64024: अनिदितां हल उपधायाः क्ङिति¶
Padacheda: अनिदिताम् | S | 6 | 3 |
हलः | S | 6 | 1 |
उपधायाः | S | 6 | 1 |
क्ङिति | S | 7 | 1 |
Sutrartha¶
अनिदित्-हलन्तस्य अङ्गस्य उपधा-नकारस्य कित् प्रत्यये परे ङित्-प्रत्यये च परे लोपः भवति ।
‘इदित्’ इत्युक्ते सः शब्दः यस्मिन् इकारः इत्संज्ञकः अस्ति । ‘अनिदित्’ इत्युक्ते सः शब्दः यस्मिन् इकारः इत्संज्ञकः नास्ति । यः अनिदित् हलन्तः शब्दः, तस्य उपधाभूतस्य नकारस्य कित्-प्रत्यये परे ङित्-प्रत्यये च परे अनेन सूत्रेण लोपः भवति । यथा - मन्थँ विलोडने इति कश्चन धातुः । अस्मिन् धातौ इकारः इत्संज्ञकः नास्ति, अतः अयं धातुः अनिदित् अस्ति । इत्संज्ञकस्य अकारस्य लोपे कृते ‘मन्थ्’ इति हलन्तमङ्गमपि जायते । अतः अस्य कित् / ङित् प्रत्यये परे वर्तमानसूत्रेण नकारलोपः भवति । यथा - मन्थ् + क्त्वा = मथित्वा । मन्थ् + यक् + ते = मथ्यते । यदि अङ्गम् इदित् अस्ति, अजन्तं वा अस्ति, तर्हि अयं लोपः न भवति । यथा - 1) ‘वदिँ अभिवादनस्तुत्योः’ अयं इदित् धातुः । इदितो नुम् धातोः (7.1.58) इत्यनेन अस्य धातोः नुमागमे कृत् ‘वन्द्’ इति रूपम् सिद्ध्यति । ‘वन्द् + क्त्वा’ इति स्थिते यद्यपि ‘वन्द्’ इति हलन्तमङ्गम्, तथापि इदमनिदित् नास्ति, अतः अस्य नकारलोपः न भवति । वन्द् + क्त्वा = वन्दित्वा । 2) ‘णी प्रापणे’ अयं धातुः अनिदित् अस्ति परन्तु अजन्तः अस्ति । अतः अस्य उपधा-नकारस्य अपि अनेन सूत्रेण लोपः न भवति । यथा - नी + क्त्वा = नीत्वा ।
Sutrartha (English)¶
The उपधा नकार of an अङ्ग that is अनिदित् and हलन्त is removed in presence of a कित् or a ङित्-प्रत्यय.
Vasu English Summary¶
In a root-अङ्ग (stem) ending in a consonant preceded by न् - this न not being added to the root owing to its having an indicatory इ – इदितो नुम् धातोः (7.1.58), the न् is elided when an affix having an indicatory क् or ङ् follows.
Vasu English Translation¶
In a root-अङ्ग (stem) ending in a consonant preceded by न् - this न not being added to the root owing to its having an indicatory इ – इदितो नुम् धातोः (7.1.58), the न् is elided when an affix having an indicatory क् or ङ् follows. Thus from स्रन्स् and ध्वन्स् are formed स्रस्तः and ध्वस्तः with क्त, स्रस्यते, ध्वस्यते with यक्, सनीस्रस्यते, दनीध्वस्यते with यङ् the नी being added by (7.4.84). But नन्द्यते and नानन्द्यते, then न् is not elided, the root being written in the Dhatupatha as टुणदि समृद्धौ, and न being added by (7.1.58). Why do we say ending in a consonant? Observe नीयते, नेनीयते from नी which has a penultimate nasal, but ends in a vowel. Why do we say ‘penultimate’? Observe नह्यते, नानह्यते ॥ Why do we say having an indicatory क or ङ? Observe स्रंसनं, ध्वंसनं with ल्युट् ॥
Vart:- The roots लङ्ग (लगि) and कम्प् (कपि) are exceptions, where meaning ‘to feel pain or difficulty’ and ‘a disease of the body’. These, though exhibited in the Dhatupatha with an indicatory इ, are treated as exceptions to the rule of अनिदित् : thus विलगितः and विकपितः, when not having the above meanings, we have विलङ्कितं and विकम्पितं ॥
Vart:- The causative of the root रञ्ज, loses its nasal when meaning ‘to hunt deer’ : as, रजयति मृगान् ‘he hunts the deer’, but रञ्जयति वस्त्राणि ‘he colors the clothes’.
Vart:- रञ्ज loses its nasal before the affix घिनुण्, as रागी ॥
Vart:- The words रजकः, रजनम्, and रजः are formed from रञ्ज by the elision of the nasal.
Bhashya¶
अनिदितां हल उपधायाः क्ङिति (3022) (6534 उपसंख्यानवार्तिकम् ॥ 1 ॥) - अनिदितां नलोपे लङि्गकम्प्योरुपतापशरीरविकारयोरुपसंख्यानम् - अनिदितां नलोपे लङि्गकम्प्योरुपतापशरीरविकारयोरुपसंख्यानं कर्तव्यम् । विलगितः, विकपितः । उपतापशरीरविकारयोरिति किमर्थम् ? विलङि्गतः । विकम्पितः ॥ (6535 उपसंख्यानवार्तिकम् ॥ 2 ॥) - बृंहेरच्यनिटि - बृंहेरच्यनिटि उपसंख्यानं कर्तव्यम् । निबर्हकः । अचीति किमर्थम् ? निबृंह्यते । अनिटीति किमर्थम् ? निबृंहिता, निबृंहितुम् ॥ (उपसंख्यानाक्षेपभाष्यम्) तत्तर्हि उपसंख्यानं कर्तव्यम् ? न कर्तव्यम् । बृहिः प्रकृत्यन्तरम् । कथं विज्ञायते ? अचीति लोप उच्यते, अनजादावपि दृश्यते - निबृह्यते । अनिटीत्युच्यते । इडादावपि दृश्यते - निबर्हिता, निबर्हितुम् । अजादावपि न दृश्यते - निबृंहयति, निबृंहकः ॥ (6536 उपसंख्यानवार्तिकम् ॥ 3 ॥) - रञ्ञ्जेर्णौ मृगरमणे - रञ्ञ्जेर्णौ मृगरमणे उपसंख्यानं कर्तव्यम् । रजयति मृगान् । मृगरमण इति किमर्थम् ? रञ्जयति वस्त्राणि ॥ (6537 उपसंख्यानवार्तिकम् ॥ 4 ॥) - घिनुणि च - घिनुणि चोपसंख्यानं कर्तव्यम् । रागी ॥ (उपसंख्यानाक्षेपभाष्यम्) घिनुणि निपातनात्सिद्धम् ॥ किं निपातनम् ? त्यजरजेति ॥ (प्रत्याक्षेपभाष्यम्) अशक्यं धातुनिर्देशे निपातनं तन्त्रमाश्रयितुम् । इह हि दोषः स्यात् - दशनहः करणे । दंष्ट्रा । (समाधानभाष्यम्) नैतद्धातुनिपातनम् । किं तर्हि ? प्रत्ययान्तस्यैतद्रूपम् । तस्मिंश्च प्रत्यये लोपो भवति दंशसञ्जस्वञ्ञ्जां शपि (6.4.25) इति ॥ (6538 उपसंख्यानवार्तिकम् ॥ 5 ॥) - रजकरजनरजः सूपसंख्यानम् - रजकरजनरजः सूपंख्यानं कर्तव्यम् । रजकः, रजनम्, रज इति ॥ (उपसंख्यानाक्षेपभाष्यम्) रजकरजनरजः सु कित्वात्सिद्धम् ॥ कित एवैते औणादिकाः । तद्यथा - रुचकः, भुवनम्, शिर इति ॥
Kashika¶
अनिदितामङ्गानां हलन्तानामुपधाया नकारस्य लोपो भवति क्ङिति प्रत्यये परतः। स्रस्तः। ध्वस्तः। स्रस्यते। ध्वस्यते। सनीस्रस्यते। दनीध्वस्यते। अनिदितामिति किम्? नन्द्यते। नानन्द्यते। हल इति किम्? नीयते। नेनीयते। उपधाया इति किम्? नह्यते । नानह्यते। क्ङितीति किम्? स्रंसिता। ध्वसिता॥ अनिदितां नलोपे लङ्गिकम्प्योरुपतापशरीरविकारयोरुपसंख्यानं कर्तव्यम्॥ विलगितः। विकपितः। उपतापशरीरविकारयोरिति किम्? विलङ्गितः। विकम्पितः॥ रञ्जेर्णौ मृगरमण उपसंख्यानं कर्तव्यम्॥ रजयति मृगान्। जनीजृष्क्नसुरञ्जोऽमन्ताश्च इति मित्त्वादुपधाह्रस्वत्वम्। मृगरमण इति किम्? रञ्जयति वस्त्राणि॥ घिनुणि च रञ्जेरुपसंख्यानं कर्तव्यम्॥ रागी। त्यजरजभज० (३.२.१४२) इति निपातनाद् वा सिद्धम्॥ रजकरजनरजःसूपसंख्यानं कर्तव्यम्॥ रजकः। रजनम्। रजः॥
Siddhanta Kaumudi¶
हलन्तानामनिदितामङ्गानामुपधाया नस्य लोपः स्यात्किति ङिति च । उगिदचाम् (SK361)इति नुम् । संयोगान्तस्य लोपः (SK54) । नुमो नकारस्य क्विन्प्रत्ययस्य कुः (SK377) इति कुत्वेन ङकारः । प्राङ् । अनुस्वारपरसवर्णो । प्राञ्चौ । प्राञ्चः । प्राञ्चम् । प्राञ्चौ ॥
Laghu Siddhanta Kaumudi¶
हलन्तानामनिदितामङ्गानामुपधाया नस्य लोपः किति ङिति। नुम्। संयोगान्तस्य लोपः। नस्य कुत्वेन ङः। प्राङ्। प्राञ्चौ। प्राञ्चः॥
Balamanorama¶
अनिदितां हल उपधायाः क्ङिति - प्र-अन्च् इति स्थिते — अनिदिताम् ।अङ्गस्ये॑त्यधिकृतं बहुवचनेन विपरिणम्यते । हल इति तद्विशेषणम् । तदन्तविधिः ।अनिदिता॑मित्यपि तद्विशेषणम् । इत्=ह्रस्व इकारः, इत्ित्संक्षको येषां तानि इदिन्ति, न इदिन्ति, अनिदिन्ति, तेषामिति विग्रहः । अवयवषष्ठन्तमेततदुपधाया इत्यत्रान्वेति । ‘उपधाया’ इत्यप्यवयवषष्ठन्तम् । तश्च ‘श्नान्न लोपः’ इत्यतो नेत्यनुवृत्ते लुप्तषष्ठीके अन्वेति । क् च ङ् च क्ङौ, तौ इतौ यस्येति विग्रहः । तदाह — हलन्तानामित्यादिना । इति चकारात्पूर्वस्य नकारस्य लोपः । प्र अच् प्राच् इति स्थितम् । तस्मात्सुबुत्पत्तिः । सुटि विशेषमाह — उगिदचामिति नुमिति । सौ विशेषमाह — संयोगान्तस्य लोप इति ।हल्ङ्यादिना सुलोपे सती॑ति शेषः । कुत्वेन ङकार इति । नासिकास्थानसाम्यादिति भावः । अनुस्वारपरसवर्णाविति । प्राच् औ इति स्थिते-अचः । अच इत्यन्चुधातोःअनिदिता॑मिति लुप्तनकारस्यानुस्वार ।अनुस्वारस्य यी॑ति तस्य परसवर्णो ञकारः । नस्य श्चुत्वं तु न भवति, अनुस्वारं प्रति तस्याऽसिद्धत्वादित्यर्थः ।
Tattvabodhini¶
अनिदितां हल उपधायाः क्ङिति - अनिदितिम् । इत् ह्रस्वेकार इत्संज्ञको येषां तानि इदिन्ति, न इदिन्ति अनिदिन्ति, तेषाम् — अनिदितम् । एतच्च अङ्गस्य विशेषणं, हल इत्यपि । तदाह -हलन्तामामनिदितामिति । उपधाया नस्येति ।श्नान्न लोपः॑इति सूत्रान्नेति लुप्तषष्ठीकं पदमनुवर्तते, तच्चोपधाग्रहणेन विशेष्यत इथि भावः । अनिदितामिति किम् । नन्द्यते । हलः किम्, नीयत । उपधायाः किम् । हन्यते ।
Padamanjari¶
इकार इत्संज्ञको येषा ते इदितः ततोऽन्येऽनिदितः, तेषां विषेषणम् - हलः इति । व्यत्ययेन त्वेकवचनम् । सनीस्रंस्यत इति । नीग्वञ्चु इत्यादिनाऽभ्यासस्य नीगागमः । नानन्द्यत इति । टुअणदि समृद्धौ, यङ्, दीर्घोऽकितः । नह्यत इति । कित्परत्वेन नकारो विशेष्यते । येन नाव्यावधानमित्येकेन व्यावधानमाश्रीयते - इत्येततु दुर्ज्ञानमिति भावः । लङ्गिकम्प्योरिति । इदित्वाद्वचनम् । कृच्छ्रप्राप्तिरत्रोपतापः न रोगः, शरीरविकार इत्येव सिद्धत्वात् । एशरीरविकारोऽत्र व्याधिरुच्यते, नस्वाभाविकः स्थौल्यादिः । विलगितः, विकपित इति । गत्यर्थाकर्मक इत्यादिना कर्तरि क्तः । मित्वादुपधाह्रस्वत्वमिति । एतदेव मित्ववचनं ज्ञापकम् - रञ्जेरक्ङित्यप्युपधालोपो भवतीति । रजकरजनरजः सूपसंख्यानमिति । कित्वात्सिद्धम् । कित एते औणादिकाः प्रत्ययाः, क्वुन् शिल्पिसंज्ञयोः - रजकः । पुंयोगान्ङीषु - रजकी । अपुंयोगे तु नैव ङीषा भवितव्यम् । रञ्जेः क्युन् - रजनः । स च बाहुलकाट्टित्, रजनी । श्रॄअञ्जिभ्यां किच्च इत्यसुन्, शिरः रजः ॥
Nyaas¶
इद्? इद्? येषां त इदितः, न इदितोऽनिदित इति षष्ठीबहुवचनस्य स्थाने सुब्व्यत्येनैकवचनम्, तच्चानिदितां विशेषणम्, विशेषणेन च तदन्तविधिर्भवतीत्यत आह - हलान्तानाम् इत्यादि। उपधाया नकारस्य इति। उपधाया इत्येतन्नकारस्य विशेषणम्। रुआस्तः, ध्वलस्तः इति। रुआन्सु ध्वन्सु अधः [`अवन्नंसने - धा।पा] पतने (धा।प।754,755) निष्ठा। रुआस्यते, ध्वस्यते इति। भावे कर्मणि वा लकार। सनीरुआस्यते दनीध्वस्यते इति। यङन्ते एते। नीग्वञ्चु (7.4.84) इत्यादिनाभ्यासस्य नीगागमः। नन्द्यते इति। टु णदि समृद्धौ (धातुपाठः-67) [टु नदि - धातुपाठः-] नानन्द्यते इति। यङन्तम्। दीर्घोऽकितः (7.4.83) इत्यभ्यासस्य दीर्घः। नेनीयते इति। नयतेः गणो यङ्लुकोः (7.4.82) इति गुणोऽभ्यासस्य। नह्रते इति। णह बन्धने (धातुपाठः-1166)। लङ्गिकम्प्योः इत्यादि। लङ्गिकम्प्योरिदित्त्वान्नलोपो न प्राप्नोति, अतस्तयोरुपतापशरीरविकारयोरुपसंख्यानं कर्तव्यम्। उपसंख्यानाम्=प्रतिपादनम्। उत्तरत्राप्युपसंख्यानशब्दस्य प्रतिपादनमर्थः। प्रतिपादनन्तु कृतमेव। उपतापः=व्याधिः। शरीरविकारः=शरीरस्यान्यथात्वम्। स पुनरिहोपतापादनयो गृह्रते, अन्यथा उपताप इत्येवं सिद्धे शरीरविकारग्रहणमनर्थकं स्यात्। विलगितः इति। अगि वगि लगि गत्यार्थाः। (धातुपाठः-146,147,145)। उपतापे विलङ्गितः इत्येव प्रयोगो मा भूदित्येवमर्थं लङ्गर्ल्लोपो विधीयते, न तु रूपसिद्ध्यर्थम्; लगे सङ्गे (धातुपाठः-786) इत्यस्य प्रकृत्यन्तरस्य तस्य सिद्धत्वात्। रञ्जेर्णौ इत्यादि। अक्ङिदर्थं वचनम्। मृगरमणम्=मृगक्रीडा। रजयतिः मृगान् इति। रममाणान्? मृगान्? प्रयुङ्क्ते इत्यर्थः। रजनरजकरजःसूपसंख्यानम् इति। अत्र भूयः प्रतिपादनं क्रियते। घञि च भावकरणयोः (6.4.27) इत्यत्र चकारोऽनुक्तसमुच्चयार्थः, तेन रजकादिषु प्रतिपाद्येषु रञ्जेः ष्वुन्नादिप्रत्यये परतो नलोपो भवति। रजकः इति। शिल्पिनि ष्वुन् (3.1.145) । रजनम् इति। ल्युट्। रजः इति। सार्वधातुभ्योऽसुन् (द।उ।9।49)[असुन् - द।#उ।] इत्यसुन्।घिनुणि च इत्यादि। रागी इति। सम्पृचान्वादिसूत्रेण (3.2.142) घिनुण्, चजो कु घिण्ण्यतोः (7.3.52) इति कुत्वम्। त्यज रज भज इति निपातनात्? सिद्धम्` इति। यतोऽयमक्ङिति निमित्ते सम्पृचादिसूत्रे (3.2.142) रञ्जेरनुनासिकलोपं कृत्वा निर्देशं करोति, तज्ज्ञापयति - घिनुप्यति नलोपो भवतीति। ननु च रञ्जेश्च (6.4.26) इति लक्षणेनैव शपि नलोपोऽभिनिर्वृत्तः? न तदस्ति; यथैव इन्धिभवतिभ्याञ्च (1.2.6) इत्यागन्तुकेनेकारेणेन्धेर्निर्देशः, तथेहाप्यागन्तुकेनाकारेण, न तु शपा। न हि इन्धिभवतिभ्याञ्च (1.2.6) इत्यत्रेका निर्देशः, अन्यथा हि अनिदिताम् (6.4.24) इत्यनुनासिकलोपः स्यात्॥
Praudhamanorama¶
ङकार इति। आन्तरतम्यादिति भावः।
Prakriyasarvasvam¶
अनिदितां हलन्तानामङ्गानां किति ङिति च परे उपधाया नस्य लोपः स्यात् । शस्यम् । ण्यति नस्यानुस्वारः । शंस्यम् । क्यप्यगुणः । दुह्यम् । दोह्यम् । गुह्यम् । गोह्यम् । आङयञ्जेः संज्ञायाम् (वा० ३-१-१०९) क्यप् स्यात् । अन् ज् इति नोपधत्वात् प्राग्वन्नलोपः । बहुलोक्तेः करणे । अञ्जनसाधनमाज्यम् ।
Sudha¶
अनिदितामिति । इद्-ह्रस्वेकार इत्संज्ञको येषां तानि इदिन्ति न इदिन्ति - अनिदिन्ति, तेषामनिदिताम् । एतच्च अङ्गस्य विशेषणं, हल इत्यपि, तदाह - हलन्तानामित्यादिना । नुमिति । **उगिदचां सर्वनामस्थानेऽधातोः**(7.1.70) इत्यनेनेति शेषः । संयोगान्तस्य लोप इति । हल्ङ्यादिना सुलोपे सतीति शेषः । कुत्वेन ङ इति । नासिकास्थानसाम्यादिति भावः । प्राङ् । प्र + अन्च इत्यवस्थायाम् **ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च**(3.2.59) इति क्विनि तस्य सर्वापहारे - (सर्वस्य लोपे) प्रत्ययलक्षणेन **अनिदितां हल उपधायाः क्ङिति**(6.4.24) इति उपाधानकारलोपे ‘प्र अच्’ इति स्थिते **कृदतिङ्**(3.1.93) इति क्विनः कृत्संज्ञकत्वात् ‘प्र अच्’ इत्यस्य **कृत्तद्धितसमासाश्च**(1.2.46) इति कृदन्तत्वात्प्रातिपदिकसज्ञायां सौ समागते तस्य **सुडनपुंसकस्य**(1.1.43) इति सर्वनामस्थानसंज्ञायाम् **उगिदचां सर्वनामस्थानेऽधातोः**(7.1.70) इति नुमि उमि गते मित्वादन्त्यादचः परे ‘प्र अन् च् सु’ इति जाते सकारोत्तरवर्त्तिन उकारस्येत्संज्ञायां लोपे च **हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्**(6.1.68)इति स् लोपे **संयोगान्तस्य लोपः**(8.2.23) इति च् लोपे **क्विन्प्रत्ययस्य कुः**(8.2.62) इति नस्य नासिकास्थानसाम्यात् कुत्वेन ङ्कारे **अकः सवर्णे दीर्घः**(6.1.101) इति नस्यानुस्वारे **अनुस्वारस्य ययि परसवर्णः**(8.4.58) इति तस्य परसवर्णे ञकारें प्राञ्चौ इति रूपम् । एवं सर्वत्र सुटि बोध्यम् ।
Vartika¶
अनिदितां नलोपे लङ्गिकम्प्योरुपतापशरीरविकारयोरुपसंख्यानम् ।
Sutra Prayogas¶
नास्रसत् (रघुवंशम्): अनिदिताम् इति नकारलोपः।
रजयांचकार (किरातार्जुनीयम्): रञ्जेर्णौ मृगरमणे नलोपो वतव्यः इति नलोपः।
सध्रीचा (शिशुपालवधम्): अनिदिताम् इति नकारलोपः।