64016: अज्झनगमां सनि¶
Padacheda: अच्-हनगमाम् | S | 6 | 3 |
सनि | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The lengthening of the vowel takes place in the case of a अङ्ग (stem) ending in a vowel, as well as of हन् and गम् when the Desiderative affix सन् being झलादि (i.e. not taking the augment इट्) follows.
Vasu English Translation¶
The lengthening of the vowel takes place in the case of a अङ्ग (stem) ending in a vowel, as well as of हन् and गम् when the Desiderative affix सन् being झलादि (i.e. not taking the augment इट्) follows. Thus of roots ending in vowel we have :- विवीषति, तुष्टूषति, चिकीर्षति, जिहीर्षति (7.1.100); of हन् and गम्, जिघांसति, and अधिजिगांसते ॥
Vart:- The rule applies to that गम् which is the substitute of इङ् (2.4.48) ‘to study’. Therefore, not here, संजिगंसते वत्सो मात्रा (cf. (7.2.58)); In the Veda we read स्वर्गे लोकं समजिगांसत्, where though गम् means ‘to go’ and is not, therefore, the substitute of इङ्, the lengthening takes place by the rule (6.3.137). Or the word अच् should not be added in the sutra at all: which should be read as हनगमां सनि meaning “There is lengthening of the stem when the Desiderative सन् follows”. This would apply of course, to vowel-ending stems, because the sentence would mean that, for there cannot be lengthening of a consonant. This will apply to गम् also, in this way :-” A stem ending in a vowel is lengthened in the Desiderative, and so also of गम् which is a substitute of the vowel-stem इ” ॥ In this way, we may see, that there is no necessity of the Vartika.
Bhashya¶
अज्झनगमां सनि (3014) (6515 उपसंख्यानवार्तिकम् ॥ 1 ॥) - गमेर्दीर्घत्वे इङ्ग्रहणम् - गमेर्दीर्घत्वे इङ्ग्रहणं कर्तव्यम् । इङो गमेरिति वक्तव्यम् । इह मा भूत् - सञ्जिगंसते वत्सो मात्रेति ॥ (6516 उपसंख्यानसाधकवार्तिकम् ॥ 2 ॥) - अग्रहणे ह्यनादेशस्यापि दीर्घप्रसङ्गः - अक्रियमाणे हीङ्ग्रहणेऽनादेशस्यापि दीर्घत्वं प्रसज्येत । सञ्जिगंसते वत्सो मात्रेति ॥ (6517 उपसंख्यानानर्थक्यबोधकवार्तिकम् ॥ 3 ॥) - न वा छन्दस्यनादेशस्यापि दीर्घत्वदर्शनात् - न वा इङ्ग्रहणं कर्तव्यम् । किं कारणम् ? छन्दस्यनादेशस्यापि दीर्घत्वदर्शनात् । छन्दस्यनादेशस्यापि गमेर्दीर्घत्वं दृश्यते - स्वर्गं लोकं सञ्ञ्जिगांसत् । छन्दस्यनादेशस्यापि गमेर्दीर्घत्वदर्शनादिङ्ग्रहणमनर्थकम् ॥ (उपसंख्यानसाधकभाष्यम्) यथैव तर्हि छन्दस्यनादेशस्यापि गमेर्दीर्घत्वं भवति, एवं भाषायामपि प्राप्नोति । तस्मादिङ्ग्रहणं कर्तव्यम् ॥ (उपसंख्यानानर्थक्यबोधकभाष्यम्) न कर्तव्यम् । योगविभागः करिष्यते - अचः सनि । अजन्तानां सनि दीर्घो भवति । ततः - हनिगम्योः । हनिगम्योश्च सनि दीर्घो भवति । अच इत्येव । अचः स्थाने यौ हनिगमी ॥ (वार्तिकावतरणभाष्यम्) अथोपधाग्रहणमनुवर्तते, उताहो न ? किञ्ञ्चातः ? (6518 उपधापदानुवर्तने दोषवार्तिकम् ॥ 4 ॥) - सनि दीर्घ उपधाधिकारश्चेत् व्यञ्जनप्रतिषेधः - सनि दीर्घ उपधाधिकारश्चेत् व्यञ्जनस्य प्रतिषेधो वक्तव्यः । चिचीषति - तुष्टूषतीत्येवमर्थम् । एवं तर्हि निवृत्तम् ॥ (6519 उपधापदाननुवर्तने दोषवार्तिकम् ॥ 5 ॥) - अनधिकारे उक्तम् - किमुक्तम् ? हनिगमिदीर्घेष्वज्ग्रहणम् इति । (सिद्धान्तभाष्यम्) नैष दोषः । उक्तमेतत् - ह्रस्वो दीर्घः प्लुत इति यत्र ब्रूयात् अचः इत्येतत्तत्रोपस्थितं द्रष्टव्यम् ॥
Kashika¶
अजन्तानामङ्गानां हनिगम्योश्च सनि झलादौ परे दीर्घो भवति। अजन्तानाम् — विवीषति। तुष्टूषति। चिकीर्षति। जिहीर्षति। हन् — जिघांसति। गम् — अधिजिगांसते ॥गमेरिङादेशस्येति वक्तव्यम्॥ इह मा भूत् — संजिगंसते वत्सो मात्रेति। स्वर्गं लोकं समजिगांसद् इति छन्दसि यदनिङादेशस्यापि दीर्घत्वं दृश्यते, तद् अन्येषामपि दृश्यते (६.३.१३७) इत्यनेन भवति। अथ वा इहाज्ग्रहणं न कर्तव्यम्। सनि दीर्घो भवतीत्येतावदेव सूत्रं कर्तव्यम्, तत्राचा गृह्यमाणस्य विशेषणे सति सिद्धमजन्तस्य दीर्घत्वम्। तत् क्रियते प्रवृत्तिभेदेन गमेरपि विशेषणार्थम् — अजन्तस्याङ्गस्य दीर्घो भवति, अजादेशस्य गमेरिति। ततो न वक्तव्यमिदं गमेरिङादेशस्येति॥
Siddhanta Kaumudi¶
अजन्तानां हन्तेरजादेशगमेश्च दीर्घः स्याज्झलादौ सनि । सन्लिटोर्जेः (SK2331) जिगीषति । विभाषा चेः (SK2525) चिकीषति । चिचीषति । जिघांसति ॥
Laghu Siddhanta Kaumudi¶
अजन्तानां हन्तेरजादेशगमेश्च दीर्घो झलादौ सनि॥
Balamanorama¶
अज्झनगमां सनि - अज्झनगमां सनि । अच्, हन्, गम् — एषां द्वन्द्वः । ‘नोपधायाः’ इत्यत उपधाया इत्यनुवृत्तं हनगमोरन्वेति, न त्वजन्ते, असंभवात् । अङ्गस्येत्यधिकृतम् । अचस्तद्विशेषणत्वात्तदन्तविधिः । गमधातुरिह अजादेश एव विवक्षित इति प्रकृतसूत्रभाष्ये स्पष्टम् ।ढ्रलोपे पूर्वस्ये॑त्यतो दीर्घ इत्यनुवर्तते । तदाह — अजन्तानामित्यादिना । झलादौ सनीति ।च्छ्वोः शू॑डिति सूत्रभाष्येअज्झनगमा॑मित्यत्र सनं झला विशेषयिष्याम् इत्युक्तेरिति भावः । अथ जिधातोरभ्यासात्परस्य कुत्वविधिं स्मारयति — सन्लिटोर्जेरिति । जिगीषतीति । जिगीषतीति । जेर्दीर्घे अभ्यासात्परस्य कुत्वम् । अथ चिञ्धातोरभ्यासात्परस्य कुत्वविकल्पं स्मारयति — विभाषा चेरिति । चिकीषति- चिचीषतीति । अजन्तत्वाद्दीर्घः । जिघांसतीति । हनेः सनिअज्झने॑त्यकारस्य दीर्घः, न त्वन्त्यस्य नकारस्य, दीर्घश्रुत्याअचट इत्युपस्थितेः । द्वित्वम् ।अभ्यासाच्चे॑ति कुत्वम् ।नश्चे॑त्यनुस्वारः ।
Tattvabodhini¶
अज्झनगमां सनि - अज्झगमाम् । गमः सामान्येन ग्रहमे गम्लृ गतावित्यस्मात्संजिगंसते इत्यत्रातिप्रसङ्गः स्यादतःसनि च॑,इङश्चे॑ति सूत्राभ्यां विहितस्येणिङोरादेशस्य,इण्वदिकः॑इति इक आदेशस्य च ग्रहणमित्याशयेनाह — अजादेशगमेरिति । एतच्च सूत्रेऽज्ग्रहणाल्लभ्यते । तथाहि — इहसनी॑त्येव सूत्रं कर्तव्यं, दीर्घश्रुत्योपस्थितेनाऽच इत्यनेनाङ्गस्य विशेषणादजन्ताङ्गस्य दीर्घः । चिचीषति । ततोहनिगम्यो॑रित्यपरं कर्तव्यम् । एवं चाऽज्ग्रहणमतिरित्यमानं प्रवृत्तिभेदेन गमेर्विशेषणार्थम् । अजन्तस्य दीर्गो भवति, अजादेशगमेश्चेति । झलादाविति किम् । जिगमिषति ।गमेरिट् परस्मैपदेषु॑ इति इट् ।
Padamanjari¶
अत्र यद्यपधाया इत्यनुवर्तेत, अजन्तेषु व्यञ्जनस्य दीर्घप्रसङ्गः । तस्मान्निवृतम् । यद्येवम्, हनिगम्योरलोऽन्त्यस्य दीर्घप्रसङ्गः तन्न, अचश्च इत्युपस्थानात् । न चैवमभ्यासस्य प्रसङ्गः, हन् स इति स्थिते परत्वाद्दीर्घत्वे कृते पुनः प्रसङ्गविज्ञानात् द्विर्वचनम् । अस्तु वाऽभ्यासस्यापि दीर्घः, ह्रस्वः इति भविष्यति । जिघांसतीति । अभ्यासाच्चेति कुत्वम् । अधिजिगांसत इति । इङ्श्चेति गमिरादेशः । इह बहवो गमयः - गम्लृ सःप्लृ गतौ इति धातुः, णौ गमिरबोधने, सनि चेतीणादेशः, इण्वदिक इति वक्तव्यम् इतीक आदेशः, इङ्श्च इतीङदेशश्चेति तत्राविशेषात्सर्वत्र प्रसङ्गे सत्याह - गमेरिङदेशस्येति वक्तव्यमिति । इण इक इङ्श्चैक एवादेशः स इहोपलक्ष्यते, अतो धातुमेकं वर्जयित्वा त्रयाणामादेशस्य एग्रहणम्, तथा च वक्ष्यति - अजादेशस्य गमेरिति । एवं चेणिकोरादेशस्यापि गमेर्भावकर्मणोरात्मनेपद इडभावे झलादौ सनि अज्झन इति दीर्घो भवत्येव सञ्जिगांस्यते इति । सञ्जिगंसत इति । गमेः समो गम्यृच्छि इत्यात्मनेपदं विहितम्, तत्र च अकर्मकात् इति वर्तते, तेन सनन्तादपि पूर्ववत्सनः इत्यात्मनेपदमकर्मकादेव भवति, ततश्च मातरमित्यपफाठः, । मात्रेति तृतीयान्तं पठितव्यम् । सञ्चिगांसदिति । सम्पूर्वाद् गमेः सन्, सकर्मकत्वात् परस्मैपदम्, छान्दसत्वादिडभावः, बहुलं च्छन्दस्यमाङ्योगेऽपि इत्यडभावः । प्रायेण तु वृतौ साट्कं कठ।ल्ते । इहेत्यादिना गमेरिङदेशस्येति वक्तव्यम् इत्येतत्प्रत्याचष्टे । कथं पुनः सनि दीर्घः इत्येतावति सूत्रे क्रियमाणऽजन्तस्यैव दीर्घत्वं लभ्यते अत आह - तत्राचेत्यादि । सनि दीर्घः इति सूत्रे क्रियमाणएऽङ्गस्येति वर्तते, दीर्घश्रुत्या वा अचश्च इत्युपतिष्ठते, तत्र विशेषणविषेष्यभावं प्रति कामचारादुतरत्र हनिगम्योदीर्घविधानाद् गृह्यमाणमङ्गमचा विशेष्यते, तेन त्वचाङ्गम, विशेषणेन तदन्तविधिर्भवतीति सिद्धमजन्तस्य दीर्घत्वम्, यथा अकृत्सार्वधातुकयोः इत्यत्र । तस्मादिहाज्ग्रहणं न कर्तव्यम् । किमर्थ तर्हि क्रियते इत्याह - तत्क्रियत इति । प्रवृत्तिभेदेन - व्यापारभेदेन । तमेव दर्शयति - अजन्तस्येति । एवं च अज्ग्रहणं सामर्थ्यादावर्तते इत्युक्तं भवति ॥
Nyaas¶
उपधायाः (6.4.7) इति निवृत्तम्, अत एव वृत्तौ उपधायाः इति नोक्तम्। कः पुनस्तदनुवृत्तौ दोषः स्यात्? व्यञ्जनस्यापि दीर्घत्वं प्रसज्येत। चिकीर्षति, तुष्टूषतीत्यत्र हि यथा अचः (1.2.28) इति वचनादचो भवति, तथा उपधायाः इति वचनादनचोऽपि स्यात्। यद्येवम्, हनिगम्योरच्युपधाया दीर्घत्वं न स्यात्, कस्य तर्हि स्यात्? अलोऽन्त्यस्य (1.1.52) इत्यन्त्यस्य? नैतदस्ति; अत्र हि दीर्घग्रहणेन यत्? अचः (1.2.28) इत्युपस्थापितं तद्धनिगमिभ्यां विशेषयिष्यामः -अचो दीर्घो भवति स चेद्धनिगम्योरिति। यद्येवम्, अभ्यासस्यापि स्यात्? नैतत्; कृतदीर्घस्यैव द्विर्वचनविधानात्। कुत एतत्? द्विर्वचनात्? दीर्घस्य परत्वात्। तुष्टूषति इति। शर्पूर्वाः खयः शेषः [शेषः इति सूत्रे नास्ति -7.4.61] (7.4.61) । चिकीर्षति इति। ऋत इद्धातोः (7.1.100) इतीत्त्वम्, रपरत्वम्, हलि च (8.2.77) इति दीर्घः, अभ्यासस्य कुहोश्चुः (7.4.62) इति चुत्वम्। जिघांसति इति। अभ्यासाच्च (7.3.55) इति हन्तेः कुत्वम् -घकारः, अभ्यासस्य पूर्ववच्चुत्वम् -झकारः, तस्य अभ्यासे चर्च (8.4.54) इति जकारः। अधिजिघांसते इति। इङश्च (2.4.48) इतीङो गमिरादेशः, पूर्ववत्सनः (1.3.62) इत्यात्मनेपदम्। सञ्जिगांसते इति। अत्रापि पूर्ववत्सनः (1.3.62) इति तङ। गमेह्र्रसनन्तात्? समो गम्युच्छि (1.3.29) इत्यादिनात्मनेपदं विहितम्। इङोऽपि अनुदात्तङितः (1.3.12) इत्यादिना। यदि गमेरिङादेशस्येति वचनं, तत्कथं छन्दस्यनिङादेशस्यापि स्वर्गं लोकं समजिगांसदित्यत्र दीर्घत्वं दृश्यते? इत्याह -छन्दसि यदनिङादेशस्यापि` इत्यादि। समजिगांसत् इति। गमेः सनन्ताल्लुङ, गमेरिट्? पस्मैपदेषु (7.2.58) इतीडागमो न भवति; `न वृद्भ्यश्चतुभ्र्यः (7.2.59) इत्यत्र नेति योगविभागात्। इह इत्यादिना यदुक्तं गमेरिङादेशस्य (वा।775) इति, तत्प्रत्याचष्टे। सनि इति प्रथमो योगः, हनिगम्योस्तु दीर्घविधानाय हनिगम्योः इति द्वितीयो योगः कत्तव्य इत्यभिप्रायः। कथं पुनरेतावति योगे क्रियमाणेऽजन्तस्यैव दीर्घत्वं सिध्यति? इत्यत आह -तत्र इत्यादि। गृह्रमाणस्य इति। कृद्योगे कर्मणि षष्ठी। विशेषणे`इति। भावे ल्युट्। विशेषणमनजनतव्यवच्छेदाय। यत्र ह्रस्वदीर्घप्लुताः शिष्यनेते तत्र `अचश्च (1.2.28) इत्येतदुपतिष्टते, तत्राङ्गस्य दीर्घो भवति, किंविशिष्टस्याचः? एवमचा गृह्रमाणस्याङ्गस्य विशेषणे व्यवच्छेदे सति विनाऽप्यज्ग्रहणेनान्तस्यैव दीर्घत्वं सिद्धम्, यथा -अकृत्सार्वधातुकयोः (7.4.25) इत्यत्र। तस्मादपार्थकत्वान्न कर्तव्यमेव। किमर्थं तद्धि क्रियते? इत्याह -तत्क्रियते इति। प्रवर्तनं प्रवृत्तिः=व्यापारः, तस्य भेदो नानात्वम्। प्रवृत्तिभेदश्चैकस्यां सत्यामावृत्तो न सम्भवतीत्यावृत्तिरभ्युपगन्तव्या। ननु च अचश्च (1.2.28) इत्यस्योपश्ताने सति द्वे अज्ग्रहणे भवत इति किमित्यावृत्तिराश्रीयते? नैतदस्ति; असति ह्रजग्रहणे अचश्च (1.2.28) इत्यस्योपस्थानं भवति। अत्राजग्रहणे तु सति निर्दिष्टस्थानिकत्वात्? अचश्च (1.2.28) इत्येतन्नोपतिष्टते, यथा अचो ञ्णिति (7.2.115) इत्यत्रेक्परिभाषा अजन्तस्याङ्गस्य इत्यादिना प्रवृत्तिभेदेनाङ्गमचा गमिञ्च विशेषयति। ततो न वक्तव्यमिदम् इति। अज्गरहणेनैवैतत्प्रतिपाद्यस्यार्थस्यासिद्धत्वात्। न हीङादेशमुक्त्वाऽन्यो गमिरचः स्थाने सम्भवति॥
Prakriyasarvasvam¶
अजन्तानां हन्तेरि२णादेशगमेञ्च झलादौ सनि दीर्घः स्यात् । द्विरुक्तिः । ह्रस्वः । नुनूषति कृष्णम् । हि गतौ । प्राग्वद् दीर्घः । ‘हेरचङि’ (७-३-५६) इति कुत्वम् । ‘हेण्यंन्त- स्यापीष्टम्’ (वा०) । प्रजिघाययिषति । अत्र हायिशब्दात् सनीटि णेर्गुणे च हाययिस इति स्थिते<!णौ कृतं स्थानिवत्!> (वा०) इति हिशब्दस्य द्विरुक्तिः । ‘सँलिटोजेंः’ (७-३-५७) । जिगीषति । ‘विभाषा चेः’ (७-३-५२) चिकीषति, चिचीषति । कृञो दीर्घे कृते ‘ऋत इत् (७-१-१००) । द्वित्वम् । किर् स् किर् स हलादिशेषः । चुत्वम् । ‘हलि च’ (८-२-७७) इति दीर्घः । षत्वम् । चिकीर्षति । एवं मृङोऽपि ‘अज्झन-’ (६-४-१६) इति दीर्घे ‘उदोष्ठ्यपूर्वस्य’ (७-१-१०२) इत्युत्वम् । द्वित्वम् । ‘हलि च’ (८-२-७७) इति दीर्घः । ‘म्रियतेर्लुङ्लिङोश्च’ (१-३-६१) इति नियमात् सनि न तङ् । मुमूर्षति । हनेर्दीर्घः । हान् स । द्वित्वम् । ‘सन्यतः’ (७-४-७९) इतीत्वम् । ‘अभ्यासाच्च’(७-३-५५) इति हस्य कुत्वम् । जिघांसति । गमेर्दीर्घो वक्ष्यते३ । ‘रलो व्युपधात्-’ (१-२-२६) इति वा कित्त्वम् । रुरुचिषते, रुरोचिषते । लिलिखिषति, लिलेखिषति । ‘रुदविद-’ (१-२-८) इति नित्यं कित्त्वम् । रुरुदिषति । विविदिषति । मुमुषिषति । कित्त्वाद् ग्रहादेः प्रसारणम् । ‘सनिग्रह–’ (७-२-१२) इति ग्रहेरनिट्त्वम् । गृह् स । द्वित्वम् । उरदत्वम् । इत्त्वम् । जिगृह् स । ढत्वभष्त्वकत्वानि । जिघृक्षति । स्वपिप्रच्छ्योरनिट्त्वेऽपि प्रच्छेरिड् वक्ष्यते । सुषुप्सति पिपृच्छिषति ।
Sudha¶
अज्झनगमां सनीति । अच्, हन्, गम् एषां द्वन्द्वः । नोपधायाः (6.4.7) इत्यतः उपधाया इत्यनुवृत्तं हनगमोरन्वेति । न त्वजन्ते, असम्भवात् । अङ्गस्य (6.4.1) इत्यधिकृतम् । अचस्तद्विशेषणत्वात्तदन्तविधिः, गमधातुरिह अजादेश एव विवक्षित इति प्रकृतभाष्ये स्पष्टम् । ढ्रलोपे पूर्वस्य दीर्घोऽणः (6.3.111) इत्यतो दीर्घ इत्यनुवर्तते । तदाह - अजन्तानामित्यादिना ।
Vartika¶
गमेरिङादेशस्येति वक्तव्यम् ।
Sutra Prayogas¶
जिघांसुः (किरातार्जुनीयम्): अज्झनगमां सनि इति दीर्घ:।
जिघांसौ (भट्टिकाव्यम्): अज्झन इति दीर्घः ।
निजुह्नूषुः (भट्टिकाव्यम्): अज्झनगमां सनि इति दीर्घः।
जिघांसू (भट्टिकाव्यम्): अज्झनगमां सनि इति दीर्घः।
प्रावुवूर्षु (भट्टिकाव्यम्): अज्झनगमां सनि इति दीर्घः।
सुस्मूर्षमाणो (भट्टिकाव्यम्): अज्झनगमां सनि इति दीर्घत्वम्।
प्रोर्णुनूषुरुपलैः (भट्टिकाव्यम्): अज्झन इति दीर्घः ।
संशिश्रीषुर (भट्टिकाव्यम्): अज्झनगमां सनि इति श्रयतेरनि- ट्पक्षे दीर्घः।
संयुयूषुं (भट्टिकाव्यम्): अज्झन-गमां सनि इति दीर्घः।
प्रतुष्टूषुः (भट्टिकाव्यम्): अज्झनगमां सनि इति दीर्घः।