64043: ये विभाषा ================ **Padacheda:** ये | S | 7 | 1 | विभाषा | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- There is optionally the substitution of long आ for the finals of जन् , सन् and खन् before the affix beginning with य and marked with an indicatory क् or ङ्। Vasu English Translation ------------------------ There is optionally the substitution of long आ for the finals of जन् , सन् and खन् before the affix beginning with य and marked with an indicatory क् or ङ्। Thus जायते or जन्यते (with यक्) जाजायते or जज्जन्यते (with यङ्) । So also सायते or सन्यते, सासायते, or संसन्यते, खायते, or खन्यते, चाखायते or चङ्खन्यते ॥ Before the *vikarana* श्यन् of the Fourth class, which is ङित् according to (l. 2.4); the जा is always substituted for जन् by (7.3.79). No option is allowed there. Kashika ------- यकारादौ क्ङिति प्रत्यये परतो जनसनखनामाकार आदेशो भवति विभाषा। जायते, जन्यते। जाजायते, जञ्जन्यते। सायते, सन्यते। सासायते, संसन्यते। खायते, खन्यते। चाखायते, चङ्खन्यते। जनेः श्यनि **ज्ञाजनोर्जा** (७.३.७९) इति नित्यं जादेशो भवति॥ Siddhanta Kaumudi ----------------- जनसनखनामात्वं वा स्याद्यादौ क्ङिति । सायात् । सन्यात् ।{$ {!465 अम!} गत्यादिषु कनी दीप्तिकान्तीत्यत्र गतेः परयोः शब्दसंभक्त्योरादिशब्देन संग्रहः$} । अमति । आम ।{$ {!466 द्रम!} {!467 हम्म!} {!468 मीमृ!} गतौ$} । द्रमति । दद्राम । ह्म्यन्त -(SK2288) इति न वृद्धिः । अद्रमीत् । हम्मति । जहम्म । मीमति । मिमीत । मिमीम । अयं शब्दे च ।{$ {!469 चमु!} {!470 छमु!} {!471 जमु!} {!472 झमु!} अदने$} ॥ Laghu Siddhanta Kaumudi ----------------------- जनसनखनामात्वं वा यादौ क्ङिति। सायात्, सन्यात्॥ Balamanorama ------------ **ये विभाषा** - आशीर्लिङि विशेषमाह — ये विभाषा ।जनसनखनां सञ्झलो॑रित्यतो जनसनखनाभित्यनुवर्तते । अनुदात्तोपदेशेत्यतः क्ङितीति । 'ये' इति तद्विशेषणम् । अकार उच्चारणार्थः । तदादिविदिः ।विड्वनोरनुनासिकस्या॑दित्यत आदित्यनुवर्तते । तदाह — जनसनखनामित्यादिना । सायादिति । नकारस्य आत्वे सवर्णदीर्घः । द्रम हम्म । आद्योऽदुपधः । न वृद्धिरिति ।अद्रमी॑दित्यत्र हलन्तलक्षणायां वृद्धौनेटी॑ति निषिद्धायां ,ह्म्यन्ते॑त्यतोऽतो हलादेरिति वृद्धिर्नेत्यर्थः । जहम्मेति । अभ्यासचुत्वेन हस्य झः । तस्यअभ्यासे चर्चे॑त्यनेन जः । मिमीमेति । मीमृधातोर्णलि द्वित्वे अभ्यासह्रस्वः । अयं शब्दे चेति । मीमृधातुरित्यर्थः । Tattvabodhini ------------- **ये विभाषा** - गत्यादिष्विति । गतिशब्दसंभवक्तिष्वित्यर्थः । मीमृ । ऋदित्फलं तुनाग्लोपी॑ति निषेधः । अमिमीमत् । Padamanjari ----------- जायत इति । यक् । नित्यं जादेशो भवतीति । तस्यानवकाशत्वात् । तेन श्यनि जायते इत्येव भवति, न तु कदाचित् जन्यत इति ॥ Nyaas ----- असज्झलाद्यर्थ आरम्भः। `जायते, जन्यते` इति। भावे लकारः। `जाजायते` इति। यङ्, **दीर्घोऽकितः** (7.4.83) इत्यभ्यासस्य दीर्घत्वम्। `जञ्जन्यते` इति। **नुगतोऽनुनासिकान्तस्य** (7.4.85) नुगागमः `सायते, सन्यते` इति। भावे कर्मणि वा लकारः। जनेः श्यन्यपि विभाषाऽऽत्त्वेन भवितव्यमिति कस्यचिद्? भ्रान्ति स्यात्, अतस्तां निराकर्तुमाह -`जनेः श्यनि` इत्यादि। जनेर्दिवादित्वात्? श्यनि विहिते सत्युमयं प्राप्नोति, अनेन विभाषाऽऽत्त्वम्, **ज्ञाजनोर्जा** (7.3.79) इति जाभावश्च, तत्र जादेशस्यानवकाशत्वात्? स एव नित्यं भवति। तेन श्यनि `जायते` इत्येवं नित्यं भवति, न तु कदाचित्? `जन्यते` इति॥ Prakriyasarvasvam ----------------- यादौ क्ङिति परे जससनखनामन्तादेश आद्वा स्यात् । सायते, सन्यते । लुङि असानीत्, असनीत् । तङि 'तनादिभ्यस्तथासोः (२-४-७९) इति सिज्लोपे तथासोर्ङित्त्वाद् 'जनसनखनां सञ्झलोः' (६-४-४२) इत्यात्वम् । असात, असनिष्ट । असनिषाताम् । असाथाः, असनिष्ठाः । लिटि ससान । सेनतुः । इत्यादि तनिवत् । आशिषि 'ये विभाषा' (६-४-४३) इत्यात्वं यशब्दाभावान्नेति माधवः । यादित्वात् स्यादिति कौमुदी । सायात्, सन्यात् । सनिषीष्ट । सनिता । सनिष्यति, सनिष्यते । डुकृञ् करणे । करोति । 'अत उत्सार्वधातुके' (६-४-११०) कुरुतः ।१ यणादेशः । 'हलि च' (८-२-७७) इति दीर्घस्य 'न भकुर्च्छुराम् (८-२-७९) इति निषेधः । कुर्वन्ति । करोषि । कुरुथः । करोमि ।