64029: अवोदैधौद्मप्रश्रथहिमश्रथाः ================================= **Padacheda:** अवोद-एध-ओद्म-प्रश्रथ-हिमश्रथाः | S | 1 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- 1. अवोद 2. एध 3. ओद्म 4. प्रश्रथ and 5. हिमश्रथ are irregularly formed by the elision. Vasu English Translation ------------------------ 1. अवोद 2. एध 3. ओद्म 4. प्रश्रथ and 5. हिमश्रथ are irregularly formed by the elision. Thus उन्द् - अव + उन्द् + घञ् = अवोदः; इन्ध् + घञ् = एधः, the *guna* is irregular, for (1.1.4) applied here, and prevented *guna*. उन्द + मन् = ओद्म (*Unadi* मन्). प्र + श्रन्थ + घञ् = प्रश्रथः (The want of *Vriddhi* is the irregularity). So also हिमश्रथः ॥ Kashika ------- अवोद एध ओद्म प्रश्रथ हिमश्रथ इत्येते निपात्यन्ते। अवोद इत्युन्देरवपूर्वस्य घञि नलोपो निपात्यते। अवोदः। एध इति इन्धेर्घञि नलोपो गुणश्च निपात्यते। **न धातुलोप आर्धधातुके** (१.१.४) इति हि प्रतिषेधः स्यात्। एधः। ओद्म इति उन्देरौणादिके मन्प्रत्यये नलोपो गुणश्च निपात्यते। प्रश्रथः। हिमश्रथ इति हिमपूर्वस्य श्रन्थेर्घञ्येव निपातनम्। हिमश्रथः॥ Siddhanta Kaumudi ----------------- अवोदः अवक्लेदनम् । एध इन्धनम् । ओद्म उन्दनम् । श्रन्थेर्नलोपो वृद्ध्यभावश्च ॥ Tattvabodhini ------------- **अवोदैधौद्मप्रश्रथहिमश्रथाः** - अवोदै । अवोद इति । उन्दी क्लेदनेऽवपूर्वः । घञि नलोपो निपात्यते । एध इति । इन्धेर्घञि नलोपो गुणश्च निपात्यते ।न धातुलोपे॑ इति निषेधादप्राप्ते गुणस्य निपातनमिति ज्ञेयम् । ओद्म इति । उन्देरौणादिके मन्प्रत्ययो नलोपो गुणश्चाऽत्रापि निपात्यते । श्रन्थेरिति । प्रपूर्वस्य हिमपूर्वस्य च घञि निपात्यते इति बोध्यम् । Padamanjari ----------- उन्दी त्केदने, इन्धी दीप्तौ, श्रन्थ मोचनहर्षयोः ॥ Nyaas ----- `अवोदः` इति। उपसर्गेण सह **आद्गुणः** (6.1.87) । `न धातुलोपः` (1.1.4) इत्यादिना प्रतिषेधो न भवति; अनिग्लक्षणत्वाद्गुणस्य। `गुणश्च निपात्यते` इति। ननु च `पुगन्तलधूपधस्य` (7.3.86) इत्येवं गुणः सिद्धः। तत्? किमर्थं निपात्यते? इत्याह -`न धातुलोपः` इत्यादि। `औणादिके मन्प्रत्ययः` इति। `अर्त्तिसतुसुहुसृधृक्षिक्षुभायावापदयक्षिनौब्यो मन्` (द।उ।7।26) [अर्त्तिस्तुसुहुसृधृक्षिक्षुभायापदियक्षिनीभ्यो मन् -द।उ।] इत्यर्त्त्यादिभ्यो विधीयमानो बहुलवचनादुन्देरपि भवति। `श्रन्तेः` इति। `श्रन्थ मोचनप्रतिहर्षणयोः` (धा।प।1510) इत्यस्य॥ Prakriyasarvasvam ----------------- अवपूर्वस्योन्देर्घञ्यवोदः किञ्चिदाद्रः । इन्धेरेधः । मोचनार्थाच्छ्रन्थेर्घञ् । प्रश्रथः । हिमं श्रथयतेऽस्मादिति हिमश्रथश्चन्द्रः । ओद्यस्तून्दनः । औणादिके मनि नलोपगुणौ ॥