64043: ये विभाषा

Padacheda: ये | S | 7 | 1 |

विभाषा | S | 1 | 1 |

Sutrartha


Vasu English Summary

There is optionally the substitution of long आ for the finals of जन् , सन् and खन् before the affix beginning with य and marked with an indicatory क् or ङ्।

Vasu English Translation

There is optionally the substitution of long आ for the finals of जन् , सन् and खन् before the affix beginning with य and marked with an indicatory क् or ङ्। Thus जायते or जन्यते (with यक्) जाजायते or जज्जन्यते (with यङ्) । So also सायते or सन्यते, सासायते, or संसन्यते, खायते, or खन्यते, चाखायते or चङ्खन्यते ॥ Before the vikarana श्यन् of the Fourth class, which is ङित् according to (l. 2.4); the जा is always substituted for जन् by (7.3.79). No option is allowed there.

Kashika

यकारादौ क्ङिति प्रत्यये परतो जनसनखनामाकार आदेशो भवति विभाषा। जायते, जन्यते। जाजायते, जञ्जन्यते। सायते, सन्यते। सासायते, संसन्यते। खायते, खन्यते। चाखायते, चङ्खन्यते। जनेः श्यनि ज्ञाजनोर्जा (७.३.७९) इति नित्यं जादेशो भवति॥

Siddhanta Kaumudi

जनसनखनामात्वं वा स्याद्यादौ क्ङिति । सायात् । सन्यात् ।{$ {!465 अम!} गत्यादिषु कनी दीप्तिकान्तीत्यत्र गतेः परयोः शब्दसंभक्त्योरादिशब्देन संग्रहः$} । अमति । आम ।{$ {!466 द्रम!} {!467 हम्म!} {!468 मीमृ!} गतौ$} । द्रमति । दद्राम । ह्म्यन्त -(SK2288) इति न वृद्धिः । अद्रमीत् । हम्मति । जहम्म । मीमति । मिमीत । मिमीम । अयं शब्दे च ।{$ {!469 चमु!} {!470 छमु!} {!471 जमु!} {!472 झमु!} अदने$} ॥

Laghu Siddhanta Kaumudi

जनसनखनामात्वं वा यादौ क्ङिति। सायात्, सन्यात्॥

Balamanorama

ये विभाषा - आशीर्लिङि विशेषमाह — ये विभाषा ।जनसनखनां सञ्झलो॑रित्यतो जनसनखनाभित्यनुवर्तते । अनुदात्तोपदेशेत्यतः क्ङितीति । ‘ये’ इति तद्विशेषणम् । अकार उच्चारणार्थः । तदादिविदिः ।विड्वनोरनुनासिकस्या॑दित्यत आदित्यनुवर्तते । तदाह — जनसनखनामित्यादिना । सायादिति । नकारस्य आत्वे सवर्णदीर्घः । द्रम हम्म । आद्योऽदुपधः । न वृद्धिरिति ।अद्रमी॑दित्यत्र हलन्तलक्षणायां वृद्धौनेटी॑ति निषिद्धायां ,ह्म्यन्ते॑त्यतोऽतो हलादेरिति वृद्धिर्नेत्यर्थः । जहम्मेति । अभ्यासचुत्वेन हस्य झः । तस्यअभ्यासे चर्चे॑त्यनेन जः । मिमीमेति । मीमृधातोर्णलि द्वित्वे अभ्यासह्रस्वः । अयं शब्दे चेति । मीमृधातुरित्यर्थः ।

Tattvabodhini

ये विभाषा - गत्यादिष्विति । गतिशब्दसंभवक्तिष्वित्यर्थः । मीमृ । ऋदित्फलं तुनाग्लोपी॑ति निषेधः । अमिमीमत् ।

Padamanjari

जायत इति । यक् । नित्यं जादेशो भवतीति । तस्यानवकाशत्वात् । तेन श्यनि जायते इत्येव भवति, न तु कदाचित् जन्यत इति ॥

Nyaas

असज्झलाद्यर्थ आरम्भः। जायते, जन्यते इति। भावे लकारः। जाजायते इति। यङ्, दीर्घोऽकितः (7.4.83) इत्यभ्यासस्य दीर्घत्वम्। जञ्जन्यते इति। नुगतोऽनुनासिकान्तस्य (7.4.85) नुगागमः सायते, सन्यते इति। भावे कर्मणि वा लकारः। जनेः श्यन्यपि विभाषाऽऽत्त्वेन भवितव्यमिति कस्यचिद्? भ्रान्ति स्यात्, अतस्तां निराकर्तुमाह -जनेः श्यनि इत्यादि। जनेर्दिवादित्वात्? श्यनि विहिते सत्युमयं प्राप्नोति, अनेन विभाषाऽऽत्त्वम्, ज्ञाजनोर्जा (7.3.79) इति जाभावश्च, तत्र जादेशस्यानवकाशत्वात्? स एव नित्यं भवति। तेन श्यनि जायते इत्येवं नित्यं भवति, न तु कदाचित्? जन्यते इति॥

Prakriyasarvasvam

यादौ क्ङिति परे जससनखनामन्तादेश आद्वा स्यात् । सायते, सन्यते । लुङि असानीत्, असनीत् । तङि ‘तनादिभ्यस्तथासोः (२-४-७९) इति सिज्लोपे तथासोर्ङित्त्वाद् ‘जनसनखनां सञ्झलोः’ (६-४-४२) इत्यात्वम् । असात, असनिष्ट । असनिषाताम् । असाथाः, असनिष्ठाः । लिटि ससान । सेनतुः । इत्यादि तनिवत् । आशिषि ‘ये विभाषा’ (६-४-४३) इत्यात्वं यशब्दाभावान्नेति माधवः । यादित्वात् स्यादिति कौमुदी । सायात्, सन्यात् । सनिषीष्ट । सनिता । सनिष्यति, सनिष्यते । डुकृञ् करणे । करोति । ‘अत उत्सार्वधातुके’ (६-४-११०) कुरुतः ।१ यणादेशः । ‘हलि च’ (८-२-७७) इति दीर्घस्य ‘न भकुर्च्छुराम् (८-२-७९) इति निषेधः । कुर्वन्ति । करोषि । कुरुथः । करोमि ।