64025: दंशसञ्जस्वञ्जां शपि

Padacheda: दन्श-सञ्ज-स्वञ्जाम् | S | 6 | 3 |

शपि | S | 7 | 1 |

Sutrartha

दंश्, सञ्ज्, स्वञ्ज् - एतेषाम् धातूनाम् अङ्गस्य उपधा-नकारस्य शप्-विकरणप्रत्यये परे लोपः भवति ।

दन्शँ (दशने), षन्जँ (सङ्गे), तथा ष्वन्जँ (परिष्वङ्गे) एते त्रयः भ्वादिगणस्य धातवः । एतेभ्यः विहितस्य शप्-इत्यस्य गणविकरणस्य उपस्थितौ एतेषाम् अङ्गस्य उपधानकारस्य अनेन सूत्रेण लोपः भवति । यथा - 1. दन्श् इत्यस्य लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - दन्श् + लट् [वर्तमाने लट् (3.2.123) इति लट् ] → दन्श् + तिप् [तिप्तस्.. (3.4.78) इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः] → दन्श् + शप् + ति [कर्तरि शप् (3.1.68) इति शप्] → दश् + अ + ति [शप्-प्रत्यये परे दन्शसञ्जस्वञ्जां शपि (6.4.25) इति उपधा-नकारस्य लोपः] → दशति । 2. षन्ज्-धातोः शतृ-प्रत्ययान्तरूपम् - षन्ज् → सन्ज् [धात्वादेः षः सः (6.1.64) इति षकारस्य सकारः] → सन्ज् + लट् [वर्तमाने लट् (3.2.123) इति लट् ] → सन्ज् + शतृ [लटः शतृशानचौ अप्रथमासमानाधिकरणे (3.2.124) इति शतृ-आदेशः] → सन्ज् + शप् + अत् [कर्तरि शप् (3.1.68) इति शप्] → सज् + अ + अत् [शप्-प्रत्यये परे दन्शसञ्जस्वञ्जां शपि (6.4.25) इति उपधा-नकारस्य लोपः] → सजत् [अतो गुणे (6.1.97) इति गुण-एकादेशः] 3. ष्वञ्ज्-धातोः शानच्-प्रत्ययान्तरूपम् - ष्वन्ज् → स्वन्ज् [धात्वादेः षः सः (6.1.64) इति षकारस्य सकारः] → स्वन्ज् + लट् [वर्तमाने लट् (3.2.123) इति लट् ] → स्वन्ज् + शानच् [लटः शतृशानचौ अप्रथमासमानाधिकरणे (3.2.124) इति शानच्-आदेशः] → स्वन्ज् + शप् + आन [कर्तरि शप् (3.1.68) इति शप्] → स्वन्ज् + मुक् + आन [आने मुक् (7.2.82) इति मुक्-आगमः] → स्वज् + अ + मान [शप्-प्रत्यये परे दन्शसञ्जस्वञ्जां शपि (6.4.25) इति उपधा-नकारस्य लोपः] → स्वजमान ज्ञातव्यम् - एतेषु त्रिषु धातुषु मूलरूपेण नकारः एव अस्ति । तस्य अनुस्वारपरसवर्णौ त्रिपादीसूत्रैः प्रक्रियायाः अन्ते भवतः ।

Sutrartha (English)

The उपधा-नकार of the verbs दंश्, सञ्ज् and स्वञ्ज् is removed in presence of the विकरणप्रत्यय शप् ।

Vasu English Summary

The nasal of 1. दंश् 2. संज् and 3. स्वञ्ज is elided before the गणविकरण शप् of the roots of the भ्वादिगणः (1st Conjugation).

Vasu English Translation

The nasal of 1. दंश् 2. संज् and 3. स्वञ्ज is elided before the गणविकरण शप् of the roots of the भ्वादिगणः (1st Conjugation). Thus दशति, सजति and परिष्वजते for the change of the स् of स्वञ्ज् to ष see (8.3.65)

Kashika

दंश सञ्ज ष्वञ्ज इत्येतेषामङ्गानां शपि परत उपधाया नकारस्य लोपो भवति। दशति। सजति। परिष्वजते॥

Balamanorama

दन्शसञ्जस्वञ्जां शपि - दंशसञ्ज । रञ्जेश्च । व्याख्यासौकर्याय सूत्रद्वयमुपात्तम् । नलोप इति । नकारस्य लोप इत्यर्थः, ‘श्नान्नलोपः’ इत्यतस्तदनुवृत्तेरिति । परिष्वजते इति । ‘परिनिविभ्यः’ इति षत्वमिति भावः । संयोगात्परत्वाल्लिटः कित्त्वेऽप्राप्ते आह — श्रन्थीति । व्याकरणान्तरमिदं पाणिनीयैरपि ग्राह्रमित्याह — दभतुरिति । ‘अत एकहल्मध्ये’ इति सूत्रभाष्येदेभतु॑रित्युदाहृतम् ।सदेः परस्य लिटी॑ति सूत्रभाष्येसस्वजे॑इत्युदाहृतम् । ततश्च एकदेशानुमत्याश्रन्थिग्रन्थी॑त्यादिवाक्यं कृत्स्नं व्याकरणान्तरस्थं भाष्यानुमतमिति विज्ञायत इत्यर्थः । सदेरिति ।सदेः परस्य लिटी॑ति षत्वनिषेधसूत्रे स्वञ्जेरपि ग्रहणमित्यर्थः । ततश्च स्वदिस्वञ्ज्योरुत्तरखण्डस्य सस्य षत्वं न स्यादिति लब्धम् । तदाह — अतोऽभ्यासात्परस्येति । परिषस्वजे परिषस्वञ्जे इति ।परस्ये॑त्युक्तेरुत्तरखण्डस्यैव षत्वनिषेधो न त्वभ्यासस्य । कित्त्वपक्षे नलोपः । सस्वञ्जाते । सस्वजाते । सस्वजिरे । क्रादिनियमादिडित्याह — सस्वजिषे सस्वञ्जिषे इति । सस्वञ्जाथे — सस्वजाथे । सस्वञ्जिध्वे — सस्वजिध्वे । सस्वञ्जे — सस्वजे ।सस्वञ्जिवहे — सस्वजिवहे । सस्वञ्जिमहे — सस्वजिमहे । स्वङ्क्तेति । स्वञ्ज् — ता इति स्थिते जकारस्य कुत्वेन गकारे सति श्चुत्वसंपन्नञकारस्य निवृत्तौ नकारस्याऽनुस्वारे तस्य परसवर्णेन ङकारे गकारस्य चर्त्वे रूपम् । एवमग्रेऽपि । स्वजेतेति ।दंशसञ्जे॑ति शपि नलोप इति भावः । ननुप्रत्यष्वह्क्ते॑त्यत्र अटा व्यवधानादुपसर्गस्थादिणः परत्वाऽभावात् कथम्उपसर्गात्सुनोती॑ति षत्वमित्यत आह — प्राक् सितादिति.परिनिविभ्यस्त्विति ।परस्य स्वञ्जे॑रिति शेषः । ननु परिनिविभ्यः परस्यापि स्वञ्जेःपरिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जा॑मिति नित्यमेव षत्वमुचितं,प्राक्सिता॑दिति सूत्रविषयत्वादित्यत आह — तदर्थमेवेत्यादि । परिनिवीति । नित्यषत्वविधौ स्वञ्जिरप्युपात्तः । ततःउपसर्गात्सुनोती॑त्येव तस्य षत्वे सिद्धे पुनरुपादानंसिवादीनां वाऽड्व्यवायेऽपी॑त्युत्तरसूत्रे षत्वविधौ अनुवृत्त्यर्थमेव संपद्यते । परिनिविभ्यः परस्य स्वञ्जेःसिवादीनां वे॑ति षत्वविकल्पार्थं पूर्वसूत्रेपरिनिविभ्यः सेवे॑त्यत्र स्वञ्जिग्रहणमिति पर्यवस्यतीत्यर्थः । हद । अनिडयम् । क्रादिनियमादिट् — जहदिषे । जहदिध्वे । जहदिवहे जहदिमहे । हत्तेति । लुटि तासि दस्य चर्त्वम् । अहत्तेति ।झलो झली॑ति सिज्लोपः । गुपादयोऽष्टानुदात्तेतो गताः । अथ परस्मैपदिन इति । ‘कित निवासे’ इत्यन्ता॑ इति शेषः । ञि ष्विदेति । ञिराकारश्च इत् । सेट् ।स्वेदति । सिष्वेद स्विष्विदतुः । स्वेदेत् । स्विद्यात् । अस्वेदीत् । अस्वेदिष्यत् । स्कन्दिरिरित् । अनिट् । भारद्वाजनियमात्थलि वेडित्याह — चस्कन्दिथ चस्कन्त्थेति । अनिट्पक्षे चस्कन्द् थ इति स्थितेखरि चे॑ति दकारस्य तकारः । चस्कन्दिव चस्कन्दिम । स्कन्त्तेति । लुटि तासि चर्त्वेन दस्य तः । स्कन्त्स्यतीति । स्ये दस्य चर्त्वम् । स्कदन्तु । अस्कन्दत् । स्कन्देत् । आशीर्लिङि विशेषमाह — नलोप इति । इरः समुदायस्य इत्त्वेन धातोरनिदित्त्वादाशीर्लिङि नकारस्य लोप इत्यर्थः । अस्कददिति । लुङि अङि सति ङित्त्वान्नलोप इति भावः । अङभावे आह — अस्कान्त्सीदिति । अनेकहल्व्यवधानेऽपि हलन्तलक्षणा वृद्धिः प्रवर्तत इति निरूपितमक्षूधातौ । अतोऽत्र वृद्धौ दस्य चर्त्वेन त । अस्कान्त्तामिति । हलन्तलक्षणवृद्धौझलो झली॑ति सिज्लोपे दस्य चर्त्वम् । अस्कान्त्सुरिति । उसि सिचि वृद्धौ दस्य चर्त्वम् । अस्कान्त्सीः अस्कान्त्तमस्कान्त्त । अस्कान्त्समस्कान्त्स्व । अस्कान्त्स्म ।

Padamanjari

परिष्वजत इति । ष्वञ्ज परिष्वङ्गे, अनुदातेत्, उपसर्गात्सुनोति इत्यादिना षत्वम् ॥

Nyaas

दंश दंशने (धा।प।989), ष्वन्ज परिष्वङ्गे (धातुपाठः-976)। `परिष्वजते इति। उपसर्गात्? सुनोति (8.3.65) इत्यादिना षत्वम्॥

Prakriyasarvasvam

नलोपः स्यात् । सञ्जति । ‘चाषमासञ्जति’ इत्यादि कर्मणोऽपि दर्शनात् भावे कर्मणि वा यकि ‘अनिदिताम्—’ इति नलोपः । सज्यते । लुङि सिचि अनिट्त्वाद् वृद्धिः । ‘चोः कुः’ । ‘खरि च’ । अनुस्वारपरसवर्णौ । असाङ्क्षीत् । ‘झलो झलि’ । असाङ्क्ताम् । असाङ्क्षुः । असाङ्क्षम्, असाङ्क्ष्व । कर्मणि असञ्जि असङ्क्षताम् असङ्क्षत । जस्य कुत्वम् । चत्वंम् । असङ्क्थाः । असङ्ग्ध्वम्, असङ्क्षि । लिटि ससञ्ज । थलि ‘उपदेशेऽत्वतः’ इति वेट् । ससञ्जिथ, ससङ्क्थ । अतुसादौ संयोगान्तत्वेनाकित्त्वान्नलोपाभावः । ससञ्जतुः ससञ्जुः । ससञ्जिव । संयोगाल्लिटो वा कित्त्वमिति केचित्’ इति कौमुदी । ‘नलोपे सत्येत्वाभ्यासलोपौ वेति केचित्’ इत्यपि तयैवोक्तम् । ससजतुः ससजुः; ससजिव; सेजतुः सेजुः सेजिव । एवं मन्थतेः ममन्थतुः ममथतुः मेथतुः इत्यादि ज्ञेयम् । कर्मणि ससञ्जे, ससञ्जिषे, ससञ्जिध्वे । मतान्तरे ससजे, सेजे, यासुटि कित्त्वात् सज्ज्यात् । कर्मणि सङ्क्षीष्ट । लुङादौ सङ्क्ता । सङ्क्ष्यति, असङ्क्ष्यत् ।

Sutra Prayogas

  • समासजन्तम् (किरातार्जुनीयम्): दंशसञ्जस्वञ्जां शपि इत्युपधाया लोपः।

  • समासजन्त्या (किरातार्जुनीयम्): दंशसञ्जस्वञ्जां शपि इति नलोपः।

  • पर्यष्वजत (भट्टिकाव्यम्): दंश-सञ्ज इत्यनुनासिकलोपः।

  • संस्वजते (भट्टिकाव्यम्): दंश-सञ्ज-स्वञ्जां शपि इत्यनुनासिकलोपः।