64032: जान्तनशां विभाषा

Padacheda: जान्त-नशाम् | S | 6 | 3 |

विभाषा | S | 1 | 1 |

Sutrartha

जकारान्तधातूनाम् विषये, तथा ‘नश्’ इत्यस्य विषये क्त्वा प्रत्यये परे उपधा-नकारस्य वैकल्पिकः लोपः भवति ।

येषु धातुषु उपधा-स्थाने नकारः अस्ति तथा अन्तिम-स्थाने जकारः अस्ति, तेषामुपधानकारस्य क्त्वा-प्रत्यये परे अनिदितां हलः उपधायाः क्ङिति (6.4.24) इत्यनेन प्राप्तः लोपः वर्तमानसूत्रेण विकल्प्यते । यथा - रन्ज्, भन्ज् - एतेषाम् विषये अयं नकारलोपः विकल्पेन भवति । तथा च, ‘नश्’ अस्य धातोः मस्जिनशोर्झलि (7.1.60) अनेन सूत्रेण नुमागमे कृते तस्यापि अनिदितां हलः उपधायाः क्ङिति (6.4.24) इत्यनेन प्राप्तः लोपः वर्तमानसूत्रेण विकल्प्यते । प्रक्रियाः एताः - 1. भन्ज् + क्त्वा → भज् + त्वा / भन्ज् + त्वा [जान्तनशां विभाषा (6.4.32) इति वैकल्पिकः नकारलोपः] → भग् त्वा / भन् ग् त्वा [चोः कुः (8.2.30) इति कुत्वम् गकारः] → भक्त्वा / भङ्क्त्वा [नकारपक्षे नश्चापदान्तस्य झलि (8.3.24) इति अनुस्वारः । उभयोः पक्षयोः खरि च (8.4.55) इति चर्त्वम् । नकारपक्षे अनुस्वारस्य ययि परसवर्णः (8.4.58) इति परसवर्णः] एवमेव रञ्ज् इत्यस्य रङ्क्त्वा / रक्त्वा एते द्वे रूपे भवतः 2. नश् + क्त्वा → नन् श् + त्वा [मस्जिनशोर्झलि (7.1.60) इत्यनेन झलादि-प्रत्यये परे नश्-धातोः नुमागमः] → नश् त्वा / नन्श् त्वा [जान्तनशां विभाषा (6.4.32) इति वैकल्पिकः नकारलोपः] → नष्ट्वा, नंष्ट्वा [व्रश्चभ्रस्ज.. (8.2.36) इति शकारस्य षकारः । नकारश्रवणपक्षे नश्चापदान्तस्य झलि (8.3.24) इति अनुस्वारः । उभयोः पक्षयोः ष्टुना ष्टुः (8.4.41) इति ष्टुत्वे तकारस्य टकारः]

Sutrartha (English)

The उपधा नकार of the जकारान्त verb roots and the verb root ‘नश्’ is optionally removed when followed by the क्त्वा प्रत्यय.

Vasu English Summary

The nasal may be optionally elided before क्त्वा in a root ending in ज् and in नश्।

Vasu English Translation

The nasal may be optionally elided before क्त्वा in a root ending in ज् and in नश्। Thus रङ्क्त्वा or रक्त्वा, भङ्क्त्वा or भक्त्वा, नष्ट्वा or नंष्ट्वा See (7.1.60) for the augment न् in नश् ॥ When इट् comes, we have नशित्वा ॥

Kashika

जान्तानामङ्गानां नशेश्च क्त्वाप्रत्यये परतो विभाषा नकारलोपो न भवति। रङ्क्त्वा, रक्त्वा। भङ्क्त्वा, भक्त्वा। नशः — नंष्ट्वा,नष्ट्वा। इट्पक्षे नशित्वा॥

Siddhanta Kaumudi

जान्तानां नशेश्च नलोपो वा स्यात् क्त्वि परे । भक्त्वा । भङ्क्त्वा । रक्त्वा । रङ्क्त्वा । मस्जिनशोः-(SK2517) इति नुम् । तस्य पक्षे लोपः । नष्ट्वा । नंष्ट्वा । रधादिभ्यश्च (SK2514) इतीट् । पक्षे नशित्वा ॥<!झलादाविति वाच्यम् !> (वार्तिकम्) ॥ नेह । अञ्जित्वा । ऊदित्वाद्वेट् । पक्षे अक्त्वा । अङ्क्त्वा । जनसन-(SK2504) इत्यात्वम् । खात्वा । खनित्वा । द्यतिस्यति-(SK3074) इतीट् । दित्वा । सित्वा । मित्वा । स्थित्वा । दधातोर्हिः (SK3076) । हित्वा ॥

Padamanjari

मक्त्वा, मङ्त्वा, नष्ट्वा, नंष्ट्वा । मस्जिनशोर्झलि इति तुम् । अन्तग्रहणं विस्पष्टार्थम् वर्णग्रहणादेव तदन्तविधिलाभात् ॥

Nyaas

नष्ट्वा, नंष्ट्वा इति। नशेः व्रश्चादि (8.2.36) सूत्रेण षत्वम्, ष्टुत्वम्। मस्जिनशोर्झलि (7.1.60) इति मुमागमः। इति वर्णग्रहणम्, तत्र वर्णग्रहणे सर्वत्र तदन्तविधिं प्रयोजयतत्यन्तरेणाप्यन्तग्रहणेन तदन्तविधौ सिद्धे, यदिहान्तग्रहणं क्रियते तद्धिस्पष्टार्थम्, यत्त्वाह - अनुपधाया अपि पक्षे लोपस्य प्रतिषेधार्थमन्तग्रहणम्, तद्यथा - भक्त्वा, भङ्क्त्वा इति, तन्न; केन पुनरनुपधाभूतस्य नकारस्या लोपः प्राप्नोति, यतोऽसौ पक्षे प्रतिषिध्यते। उपधानकारस्य लोप उक्तः, न चायमुपधानकारः। एवं तर्हि विधि विषयादन्यत्रापि क्वचिल्लोपो नकारस्य भवतीति ज्ञापयति। तेनैतत्? सिद्धं भवित - मग्नः, मग्नदान् इति। ततश्चैतद्रथं मस्जेरन्त्यात्पूर्वं नुममिच्छन्त्यनुषङ्गलोपार्थम् इत्येतन्न वक्तव्यं भवति। तत्र यदीदं नोच्येत, तदा यस्मिन्? पक्षे क्त्वाप्रत्ययेन लोपो न भवति, तस्मिन्? पक्षे स्कोः संयोगाद्योरन्ते च (8.2.29) इति सलोपोऽपि न स्यात्; असंयोगादित्वात्। तस्माद्वक्तव्यमेवेदम् - मस्जेरन्त्यात्पूर्वं नुममिच्छन्ति इति। ततश्चानुपधाभूतस्य नकारस्य लोपभाविनोऽसम्भवादनुपधाभूतस्य नकारस्य लोपप्रतिषेधो यथा स्यादेवमर्थमन्तग्रहणं न युज्यते॥

Prakriyasarvasvam

जान्तानां नशेश्च क्त्विपरे नलोपो वा न स्यात् । कुत्वचत्वे । भक्त्वा भङ्क्त्वा । रक्त्वा रङ्क्त्वा । नशेः ‘मस्जिनशोर्झलि’ (७–१–६०) इति नुम् । तस्य वा लोपः । नष्ट्वा नंष्ट्वा । मस्जेश्चान्त्यात् प्राङ् नुमि सलोपे जान्तत्वाद्वा नलोपः । मक्त्वा । मङ्क्त्वा । सेट्त्वे त्वक्तित्वान्नलोपाप्रसङ्ग एव । अञ्जित्वा । ‘अञ्जू व्यक्तिदि’त्यूदित्वादिट् ‘द्यतिस्यति—’ (७-४-४०) इतीत्वम् । दित्वा । सित्वा । मित्वा । स्थित्वा । ‘शाच्छोरन्यतरस्याम्’ (७–४–४१) । शित्वा शात्वा । छित्वा छात्वा । ‘दधातेर्हिः’ (७–४–४२) । हित्वा ।