64017: तनोतेर्विभाषा

Padacheda: तनोतेः | S | 6 | 1 |

विभाषा | S | 1 | 1 |

Sutrartha


Vasu English Summary

the lengthened of the अङ्ग (stem) of तन् is optional before the Desiderative सन् when it does not take the augment इट्।

Vasu English Translation

the lengthened of the अङ्ग (stem) of तन् is optional before the Desiderative सन् when it does not take the augment इट्। Thus तितांसति or तितंसति ॥ But in तितनिषति no alternative is allowed, as इट् is added to सन् by (7.2.49) Vartika: optionally.

Kashika

तनोतेरङ्गस्य सनि झलादौ विभाषा दीर्घो भवति। तितांसति, तितंसति। झलीत्येव — तितनिषति। सनीवन्तर्ध० (७.२.४९) इत्यत्र तनोतेरुपसंख्यानादिडागमो भवति विकल्पेन॥

Siddhanta Kaumudi

अस्योपधाया दीर्घो वा स्याज्झलादौ सनि । तितांसति । तितंसति । तितनिषति ।<!आशङ्कायां सन्वक्तव्यः !> (वार्तिकम्) ॥ श्वा मुमूर्षति । कूलं पिपतिषति ॥

Balamanorama

तनोतेर्विभाषा - तनोतेर्विभाषा । उपधाया दीर्घ इति । ‘नोपधायायाः’ इत्यतो ‘ढ्रलोपे’ इत्यतश्च तदनुवृत्तेरिति भावः । झलादौ सनीति ।अज्झने॑त्यतस्तदनुवर्तते । तत्र झलादाविति भाष्ये स्थितमिति भावः । आशङ्कायामिति । आशङ्काविषयक्रियावृत्तेर्धातोः स्वार्थे सन्नित्यर्थः । आआ मुमूर्षतीति । शङ्कितमरणो भवतीत्यर्थः । कूलं पिपतिषतीति । शङ्कितपतनं भवतीत्यर्थः ।तनिपती॑ति इट्पक्षे रूपम् । पतेःसनि इडभावपक्षे त्वाह —

Nyaas

तनोतेरुपसंख्यानात् इति। तनिपतिदरिद्राणाम् (कात्या।वा।5059-7.2.49) इत्यस्मात्। श्तिपा निर्देशो यङ्लुग्निवृत्त्यर्थः। प्रकृतिगरहणपरिभाषाया (व्या।प।77) तदन्तादपि विकल्पः सम्भवेत् - तन्तंसति॥ बाल-मनोरमाआ च हौ 329, 6.4.17 इति लुप्तप्रथमाकम्। जहातेरिति। जहातेश्चे`त्यतस्तदनुवृत्तेरिति भावः। चादिदीताविति। `इद्दरिद्रस्ये`त्यतः, `ई हल्यघो`रित्यतश्च तयोरिह चकारेणानुकर्षादिति भावः। जहितात् - जहीतात् जहितम् - जहीतम् जहित - जहीत। जहानि जहाव जहाम। लङ्याह - अजहादिति। अजहिताम् - अजहीतामजहुः। अजहा इति। अजहितम् - अजहीतमजहित-अजहीत। अजहामजहिव-अजहीव अजहिम - अजहीम। बाल-मनोरमातनोतेर्विभाषा 450, 6.4.17 तनोतेर्विभाषा। उपधाया दीर्घ इति। `नोपधायायाः इत्यतो ढ्रलोपे इत्यतश्च तदनुवृत्तेरिति भावः। झलादौ सनीति। `अज्झने`त्यतस्तदनुवर्तते। तत्र झलादाविति भाष्ये स्थितमिति भावः। आशङ्कायामिति। आशङ्काविषयक्रियावृत्तेर्धातोः स्वार्थे सन्नित्यर्थः। आआ मुमूर्षतीति। शङ्कितमरणो भवतीत्यर्थः। कूलं पिपतिषतीति। शङ्कितपतनं भवतीत्यर्थः। `तनिपती`ति इट्पक्षे रूपम्। पतेःसनि इडभावपक्षे त्वाह -

Prakriyasarvasvam

झलादौ सनि तनेर्दीर्घो वा स्यात् । तितांसति, तितंसति । पिपतिषति । अनिट्त्वे ।