64018: क्रमश्च क्त्वि

Padacheda: क्रमः | S | 6 | 1 |

च | S | 0 | 0 |

क्त्वि | S | 7 | 1 |

Sutrartha

क्रम्-धातोः झलादि-क्त्वा-प्रत्यये परे विकल्पेन उपधादीर्घः भवति ।

“क्रमुँ (पादविक्षेपे, भ्वादिः, (1.545))” अस्य धातोः क्त्वा-प्रत्यये परे इडागमस्य अनुपस्थितौ विकल्पेन उपधादीर्घः भवति ।

क्रमुँ (पादविक्षेपे, भ्वादिः, (1.545))
--> क्रम् + क्त्वा [**समानकर्तृकयोः पूर्वकाले** (3.4.21) इति क्त्वाप्रत्ययः]
--> क्रम् + त्वा [**उदितो वा** (7.2.56) इति विकल्पेन इडागमस्य अप्राप्तिः]
--> क्राम् / क्रम्  + त्वा [**क्रमश्च क्त्वि** (6.4.18) इति पाक्षिकः उपधादीर्घः]
--> क्रांत्वा / क्रंत्वा [अपदान्तमकारस्य **नश्चापदान्तस्य झलि** (8.3.24) इति अनुस्वारः]
--> क्रान्त्वा / क्रन्त्वा [अनुस्वारस्य **अनुस्वारस्य ययि परसवर्णः** (8.4.58) इति परसवर्णः नकारः]

यदि क्रम्-धातोः विहितस्य क्त्वा-प्रत्ययस्य उदितो वा (7.2.56) इति विकल्पेन इडागमः भवति, तर्हि इदं सूत्रं नैव प्रवर्तते -

क्रमुँ (पादविक्षेपे, भ्वादिः, (1.545))
--> क्रम् + क्त्वा [**समानकर्तृकयोः पूर्वकाले** (3.4.21) इति क्त्वाप्रत्ययः]
--> क्रम् + इट् + त्वा [**उदितो वा** (7.2.56) इति विकल्पेन इडागमस्य प्राप्तिः]
--> क्रमित्वा

बाध्यबाधकभावः

यत्र क्त्वा-प्रत्ययस्य ल्यप्-आदेशः इष्यते, तत्र सः प्रक्रियायाः प्रारम्भे एव भवति । तथा क्रियते चेत् अग्रे प्रक्रियायाम् इदं सूत्रं नैव प्रवर्तते यतः ल्यप्-प्रत्ययः झलादिः नास्ति ।

क्रमुँ (पादविक्षेपे, भ्वादिः, (1.545))
--> प्र + क्रम् + क्त्वा [**समानकर्तृकयोः पूर्वकाले** (3.4.21) इति क्त्वाप्रत्ययः]
--> प्र + क्रम् + ल्यप् [**समासेऽनञ्पूर्वे क्त्वो ल्यप्** (7.1.37) इति ल्यबादेशः]
--> प्रक्रम्य

Sutrartha (English)

The उपधा letter of the verb-root ‘क्रम्’ undergoes an optional दीर्घादेश when followed by a झलादि क्त्वा प्रत्यय.

Vasu English Summary

The penultimate of क्रम is optionally lengthened before the affix क्त्वा when it is without the augment इट्।

Vasu English Translation

The penultimate of क्रम is optionally lengthened before the affix क्त्वा when it is without the augment इट्। Thus क्रन्त्वा or क्रान्त्वा; but क्रमित्वा only, with इट् augment. But when क्त्वा is replaced by ल्यप्, the rule does not apply: as प्रक्रम्य, उपक्रम्य ॥ This is on the maxim अन्तरङ्गानपि विधीन् बहिरङ्गोल्यप् बाधते “a bahiranga substitution of ल्यप्’ supersedes even antaranga rule”.

Kashika

क्रम उपधाया विभाषा दीर्घो भवति क्त्वाप्रत्यये झलादौ परतः। क्रन्त्वा, क्रान्त्वा। झलीत्येव — क्रमित्वा। प्रक्रम्य, उपक्रम्येति बहिरङ्गोऽपि ल्यबादेशोऽन्तरङ्गानपि विधीन् बाधते इति पूर्वमेव दीर्घत्वं न प्रवर्तते॥

Siddhanta Kaumudi

क्रम उपधाया वा दीर्घः स्यात् झलादौ क्त्वि परे । क्रान्त्वा । क्रन्त्वा । झलि किम् । क्रमित्वा । पूङश्च (SK3050) इति वेट् । पवित्वा । पूत्वा ॥

Tattvabodhini

क्रमश्च क्त्वि - झलादावितीति ।जान्तनशा॑मिति सूत्रे वक्तव्यमित्यर्थः ।

Padamanjari

अनुनासिकस्य क्विझलोः क्ङितीति नित्यस्य दीर्घस्यापवादोऽयं विकल्पः । उपधाया इति । यद्यप्युपधाग्रहणं पूर्वमेव निवृतम्, तथापि अचश्च इत्युपस्थानाद्, अन्यस्य चाचोऽसम्भावदेवमुक्तम् । क्रमित्वेति । उदितो वा इति पक्षे इट् । बहिरङ्गोऽपि ल्यबादेश इति । एतच्च अदो अग्धिर्ल्यप्ति किति इत्यत्र ल्यब्ग्रहणेन ज्ञापितम् ॥

Nyaas

अनुनासिकस्य क्विझलोः (6.4.15) इत्यादिना नित्ये प्राप्ते विकल्पार्थ वचनम्। उपधायाः इति। कुत एतत्? अचश्च (1.2.28) इत्यस्योपस्थानादुपधाया एव क्रमोऽच्त्वात्। क्रमित्वा इति। उदितो वा (7.2.56) इति पक्ष इडागमः। प्रक्रम्य इति। समासेऽनञ्पूर्वेक्त्वो ल्यप् (7.1.37) । ननु दीर्घत्वं कत्वाप्रत्ययमपेक्षत इत्यन्तरङ्गम्। ल्यबादेशस्त्वनेकपदाश्रयत्वात्? समासमपेक्षमाणो बहिरङ्गो भवति। तत्रान्तरङ्गत्वाल्लयबदेशात्? प्रागेव झलादौ दीर्घत्वं कस्मान्न भवति? इत्याह -बहिरङ्गोऽपि इत्यादि। अदो जग्धिर्ल्यप्ति किति (2.4.36) इत्यत्र ज्ञापितमेतत् -बहिरङ्गो ल्यबादेशोऽन्तरङ्गान्? विधीन्? बाधते इति॥

Prakriyasarvasvam

अस्य झलादौ क्त्वि परेऽचो दीर्धो वा स्यात् । क्रान्त्वा क्रन्त्वा ॥