64036: हन्तेर्जः ================ **Padacheda:** हन्तेः | S | 6 | 1 | जः | S | 1 | 1 | Sutrartha --------- **हन् -धातोः अङ्गस्य हि-प्रत्यये परे 'ज' आदेशः भवति ।** 'हन्' (हिंसागत्योः) इति अदादिगणस्य परस्मैपदी धातुः । लोट्-लकारस्य मध्यमपुरुषैकवचनस्य 'हि' प्रत्यये परे अस्य धातोः 'ज' इति आदेशः भवति । अनेकाल्त्वात् अयम् सर्वादेशरूपेण आगच्छति । प्रक्रिया इयम् - हन् + लोट् [**लोट् च** (3.3.162) इति लोट्] → हन् + सिप् [**तिप्तस्..** (3.4.78) इति मध्यमपुरुषैकवचनस्य विवक्षायाम् सिप्-प्रत्ययः] → हन् + शप् + तिप् [**कर्तरि शप्** (3.1.68) इति शप्] → हन् + सिप् [**अदिप्रभृतिभ्यः शपः** (2.4.72) इति शपः लुक्] → हन् + हि [**सेह्यर्पिच्च** (3.4.87) इति 'हि' आदेशः] → ज+ हि [**हन्तेर्जः** (6.4.36) इति हि-प्रत्यये परे हन्-इत्यस्य ज-आदेशः] → जहि ज्ञातव्यम् - 'ज + हि' इत्यत्र **अतो हेः** (6.4.105) इत्यस्य प्रसक्तिः नास्ति यतः **असिद्धवदत्राभात्** (6.4.22) इत्यनेन हन्-इत्यस्य जकारादेशः **अतो हेः** (6.4.105) इत्यर्थमसिद्धः अस्ति । Sutrartha (English) ------------------- The 'हन्' धातु gets the 'ज' आदेश when followed by the हि-प्रत्यय of लोट्लकार. Vasu English Summary -------------------- ज is substituted for हन् before the Imperative affix हि। Vasu English Translation ------------------------ ज is substituted for हन् before the Imperative affix हि। Thus जहि शत्रून् ॥ Kashika ------- हन्तेर्धातोर्ज इत्ययमादेशो भवति हौ परतः। ज॒हि शत्रू॒न् (ऋ० ३.४७.२)॥ Siddhanta Kaumudi ----------------- हौ परे । आभीयतया जस्यासिद्धत्वाद्धेर्न लुक् । जहि । हनानि । हनाव । हनाम । अहन् । अहताम् । अघ्नन् । अहनम् ॥ Laghu Siddhanta Kaumudi ----------------------- हौ परे॥ Balamanorama ------------ **हन्तेर्जः** - हन्तेर्जः ।शा हौ इत्यतो हौ इत्यनुवृत्तिमभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे — हौ परे इति । कृते जादेशेअतो हे॑रिति हेर्लुकमाशङ्क्य आह — आभीयतयेति । जहीति । हतात् हतम् । हत । हनानीति । आटः पित्त्वेन हित्त्वाऽभावान्नोपधालोप इति भावः । अहन्निति । लङस्तिपिइतश्चे॑ति इकारलोपेसंयोगान्तस्ये॑ति तकारलोपः । न्याय्यत्वाद्धल्ङ्यादिलोपो वा । अहनमिति । अहन्व । अहन्म । झलादिपरकत्वाऽभावान्नोपधादीर्घः । विधिलिङि हन्यात् हन्यताम् इत्यादि । आशीर्लिङि वधादेशं वक्ष्यन्नाह- Tattvabodhini ------------- **हन्तेर्जः** - आभीयतयेति । सन्निपातपरिभाषयाऽपि हेर्लुङ् नेति वक्तुं शक्यमिति केचित् । तन्मन्दम् ।अतो हे॑ रित्यारम्भसामर्थ्यात्तस्या अप्रवृत्तेरिति नव्याः । Padamanjari ----------- श्तिपा निर्देशो यङ्लुग्निवृत्यर्थः । अनुदातेपदेशावनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति ॥ उपदिश्यन्ते इत्युपदेशाः, अनुदाताश्च ते उपदेशाश्च अनुदातोपदेशाः । उपदिश्यमानावस्थायामनुदाता इत्यर्थः । अनुनासिकेति पृथक्पदं लुप्तषष्ठीकमनुदातोपदेशानां विशेषणम्, तेन तदन्तविधिः । यमिरमीत्यादि । यमिर्यमन्तेषु इति श्लोको वक्ष्यते । वनतेरिति । वन षण सम्भक्तौ । सनोतेरात्वं वक्ष्यतीति । जनसनखनां सञ्झलोः इत्यनेन । अतत, अतथा इति । तनादिभ्यस्तथासोः इति सिचो लुक् । इह च यथा स्यादिति । अन्यथा क्तिनि नित्स्वरेण सम्प्रत्युदातत्वान्न स्यात् । इह च मा भूदिति । अन्यथा प्रत्ययस्वरे कृते शेषनिधाते सम्प्रत्यनुदातत्वाच्छान्त इत्यादावपि स्यात् ॥ Prakriyasarvasvam ----------------- हन्तेर्हौ जभावः स्यात् । 'अतो हेः' इति हेलुकि प्राप्ते 'असिद्धवदत्राभात्' इति जत्वस्यासिद्धत्वान्न स्यात् । हिसंश्रयो जभावः, लुक् च हेरेव प्राप्तः इत्येकाश्रयत्वम् । जहि, हतात् । हतम् । हत । हनानि । हनाव, हनाम । लङि इलोपे हन् त् । 'हल्ङ्याभ्य—' इति तिलोपः । अहन् । अहताम् । अघ्नन् । सिपि तिब्वत् । अहन् । अहतम् । अहत । अहनम् । अहन्व । Sutra Prayogas -------------- * **जहि** (भट्टिकाव्यम्): `हन्तेर्जः` इति हौ परतो जः।