64023: श्नान्नलोपः

Padacheda: श्नात् | S | 5 | 1 |

नलोपः | S | 1 | 1 |

Sutrartha


Vasu English Summary

After न which is added to the roots of the रुधादिगणः (7th Conjugation) as a गणविकरण - श्नम् (characteristic), there is the elision of the following न।

Vasu English Translation

After न which is added to the roots of the रुधादिगणः (7th Conjugation) as a गणविकरण - श्नम् (characteristic), there is the elision of the following न। Thus अनक्ति and भनक्ति from अञ्ज ‘to anoint’, and भञ्ज ‘to break’. Thus अञ्ज् + श्नम् +तिप् = अनञ्ज् + ति (1.1.47) = अनज् + ति (6.4.23) = अनक्ति ॥ So also हिनस्ति from हिसि (हिन्स्) ‘to injure’. Why do we say ‘after श्न’ and not merely ‘after न’, without the indicatory श ? Observe यज्ञानाम्, यत्नानाम्, where the न of नाम् is not elided after the न of यज्ञ and यत्न, the lengthening of अ by (7.3.102) being sthanivat would not have prevented the elision. In the case of विश्नानाम् and प्रश्नानाम् (formed by विश्न + नाम् and प्रश्न + नाम्) also, the न of नाम् is not elided after श्न of विश्न ॥ For the श्न of the sutra is the technical श्न the vikarana, and not any combination of the letters श and न ॥ The pratipadokta maxim applies here. लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् ॥

Bhashya

श्नान्नलोपः (3021) (लोपाधिकरणम्) (शकारप्रयोजनभाष्यम्) अथ किमर्थं श्नमः शकारस्य ग्रहणं क्रियते, न नान्नलोप इत्येवोच्येत ? नान्नलोप इतीयत्युच्यमाने - नन्दिता, नन्दकः - इत्यत्रापि प्रसज्येत । एवं तर्हि एवं वक्ष्यामि - नान्नलोपोऽनिदिताम् । ततः - हल उपधायाः क्ङितीति, अनिदितामिति । नैवं शक्यम् । इह हि न स्यात् - हिनस्ति ॥ तस्मान्नैवं शक्यम् । न चेदेवम् -नन्दिता -नन्दकः -इत्यत्रापि प्रसज्येत ॥ एवं तर्हि क्ङितीति वर्तते । एवमपि हिनस्ति - इत्यत्र न प्राप्नोति । नैषा परसप्तमी । का तर्हि ? सत्सप्तमी - क्ङिति सति । एवमपि - नन्दमानः - इत्यत्रापि प्राप्नोति । एवं तर्हि नशब्द एवात्र क्ङित्त्वेन विशेष्यतेक्ङिच्चेन्नशब्दो भवतीति । एवमपि - यज्ञानां - यत्नानाम् - इत्यत्र प्राप्नोति । दीर्घत्वमत्र बाधकं भविष्यति । इदमिह सम्प्रधार्यं - दीर्घत्वं क्रियतां - नलोप इति, किमत्र कर्तव्यम् ? परत्वान्नलोपः । तस्मात् शकारस्य ग्रहणं कर्तव्यम् ॥ (शकारग्रहणे दोषनिवारकभाष्यम्) अथ क्रियमाणेऽपि शकारग्रहणे इह कस्मान्न भवति - विश्नानां - प्रश्नानाम् - इति ? लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेत्येवं न भविष्यति ॥

Kashika

श्नादिति श्नमयमुत्सृष्टकारो गृह्यते। तत उत्तरस्य नकारस्य लोपो भवति। अनक्ति। भनक्ति। हिनस्ति। शकारवतो ग्रहणं किम्? यज्ञानाम्। यत्नानाम्। सुपि च (७.३.१०२) इति परत्वात् कृतेऽपि दीर्घत्वे स्थानिवद्भावाद् नलोपः स्यादेव। विश्नानां प्रश्नानामित्यत्र लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव० इत्येवं न भवति॥

Siddhanta Kaumudi

श्नमः परस्य नस्य लोपः स्यात् । श्नसोरल्लोपः । इन्धे । इन्त्से । इन्धिता । इनधै । ऐन्ध । ऐन्धाः ।{$ {!1449 खिद!} दैन्ये खिन्ते$} । खेत्ता ।{$ {!1450 विद!} विचारणे$} । विन्ते । वेत्ता । अथ परस्मैपदिनः ।{$ {!1451 शिष्लृ!} विशेषणे$} । शिनष्टि । शिंष्टः । शिंषन्ति । शिशेषिथ । शेष्टा । शेक्ष्यति । हेर्धिः । जश्त्वम् । ष्टुत्वं । झरो झरि -(SK71)इति वा डलोपः । अनुस्वारपरसवर्णौ । शिण्ढि । शिण्ड्ढि । शिनषाणि । अशिनट् । लृदित्वादङ् । अशिषत् ।{$ {!1452 पिषॢ!} संचूर्णने$} । शिषिवत् । पिनष्टि ।{$ {!1453 भञ्जो!} आमर्दने$} । भनक्ति । बभञ्जिथ । बभङ्क्थ । भङ्क्ता ।{$ {!1454 भुज!} पालनाभ्यवहारयोः$} । भुनक्ति । भोक्ता । भोक्ष्यति । अभुनक् ।{$ {!1455 तृह!} {!1456 हिसि!} हिंसायाम्$} ॥

Laghu Siddhanta Kaumudi

श्नमः परस्य नस्य लोपः स्यात्। हिनस्ति। जिहिंस। हिंसिता॥

Balamanorama

श्नान्नलोपः - श्नान्नलोपः । श्नसोरल्लोप इति । तताच इन्ध् ते इति स्थितेझषस्तथो॑रिति तकारस्य धत्वे पूर्वधस्य जश्त्वे परिनिष्टितमाह - इन्द्धे इति । यद्यपिअनिदिता॑मित्येवात्र नलोपः सिध्यति, तथापि अनक्तीत्याद्यर्थं सूत्रमिहापि न्याय्त्वादुपन्यस्तमिति बोध्यम् । इन्धते । इन्द्ध्वे । इन्द्धाम् । इन्तस्व.इन्द्ध्वम् । इनधै इति । श्नमि उत्तमस्य इट एत्वे आटि वृद्धौ इन न् ध् ऐ इति स्थिते श्नान्नलोपे आटः पित्त्वेन ङित्त्वाऽबावात् ‘श्नसोरल्लोपः’ इत्यभावे रुपमिति भावः । अत्र नलोपार्थमपि श्नान् लोप इत्यावश्यकम्, आटः पित्त्वेन ङित्त्वाऽभावात्अनिदिता॑मित्यस्याऽप्रवृत्तेः । इनधावहै । लह्राह - ऐन्द्धेति । ऐन्द्धा इति ।झषस्तथो॑रिति थस्य धः । इन्धीत । लुहि - ऐन्धिष्ट । शिष्लृ ।अनिट् । शिशेषिथेति । अजन्ताऽकारवत्त्वाऽभावात्क्रादिनियमान्नित्यमिट् । शिनष् हीति स्थिते अल्लोपे शिन्ष् हि इति स्थिते आह — हेर्धिरित । शिन् ष् धीति स्थिते आह — जश्त्वमिति ।झलां जश् झशी॑ति षस्यड इति भावः । ष्टुत्वमिति प्रक्रियाप्रदर्शनमात्रपरं, क्रमस्तु न विवक्षितः । झर इति । जश्त्वसंपन्नस्य डस्य लोपविकल्प इत्यर्थः । अनुस्वारपरसवर्णाविति । नकारस्यनश्चे॑त्यनुस्वारे सति तस्य परसवर्णो णकार इत्यर्थः ।न पदान्ते॑ति निषेधान्नाऽल्लोपः स्थानिवत् । ढस्य लोपपक्षे उदाहरति — शिण्ढीति । ढस्य लोपाऽभावे उदाहरति - शिण्ड्ढीति । वस्तुतस्तु सानुस्वार एव पाठ उचितः,दीर्घादाचार्याणा॑मित्युत्तरम्अनुस्वारस्य ययि परसवर्णः॑ ‘वा पदान्तस्य’ ‘तोर्लि’उदः स्थास्तम्भोः पूर्वस्य॑ ‘झयो होऽन्यतरस्यां’शश्छोऽरटी॑ति षट्सूत्रपाठोत्तरं ‘झलां जश् झशि’ ‘अभ्यासे चर्च’ ‘खरि च’ ‘वाऽवसाने’अणोऽप्रगृह्रस्यानुनासिकः॑ इति पञ्चसूत्रीपाठ इति भाष्यसंमताऽष्टाध्यायीपाठे परसवर्णदृष्टआझलां जश् झशी॑त्यस्यझरो झरी॑त्यस्य चाऽसिद्धत्वेन यय्परत्वाऽभावे परसवर्णाऽप्राप्तेरिति शब्देन्दुशेखरे स्थितम् ।शिंष्टात् । शिंष्टम् शिंष्ट । शिनषाणीति । आटः पित्त्वेन ङित्तवाऽभावात्श्नसो॑रित्यल्लोप नेति भावः । अशिनडिति । लङस्तिपो हल्ङ्यादिलोपे षस्य जश्त्वमिति बावः । अशिंष्टाम् । अशिंषन् । अशिनट् । अशिष्टम् । अशिंष्ट । अशिनषमशिंष्व अशिंष्म । भञ्जो । भनक्तीति । श्नमि भ न न् ज् तीति स्थिते ‘श्नान्न लोपः’ इति नलोप इति भावः । भङ्क्तः भञ्जन्तीत्याद्यूह्रम् । भारद्वाजनियमात्थलि वेडिति मत्वाह — वबञ्जिथ बङङ्क्थेति । भङ्क्तेति । अनिडिति भावः । भुज पालनेति । ‘भुजोऽनवने’ इति तङ् वक्ष्यते । भुङ्क्ते भुञ्जाते इत्यादि.तृह हिसि.आद्य ऋदुपधः । सेट् । श्नमि कृते तृणह् तीति स्थिते —

Tattvabodhini

श्नान्नलोपः - श्नान्नलोपः । अस्य मुख्योदाहरणम् — अनक्ति । भनक्ति । श्नादित्युत्सृष्टमकारानुबन्धस्य श्नमो ग्रहणमित्याह — श्नमः परस्येति । एवं चयजयाचे॑ति विश्नशब्द्सयाऽऽमि नुटि विश्नानामित्यत्र लक्षणप्रतिपदोक्त — प्रत्ययग्रहमपरिभाषयोः प्रवृत्त्या नलोपशङ्कैव नास्तीत्याहुः । इन्धे इन्त्से । श्नमो नकारस्यानुस्वारपरसवर्णौ ।अनिदिता॑मिति नलोपस्तु न भवति, अल्लोपस्यअसिद्धवदत्रे॑त्यसिद्धित्वात्सथानिवत्त्वाद्वा । भञ्जो । आदित्करणं निष्ठानत्वार्थम् । भग्नः । भुज पालनादौ ।भुजोऽनवने॑ इत्यात्मनेपदं वक्ष्यते । भुङ्क्ते । भुञ्जाते । भुञ्जते ।

Padamanjari

एपृथक्पदं लुप्तषष्ठीकम्, तेनोतरत्रोपधाग्रहणेन नकारो विशेष्यते । श्नमयमुत्सृष्टमकारो गृह्यत इति । अन्यस्य श्नस्यासम्भावत् । अनक्तीति । अञ्जू व्यक्तिम्रक्षणक्रान्तिगतिषु, भञ्जो आमर्द्दने, हिसि हिंसायाम् । शकारवतो ग्रहणं किम् इह मा भूत्, नन्दिता - नन्दकः । एवं वक्ष्यामि नान्नलोपऽनिदिताम् तैति, ततः हल उपधायाः क्ङितीति अनिदिताम् इत्येव, इहापि न स्यात् - हिनस्तीति । पामादिभ्यो नः - अस्य च ग्रहणं स्यात् एवं तर्हि क्ङितीति वर्तते, सत्सप्तमी चैषा - क्ङिति सतीति, तेन हिनस्तीत्यत्र तिपः पितवादङ्त्वेऽइपि श्नममेव ङ्तिमाश्रित्य लोपो भविष्यति । इहापि तर्हि प्राप्नोति - नन्दमान इति, चानशो ङ्त्वात् एविं तर्हि नशब्दमेव क्ङ्त्वेनि विषेषयिष्यामः - क्ङितो निश्बदादिति, तस्मात् नान्नलोपः इति वक्तव्यमिति पृच्छति - शकारवतो ग्रहणं किमिति । यज्ञानामति । यजयाच इत्यादिना नङ्, श्चनत्वम्, तस्यासिद्धत्वान्नशब्द एवायम् । ननु यद्यपि नामि दीर्घादयं लोपः परः, सुपि च इत्येतर्द्दर्घत्वमस्मात्परम्, तत्र कृते नादिति व्यपदेशाभावादेव लोपो न भविष्यति अत आह - सुपि चेत्यादि । स्थानिवद्भावादिति । पूर्वस्यादपि विधौ स्थानिवद्भावात् । अथ गृह्यमाणेऽपि शकारवतो ग्रहणे विश्नानाम्, प्रश्नानामित्यत्र कस्मान्न भवति, ननु सम्प्रति श्नरुपत्वादत्रैव प्राप्नोति अत आह - विश्नानामिति । एअत्र संग्रहलोकः - नान्नस्यायं विधेयो ननु लुबनिदितां नन्दिता चापि सिध्येद् हिंसेर्न प्राप्तिरेवं क्ङिति सति तु तथा नन्दमानो न सिध्येत् । क्ङ्न्नाच्चेच्चाथि यत्नाद्वहुवचनाबिधौ दुष्यति स्थानिवत्वाद् विश्नानां लक्षणोक्तप्रतिपदवचनात्सिद्ध एवेत्यदोषः ॥ लोपनं लुप्, लोप इत्यर्थः । राल्लोपः इति प्रकृते लोपग्रहणं विस्पष्टार्थम् ॥

Nyaas

अन्यस्य श्नशब्दस्यासम्भवादसत्यपि श्नमो मकारस्य श्रवणे सामर्थ्यात्? श्नम एव ग्रहणं विज्ञायते, इत्यत आह -श्नमयमुत्सृष्टमुकारः इति। उत्सृष्टः=परित्यक्तो मकारो यस्य स तथोक्तः। अनक्ति इत्यादि। अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु (धातुपाठः-1458) भन्जो आमर्दने (धातुपाठः-1453) हिसि हिंसायाम्, (धातुपाठः-1456) अस्योदित्त्वान्नुम्, रुधादित्वात्? श्नम्। शकारवतोग्रहणमेतदर्थं क्रियते -नन्दिता, नन्दकः इत्यत्र मा भूदिति, एतच्चाप्रयोजनम्; प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणम् (व्या।प।72) इत्यनया परिभाषयाऽत्र न भविष्यति। ज्ञापकाच्च, यदयं नन्दिनन्दनशब्दौ क्षुभ्नादिषु पठति, तज्ज्ञापयति -नन्देर्नकारलोपो न भवतीति। सामान्यापेक्षञ्च ज्ञापकम्, तेन नन्दिता, नन्दकः इत्यत्रापि न भविष्यति। तस्मात्? नान्न लोपः इत्येवं वक्तव्यमित्यभिप्रायेणाह -शकारवतो ग्रहणं किम् इति। यज्ञानाम्, यत्नानाम् इति। यजयाच (3.3.90) इति नङ्, तदन्तात्? षष्ठीबहुवचनम्, नुट्। यदि शकारवतो ग्रहणं न क्रियेत तदा तत्र नलोपः स्यादेव। स्यादेतत् -दीर्घे कृते नात् इति व्यपदेशाभावान्न भविष्यतीति? अत आह -सुपि च इत्यादि। सुपि च (7.3.102) इत्यर्थ दीर्घोऽजादेशः, तस्य नकारलोपपूर्वविधौ कर्तव्ये अचः परस्मिन् पूर्वविधौ (1.1.57) इति स्थानिवद्भावेन तद्रूपतामापन्ने परात्वाद्दीर्घत्वे यदि कृतेऽपि शकारविशिष्टस्य ग्रहणं न क्रियते तदा स्यादेवात्र नलोपः। कृताकृतप्रसङ्गित्वाच्च। दीर्घत्वं तु नकारलोपे कृते निमित्तविहितत्वान्न प्राप्नोतीति तदनित्यम्। ननु च पूर्वविधौ स्थानिवद्भाव उक्तः, न चायं पूर्वविधिः? नैष दोषः; अयमपि पूर्ववधिरेव। पूर्वस्माद्? विधिः पूर्वविधिः इत्यस्यापि समामस्य तत्राश्रयणात्। अथ क्रियमाणेऽपि शकारवतो ग्रहणे कस्मादिह न भवति -विआआनाम्, प्रश्नानाम् इति, भवति ह्यत्रापि शकारवान्नकारः? इत्याह -विश्नानां प्रश्नानामित्यत्र इत्यादि। इह हि लक्षणप्रतिपदोकतपरिभाषया (व्या।प।3।) प्रतपदोक्तो यः साक्षान्निर्दिष्टः श्नशब्दस्तस्य ग्रहणम्, न तु लाक्षणिकस्य। विश्नानाम्, परश्नानाम् इत्यत्र हि च्छ्वोः शूडनुनासिके च (6.4.19) इति शकारे कृते श्नशब्दः सम्पद्यते, स च लाक्षमिकः। तस्मात्? ततः परस्य लोपो न भवति। राल्लोपः (6.4.21) इत्यतो मण्डूकप्लुतिन्यायेन लोपग्रहणानुवृत्तौ सत्यां सिद्धायां यत्? पुनर्लोपग्रहणं क्रियते तद्? योग वेभागार्थम्। श्नान्न इत्येको योगः, अत्र च नेत्यविभक्तिकोऽयं निर्देशः, लोपग्रहणञ्चानुवर्तते, तेनायमर्थो भवति -श्नादुत्तरस्य नकारस्य लोपो भवतीति; ततः लोपः इति द्वितीयो योगः, ततः श्नान्न इत्यतो नेत्यनुवर्तते -इष्टे विषये नकारलोपो यथा स्यादिति। तेन लङ्गिकम्पिप्रभृतीनामुपतापशरीरविकारादिषु नलोपः सिद्धो भवति॥

Prakriyasarvasvam

श्नमः परस्य नस्य लोपः स्यात् । हिनस्ति । हिंस्तः । हिंसन्ति । हिनस्सि । हिंस्वः । हिनस्मि । हिंस्वः । यकि इदित्त्वान्नलोपो न । हिंस्यते । लिङि ‘श्नान्नलोपः । हिंस्यात् । हिनस्तु । हिंस्तात् । हेर्धिः । ‘धिच’ (८-२-२५) इति सलोपः । हिन्धि । हिनसानि । ‘तिप्यनस्तेः’ (८-२-७३) इति सस्य दः । अहिनत्, अहिनद् । अहिंस्ताम् । अहिंसन् । ‘सिपि धातो रुर्वा’ (८-२-७४) इति दत्वरुत्वे । अहिनद्, अहिनः । अहिनसम् । अहिंस्व । लुङि नुम् । अहिंसीत् । अहिंसिष्टाम् । कर्मणि अहिंसि । अहिंसिषाताम् । जिहिंस । जिहिंसतुः । जिहिंसिथ । जिहिंसिव । हिंस्यात् । हिंसिता । हिंसिष्यति ॥ अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु । व्यक्तिः प्रकाशनम् । म्रक्षणं मिश्रीकरणम् । ‘श्नान्नलोपः’ (६-४-२३) । अनक्ति । अङ्क्तः । अञ्जन्ति । अनक्षि । अङ्क्थः । अनज्मि । अञ्ज्वः । कर्मणि अज्यते । अञ्ज्यात् । अनक्तु, अङ्क्तात् । अङ्ग्धि । अनजानि । आनक् । आङ्क्ताम् । आञ्जन् । आनक् । आङ्क्तम् । आनजम् । आञ्ज्व । लुङि ऊदित्त्वाद् वेटि प्राप्ते—

Sutra Prayogas

  • अभनङ् (भट्टिकाव्यम्): श्नान्नलोपः इति नलोपः।

  • अखिन्दानः (भट्टिकाव्यम्): नान्नलोपः इति नलोपाभावः।

  • तनच्मि (भट्टिकाव्यम्): नान्नलोपः इति नलोपाभावः।

  • अभवक् (भट्टिकाव्यम्): भञ्जेर्लङि नान्नलोपः इति नलोपे हलङ्यादिलोपे जश्त्वे चर्वे च रूपम्।