64026: रञ्जेश्च¶
Padacheda: रञ्जेः | S | 6 | 1 |
च | S | 0 | 0 |
Sutrartha¶
रञ्ज्-धातोः अङ्गस्य उपधा-नकारस्य शप्-प्रत्यये परे लोपः भवति ।
रन्जँ (रागे) इति भ्वादिगणस्य धातुः । शप्-विकरणे परे अस्य धातोः उपधा-नकारस्य लोपः भवति । यथा - रन्ज् + लट् [वर्तमाने लट् (3.2.123) इति लट् ] → रन्ज् + तिप् [तिप्तस्… (3.4.78) इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः] → रन्ज् + शप् + ति [कर्तरि शप् (3.1.68) इति शप्] → रज् + अ + ति [शप्-प्रत्यये परे रञ्जेश्च (6.4.26) इति उपधा-नकारस्य लोपः] → रजति । ज्ञातव्यम् - 1. अस्मिन् सूत्रे यद्यपि ‘रञ्ज्’ इत्यत्र ञकारः प्रयुक्तः अस्ति, तथापि अयं मूलरूपेण नकारः एव । तस्य अनुस्वारपरसवर्णौ त्रिपादीसूत्रैः प्रक्रियायाः अन्ते भवतः । 2. वस्तुतः रञ्ज्-धातोः निर्देशः अपि दन्शसञ्जस्वञ्जां शपि (6.4.25) अस्मिन्नेव सूत्रे भवितुमर्हति । परन्तु रञ्ज्-इत्यस्य अनुवृत्तिः अग्रिम-सूत्रे अपि आवश्यकी, अतः वर्तमानसूत्रे ‘रञ्ज्’ इति पृथग् रूपेण निर्दिष्टः अस्ति ।
Sutrartha (English)¶
The उपधा-नकार of the verb रञ्ज् is removed in presence of the विकरणप्रत्यय शप्.
Vasu English Summary¶
The nasal of रञ्ज् is also elided before the गणविकरण शप्।
Vasu English Translation¶
The nasal of रञ्ज् is also elided before the गणविकरण शप्। As रजति, रजतः, रजन्ति ॥ The separation of this from the preceding is for the sake of the subsequent sutras in which the anuvritti of ranj only runs and not of dans &c.
Kashika¶
रञ्जेश्च शपि परत उपधाया नकारस्य लोपो भवति। रजति, रजतः, रजन्ति। पृथग्योगकरणमुत्तरार्थम्॥
Siddhanta Kaumudi¶
एषां शपि नलोपः । स्वजते । परिष्वजते । श्रन्थिग्रन्थिदम्भिस्वञ्जीनां लुटः कित्त्वं वेति व्याकरणान्तरम् । देभतुः । सस्वजे इति भाष्योदाहरणादेकदेशानुमत्या इहाप्यश्रीयते । सदेः परस्य लिटि (SK2361) इति सूत्रे ।<!स्वञ्जेरुपसंख्यानम् !> (वार्तिकम्) ॥ अतोऽभ्यासात्परस्य षत्वं न । परिषस्वजे । परिषस्वञ्जे । सस्वजिषे । सस्वञ्जिषे । स्वङ्क्ता । स्वङ्क्ष्यते । स्वजेत । स्वङ्क्षीष्ट । प्रत्यष्वङ्क्त । प्राक्सितात् - (SK2276) इति षत्वम् । परिनिविभ्यस्तु सिवादीनां वा (SK2359) इति विकल्पः । एतदर्थमेव उपसर्गात्सुनोति -(SK2270) इत्येव सिद्धे स्तुस्वञ्ज्योः परिनिवीत्यत्र पुनरुपादानम् । पर्यष्वङ्क्त । पर्यस्वङ्क्त ।{$ {!977 हद!} पुरीषोत्सर्गे$} । हदते । जहदे । हत्ता । हत्स्यते । हदेत । हत्सीष्ट । अहत्त ॥ अथ परस्मैपदिनः ॥{$ {!978 ञिष्विदा!} अव्यक्तेशब्दे$} ।{$ {!979 स्कन्दिर्!} गतिशोषणयोः$} । चस्कन्दिथ । चस्कन्थ । स्कन्ता । स्कन्त्स्यति । नलोपः । स्कद्यात् । इरित्वादङ् वा । अस्कदत् । अस्कान्सीत् । अस्कान्ताम् । अस्कान्त्सुः ॥
Padamanjari¶
पृथग्योगकरणमुतरार्थमिति । उतरत्र रञ्जेरेवानुवृत्तिर्यथा स्यात्, दंशिप्रभूतीनां मा भूत् ॥
Nyaas¶
अथ पृथग्योगकरणं किमर्थम्, न पूर्वयोग एव रञ्जेग्र्रहणं क्रियते? इत्याह -पृथग्योगकरणम् इत्यादि। उत्तरसूत्रे रञ्जेरेवानुवृत्तिर्यथा स्यात्? दंशप्रभृतीनां मा भूदिति॥
Prakriyasarvasvam¶
रञ्ज रागे रञ्जेः शप्युपधाया नस्य लोपः स्यात् । रज्जति, रज्जते । कर्मणि ‘अनिदिताम्-’ इति नलोपः । रज्यते । लुङि हलन्तत्वाद् वृद्धिः । अराङ्क्षीत् । ‘झलो झलि’ । अराङ्क्ताम् । अराङ्क्षुः अरङ्क्त । अरङ्क्षाताम् । अरङ्क्थाः । अरङ्ग्ध्वम् । अराङ्क्षि । अरङ्क्ष्वहि । चिणि अरञ्जि । लिटि ररञ्ज । ररञ्जतुः । थलि ‘उपदेशेऽत्वतः’ इति वेट् । ररञ्जिथ, ररङ्क्थ । ररञ्जिव । कौमुदीमते कित्त्वाद ररजतुः रेजतुः । ररञ्जे । ररञ्जिषे । ररञ्जिध्वे । कौमुद्याम् ररजे, रेजे । आशिषि र्ज्यात् । रञ्ज्यीष्ट । रञ्ज्यीध्वम् । लुङादौ रङ्क्ता । रङ्क्ष्यति, रङ्क्ष्यते । अरङ्क्ष्यत्, अरङ्क्ष्यत । कर्मणि तद्ववत् । कर्मकर्तरि तु—