुकसंज्ञा, यासुट्, `स्कोः संयोगाद्योः` (8.2.29) इत्यादिना सकारलोपः। `आशीर्लिङोऽक्यत्र न भवति` इति। आशीर्लिङोऽन्यद्? विष्यादिलिङः, तत्र न भवति; तस्य सार्वधातुकसंज्ञकत्वात्। तेन तत्र नित्यं `स्नायात्` इत्येवं भवति। अत्र **लिङः सलोपोऽनन्त्यस्य** (7.2.79) इति सकारलोपः। `कारिषीष्ट` इति। आशिषि लिङः, सीयुट्, **भावकर्मणोः** (1.3.13) इत्यात्मनेपदम्, `सुट्? तिथोः` (3.4.107) इति सुट्? चिण्वद्भावाद्वृद्धिः। `क्रियेत` इति। विष्यादिलिङः। पूर्ववदात्मनेपदम्, सार्वधातुके यक्, सीयुडीकरेण सह **आद्गुणः** (6.1.87) **लोपो व्योर्वलि** (6.1.66) इति यकारलोपः, `रिङशयग्लिङक्षु` (7.4.28) इति रिङादेशः। अत्र चिण्वद्भादेन यो दोषः स्यात्? तं `यगन्तस्य` इत्यादिना दर्शयति। यद्यत्र चिण्वद्भावात्? वृद्धिः स्यात्, ततश्च `आतो युक्? चिण्कृतोः` (7.3.33) इति युक्? प्रसज्येत। `अतो लोपो यलोपश्च` इत्यादि। आर्धधातुकाधिकारप्रयोजनसंग्रहश्लोकः। गतार्थः। नन्वत्र `भ्रस्जो रोपधयो रमन्यतरस्याम्` (6.4.47) इति रम्, **दीङो युडचि क्ङिति** (6.4.63) इति युडार्धधातुकाधिकार एव विधास्यते, तत्? कस्मात्? तौ तत्र प्रयोजनत्वेन नोपात्तौ? एवं मन्यते -भ्रस्जो रम्भाव आर्धधातुकाधिकारं न प्रयोजयति, स, तु तुदादौ पठते, ततः सार्वधातुके परतः शेन भवितव्यम्। शे च सति पूर्वविप्रतिषेधाद्? ग्रहिजयादि (6.1.16) सूत्रेण सम्प्रसारणेन भवितव्यम्। युडपि नैव प्रयोजयति, दीङो हि दिवादित्वात्? सार्वधातुके श्यना भवितव्यम्। ततोऽजादित्वाभावादेव युडागमस्याभाव एव। `आर्धधातुके` इति यदार्धधातुकसामान्यं विवक्ष्यते, तदा सामान्ये पौर्वापर्यासम्भवात्? विषयसप्तमीयम्। यदार्धधातुकव्यक्तिस्तदा परसप्तमी। प्रतिपादितञ्चास्मभिः `न धातुलोपः` (1.1.4) इत्यत्र ज्ञापकद्वारेण परसप्तमीत्वं विषयसप्तमीत्वञ्चास्येति॥