64032: जान्तनशां विभाषा ======================= **Padacheda:** जान्त-नशाम् | S | 6 | 3 | विभाषा | S | 1 | 1 | Sutrartha --------- **जकारान्तधातूनाम् विषये, तथा 'नश्' इत्यस्य विषये क्त्वा प्रत्यये परे उपधा-नकारस्य वैकल्पिकः लोपः भवति ।** येषु धातुषु उपधा-स्थाने नकारः अस्ति तथा अन्तिम-स्थाने जकारः अस्ति, तेषामुपधानकारस्य क्त्वा-प्रत्यये परे **अनिदितां हलः उपधायाः क्ङिति** (6.4.24) इत्यनेन प्राप्तः लोपः वर्तमानसूत्रेण विकल्प्यते । यथा - रन्ज्, भन्ज् - एतेषाम् विषये अयं नकारलोपः विकल्पेन भवति । तथा च, 'नश्' अस्य धातोः **मस्जिनशोर्झलि** (7.1.60) अनेन सूत्रेण नुमागमे कृते तस्यापि **अनिदितां हलः उपधायाः क्ङिति** (6.4.24) इत्यनेन प्राप्तः लोपः वर्तमानसूत्रेण विकल्प्यते । प्रक्रियाः एताः - 1. भन्ज् + क्त्वा → भज् + त्वा / भन्ज् + त्वा [**जान्तनशां विभाषा** (6.4.32) इति वैकल्पिकः नकारलोपः] → भग् त्वा / भन् ग् त्वा [**चोः कुः** (8.2.30) इति कुत्वम् गकारः] → भक्त्वा / भङ्क्त्वा [नकारपक्षे **नश्चापदान्तस्य झलि** (8.3.24) इति अनुस्वारः । उभयोः पक्षयोः **खरि च** (8.4.55) इति चर्त्वम् । नकारपक्षे **अनुस्वारस्य ययि परसवर्णः** (8.4.58) इति परसवर्णः] एवमेव रञ्ज् इत्यस्य रङ्क्त्वा / रक्त्वा एते द्वे रूपे भवतः 2. नश् + क्त्वा → नन् श् + त्वा [**मस्जिनशोर्झलि** (7.1.60) इत्यनेन झलादि-प्रत्यये परे नश्-धातोः नुमागमः] → नश् त्वा / नन्श् त्वा [**जान्तनशां विभाषा** (6.4.32) इति वैकल्पिकः नकारलोपः] → नष्ट्वा, नंष्ट्वा [**व्रश्चभ्रस्ज..** (8.2.36) इति शकारस्य षकारः । नकारश्रवणपक्षे **नश्चापदान्तस्य झलि** (8.3.24) इति अनुस्वारः । उभयोः पक्षयोः **ष्टुना ष्टुः** (8.4.41) इति ष्टुत्वे तकारस्य टकारः] Sutrartha (English) ------------------- The उपधा नकार of the जकारान्त verb roots and the verb root 'नश्' is optionally removed when followed by the क्त्वा प्रत्यय. Vasu English Summary -------------------- The nasal may be optionally elided before क्त्वा in a root ending in ज् and in नश्। Vasu English Translation ------------------------ The nasal may be optionally elided before क्त्वा in a root ending in ज् and in नश्। Thus रङ्क्त्वा or रक्त्वा, भङ्क्त्वा or भक्त्वा, नष्ट्वा or नंष्ट्वा See (7.1.60) for the augment न् in नश् ॥ When इट् comes, we have नशित्वा ॥ Kashika ------- जान्तानामङ्गानां नशेश्च क्त्वाप्रत्यये परतो विभाषा नकारलोपो न भवति। रङ्क्त्वा, रक्त्वा। भङ्क्त्वा, भक्त्वा। नशः — नंष्ट्वा,नष्ट्वा। इट्पक्षे नशित्वा॥ Siddhanta Kaumudi ----------------- जान्तानां नशेश्च नलोपो वा स्यात् क्त्वि परे । भक्त्वा । भङ्क्त्वा । रक्त्वा । रङ्क्त्वा । मस्जिनशोः-(SK2517) इति नुम् । तस्य पक्षे लोपः । नष्ट्वा । नंष्ट्वा । रधादिभ्यश्च (SK2514) इतीट् । पक्षे नशित्वा ॥ (वार्तिकम्) ॥ नेह । अञ्जित्वा । ऊदित्वाद्वेट् । पक्षे अक्त्वा । अङ्क्त्वा । जनसन-(SK2504) इत्यात्वम् । खात्वा । खनित्वा । द्यतिस्यति-(SK3074) इतीट् । दित्वा । सित्वा । मित्वा । स्थित्वा । दधातोर्हिः (SK3076) । हित्वा ॥ Padamanjari ----------- मक्त्वा, मङ्त्वा, नष्ट्वा, नंष्ट्वा । मस्जिनशोर्झलि इति तुम् । अन्तग्रहणं विस्पष्टार्थम् वर्णग्रहणादेव तदन्तविधिलाभात् ॥ Nyaas ----- `नष्ट्वा, नंष्ट्वा` इति। नशेः व्रश्चादि (8.2.36) सूत्रेण षत्वम्, ष्टुत्वम्। **मस्जिनशोर्झलि** (7.1.60) इति मुमागमः। `ज` इति वर्णग्रहणम्, तत्र वर्णग्रहणे सर्वत्र तदन्तविधिं प्रयोजयतत्यन्तरेणाप्यन्तग्रहणेन तदन्तविधौ सिद्धे, यदिहान्तग्रहणं क्रियते तद्धिस्पष्टार्थम्, यत्त्वाह - अनुपधाया अपि पक्षे लोपस्य प्रतिषेधार्थमन्तग्रहणम्, तद्यथा - `भक्त्वा, भङ्क्त्वा` इति, तन्न; केन पुनरनुपधाभूतस्य नकारस्या लोपः प्राप्नोति, यतोऽसौ पक्षे प्रतिषिध्यते। उपधानकारस्य लोप उक्तः, न चायमुपधानकारः। एवं तर्हि विधि विषयादन्यत्रापि क्वचिल्लोपो नकारस्य भवतीति ज्ञापयति। तेनैतत्? सिद्धं भवित - `मग्नः, मग्नदान्` इति। ततश्चैतद्रथं `मस्जेरन्त्यात्पूर्वं नुममिच्छन्त्यनुषङ्गलोपार्थम्` इत्येतन्न वक्तव्यं भवति। तत्र यदीदं नोच्येत, तदा यस्मिन्? पक्षे क्त्वाप्रत्ययेन लोपो न भवति, तस्मिन्? पक्षे **स्कोः संयोगाद्योरन्ते च** (8.2.29) इति सलोपोऽपि न स्यात्; असंयोगादित्वात्। तस्माद्वक्तव्यमेवेदम् - `मस्जेरन्त्यात्पूर्वं नुममिच्छन्ति` इति। ततश्चानुपधाभूतस्य नकारस्य लोपभाविनोऽसम्भवादनुपधाभूतस्य नकारस्य लोपप्रतिषेधो यथा स्यादेवमर्थमन्तग्रहणं न युज्यते॥ Prakriyasarvasvam ----------------- जान्तानां नशेश्च क्त्विपरे नलोपो वा न स्यात् । कुत्वचत्वे । भक्त्वा भङ्क्त्वा । रक्त्वा रङ्क्त्वा । नशेः 'मस्जिनशोर्झलि' (७–१–६०) इति नुम् । तस्य वा लोपः । नष्ट्वा नंष्ट्वा । मस्जेश्चान्त्यात् प्राङ् नुमि सलोपे जान्तत्वाद्वा नलोपः । मक्त्वा । मङ्क्त्वा । सेट्त्वे त्वक्तित्वान्नलोपाप्रसङ्ग एव । अञ्जित्वा । 'अञ्जू व्यक्तिदि'त्यूदित्वादिट् 'द्यतिस्यति—' (७-४-४०) इतीत्वम् । दित्वा । सित्वा । मित्वा । स्थित्वा । 'शाच्छोरन्यतरस्याम्' (७–४–४१) । शित्वा शात्वा । छित्वा छात्वा । 'दधातेर्हिः' (७–४–४२) । हित्वा ।