64008: सर्वनामस्थाने चासम्बुद्धौ¶
Padacheda: सर्वनामस्थाने | S | 7 | 1 |
च | S | 0 | 0 |
असम्बुद्धौ | S | 7 | 1 |
Sutrartha¶
असम्बुद्धिवाचके सर्वनामस्थाने परे नकारान्तस्य अङ्गस्य उपधायाः दीर्घः भवति ।
पुंलिङ्गशब्दात् स्त्रीलिङ्गशब्दात् वा परस्य सुँ / औ / जस् / अम् / औट् एतेषां पञ्च प्रत्ययानाम् सुडनपुंसकस्य (1.1.43) इत्यनेन ‘सर्वनामस्थान’ संज्ञा भवति । तथैव, नपुंसकलिङ्गशब्दात् परस्य जस् / शस् एतयोः द्वयोः प्रत्यययोः शि सर्वनामस्थानम् (1.1.42) इत्यनेन सर्वनामस्थानसंज्ञा भवति । सर्वनामस्थानसंज्ञके प्रत्यये परे नकारान्तस्य अङ्गस्य उपधास्वरस्य अनेन सूत्रेण दीर्घः विधीयते । परन्तु सम्बोधनैकवचनस्य सुँ-प्रत्यये परे अयं दीर्घादेशः न भवति । यथा - राजन् + औ इत्यत्र ‘औ’ प्रत्ययस्य सर्वनामसंज्ञायां प्राप्तायाम् नकारात् पूर्वः यः अकारः, तस्य दीर्घादेशः भवति, अतः राजानौ इति रूपं सिद्ध्यति । परन्तु राजन् + सुँ [सम्बोधनैकवचनम्] इत्यत्र अयं दीर्घादेशः न भवति, अतः ‘राजन्’ इत्येव रूपं जायते । नपुंसकलिङ्गशब्दस्य विषये अपि अयं दीर्घादेशः जस्-शस्-प्रत्यययोः परयोः दृश्यते । यथा - नामन् + जस् / शस् → नामानि । ज्ञातव्यम् - ‘फल + जस्/शस्’ इत्यत्रापि अस्य सूत्रस्य प्रसक्तिः अस्तीति स्मर्तव्यम् । अस्य प्रक्रिया एतादृशी अस्ति - फल + जस् / शस् → फल + शि [जश्शसोः शि (7.1.20) इति शि-आदेशः । शि सर्वनामस्थानम् (1.1.42) इति सर्वनामस्थानसंज्ञा ।] → फलन् + इ [शकारस्य इत्संज्ञा, लोपः । नपुंसकस्य झलचः (7.1.72) इति अङ्गस्य नुमागमः] → फलानि [सर्वनामस्थाने चासम्बुद्धौ (6.4.8) इति अङ्गस्य उपधावर्णस्य दीर्घः । अनेनैव प्रकारेण वारीणि, मधूनि, धातॄणि इत्यत्रापि उपधावर्णस्य दीर्घः अनेन सूत्रेण भवति ।
Sutrartha (English)¶
The उपधा letter of a नकारान्त अङ्ग becomes दीर्घ when followed by a प्रत्यय which is a सर्वनामस्थान other than सम्बोधन-एकवचन.
Vasu English Summary¶
In a अङ्ग (stem) ending in न् the preceding vowel is lengthened in strong cases with the exception of the Vocative Case singular.
Vasu English Translation¶
In a अङ्ग (stem) ending in न् the preceding vowel is lengthened in strong cases with the exception of the Vocative Case singular. As राजा, राजानौ, राजानः, राजानम्, राजानौ ॥ So also सामानि तिष्ठन्ति ॥ राजा was राजान्स्, the स् was elided by (6.1.68), and म् by (8.2.7). Why do we say ‘in strong cases’? Observe राजनि (Locative Singular); सामनि (Locative Singular). Why do we say ‘but not in the Vocative Singular’? Observe हे राजन् ! हे तक्षन् !
Kashika¶
सर्वनामस्थाने च परतोऽसंबुद्धौ नोपधाया दीर्घो भवति। राजा, राजानौ, राजानः। राजानम्, राजानौ। सामानि तिष्ठन्ति। सामानि पश्य। सर्वनामस्थान इति किम्? राजनि। सामनि। असंबुद्धाविति किम्? हे राजन्। हे तक्षन्॥
Siddhanta Kaumudi¶
नान्तस्योपधाया दीर्घः स्यादसंबुद्धौ सर्वनामस्थाने परे ॥
Laghu Siddhanta Kaumudi¶
नान्तस्योपधाया दीर्घोऽसम्बुद्धौ सर्वनामस्थाने॥
Balamanorama¶
सर्वनामस्थाने चासम्बुद्धौ - न भूसुधियोः । ‘इणो य’ णित्यतो यणिति,ओः सुपी॑त्यतः सुपीति,इको यणची॑त्यतोऽचीति चानुवर्तते । तदाह — एतयोरित्यादिना । एतयोरिति-सूत्रोक्तभूसुधियोः परामर्शः । अचीति । अजादावित्यर्थः । यणि प्रतिषिध्दे इयङमभिप्रेत्य आह — सुधियाविति । आदिना अजादिसर्वसङ्ग्रहः । प्रधीवद्रूपाणि । इयङेव विशेषः । अचीति वस्तुस्थितिः । अनजादौ यणः प्रसक्त्यभावात् । सुपीति किम् । सुधीभिरूपास्यः सुध्युपास्यः । वस्तुतस्तु सूपीति नानुवर्तनीयम् । ‘एरनेकाचः’ इति यणो ह्यत्र न प्रसक्तिः, तस्य अजादिप्रत्यये विधानादुपास्यशब्दस्य च प्रत्ययत्वाऽभावात् ।इको यणची॑ति तु भवत्येव, ‘अनन्तरस्य’ इति न्यायेनएरनेकाचः॑,ओः सुपी॑ति च विहतयण एव प्रतिषेधात् । सुधिया उपास्यः सुध्युपास्य इत्यत्र त्वन्तर्वर्तिनीं विभक्तिमाश्रित्य ‘एरनेकाचः’ इति यणो ‘न भूसुधियोः’ इति प्रतिषेधेऽपि ‘उपास्यः’ इत्यचमाश्रित्यइको यणची॑ति यण् भवत्येव,अनन्तरस्ये॑ति न्यायेन तस्याऽत्र प्रतिषेधाऽभावादित्यलम् । सखीयतीति । ‘सुप आत्मनः’ इति सखिशब्दात्क्यचि कृतेअकृत्सार्वधातुकयो॑रिति दीर्घेसखीयती॑ति रूपम् । ततः क्विबिति । तस्मात्=सखीयशब्दात् ‘सनाद्यन्ताः’ इति दातुसंज्ञकात्क्विप्चे॑ति सूत्रेण क्विबित्यर्थः । अल्लोपयलोपाविति । ‘अतोः लोपः’ इति यकारादकारस्य लोपः,लोपो व्यो॑रिति यलोप इत्यर्थः । यलोपे कर्तव्येऽल्लोपस्तु न स्थानिवत्,न पदान्ते॑ति यलोपे स्थानिवत्त्वनिषेधात् । स्थानिवत्त्वादिति ।अचः परस्मिन्नित्यनेने॑ति शेषः । यणि प्राप्ते इति ।खकारादीकारस्यइको यणचीत्यनेने॑ति शेषः । न चान्तर्वर्तिसुपा पदान्तत्वा॑न्न पदान्ते॑ति निषेधः शङ्क्यः, ‘नः क्ये’ इति क्यचि नान्तस्यैव पदत्वात् । क्वौ लुप्तिमिति । ‘न पदान्त’ सूत्रेक्विलुगुपधात्वचङ्परनिह्र्यासकुत्वेषूपसङ्ख्यान॑मिति वार्तिकेक्विलु॑गित्यंशस्यायमनुवादः । तत्रलु॑गिति लोपो विवक्षित इति तत्रैव भाष्ये स्पष्टम् । लुप्तमिति भावे क्तः । क्विप्प्रत्ययपरको लोपो न स्थानिवदित्यर्थः । ततस्च खकारादीकारस्याऽच्परकत्वाऽभावान्न यणिति भावः । यद्यपिन पदान्ते॑ति सूत्रेक्वौ लुप्तं न स्थानिव॑दिति निराकृत्य,क्वौ विधिं प्रति न स्थानिव॑दित्येव स्वीकृतं तथापि गोमत्यतेः क्विपि गोमानिति भाष्यात्क्वौ लुप्तं न स्थानिवदित्यपि क्वचिदस्तीति शब्देन्दुशेखरे स्थितम् । ततस्च सखायमिच्छतीत्यर्थे सखीति ईदन्तं रूपं स्थितम् । ततः सुबुत्पत्तिः । अनङ्णित्वे इति । ‘अनङ् सौ’ ‘सख्युरसम्बुद्धौ’ इत्युभाभ्या॑मिति शेषः । इदन्तसखिशब्दस्य विधीयमाने अनङ्णित्त्वे कथं सखीशब्दस्य ईदन्तस्य भवेतामित्यत आह — एकदेशेति । हे सखीरिति । अङ्यन्तत्वान्न सुलोपः । स्त्रीत्वाऽभावान्नदीत्वाऽभावान्नदीकार्यं न भवति । यणि प्राप्ते इति ।एरनेकाचः इत्यनेने॑ति शेषः । शसि यणिति । पूर्वसवर्णदीर्घापवादो यण् । कृतपूर्वसवर्णदीर्घत्वाऽभावान्नत्वं नेति भावः । सख्या । सख्ये । सख्युः । सख्योः । सख्यौ । सह खेनेति । खमाकाशं खकारो वा ।तेन सहेति तुल्ययोगे॑ इति बहुव्रीहिः ।वोपसर्जनस्ये॑ति सभावः । तमिच्छतीति । सखमात्मन इच्छतीत्यर्थे ‘सुप आत्मनः’ इति क्यच् ।क्यचि चे॑तीत्वं, ‘सनाद्यन्ताः’ इति धातुत्वात्क्विपि अल्लोपयलोपयोः सखीशब्दः । एवं सुखीशब्दः, सुतीशब्दश्च । सखीरिति । अङ्यन्तत्वान्न सुलोपः । सख्यावित्यादि । अजादौ ‘एरनेकाचः’ इति यणिति भावः । सख्यम् । सख्यः सख्या । सख्ये ।दीर्घस्यापीति । एतदर्थमेव तत्र कृतयणा निर्देश इति भावः । सख्याम् । सख्यि । सुखीसुतीशब्दयोरप्येवम् । लूनीरिति ।लूञ् छेदने॑क्तः । ‘त्वादिभ्यः’ इति नत्वम् । क्यचि ईत्वम् । अङ्यन्त्रत्वान्न सुलोपः । ‘क्षै क्षये’ क्तः ।आदेच उपदेशेऽशिती॑त्यात्त्वम् । ‘क्षायोः मः’ इति मत्वम् । क्यजादि पूर्ववत् । प्रस्तीमीरिति ।स्त्यै ष्टए शब्दसङ्घातयोः । क्तः । ‘आदेचः’ इत्यात्त्वम् ।प्रस्त्यो ।ञन्यतरस्या॑मिति मः ।स्त्यः प्रपूर्वस्ये॑ति सम्प्रसारणम् ।सम्प्रसारणाच्चे॑ति पूर्वरूपम् । ‘हलः’ इति दीर्घः । क्यजादि पूर्ववत् सखी सुतीत्यादिवद्रूपाणि । ङसिङसोर्यणिति । ‘एरनेकाचः’ इत्यनेने॑ति शेषः ।असिद्धत्वा॑दित्यनन्तरंत्यात्परत्वा॑दिति शेषः । शुष्कीयतेरिति ।इक्शितपौ धातुनिर्देशे॑ इति श्तिपा निर्देशोऽयम् । शुषधातोः क्तः । शुष्कः । ‘शुषः कः’ इति कत्वम् । शुष्कमात्मन इच्छतीत्यर्थे क्यजन्ताच्छुष्कीयधातोः क्विपि शुष्कीरिति रूपमित्यर्थः । अङ्यन्तत्वान्न सुलोपः । सखी सुतीत्यादिशब्दवच्छुष्कीशब्दः । शुष्कियावित्यादि । संयोगुपूर्वत्वान्न यण्, किं तु इयङिति विशेष इतीति भावः । ङसिङसोः शुष्किय इति । न च कत्वस्याऽसिद्धत्वात्ख्यत्यात्परत्नादुत्त्वं शङ्क्यम्, #इयङादेशे सति कृतयणादेशत्वाऽभावादिति भावः । इति ईदन्ताः । शम्भुर्हरिवदिति । तत्र पूर्वसवर्णदीर्घ ऊकारः, गुणस्तु ओकारः, अवित्यादयो विशेषास्त्वान्तरतदम्यात्सङ्गता इति भावः ।क्रुश आह्वाने, रोदने चे॑ति धातोःसितनिगमिमसिसच्यविधाञ्क्रुशिभ्यस्तुन् इति तुन्प्रत्ययेव्रश्चे॑ति शस्य षकारे, ष्टुत्वेन टकारे च क्रोष्टुशब्दः । क्रुशधातो कर्तरि तृचि तु क्रोष्टृशब्दः । द्वावपि सृगालवाचिनो ।
Tattvabodhini¶
सर्वनामस्थाने चासम्बुद्धौ - अचि सुपीति । सुपीति किम् सुध्युपास्यः । वस्तुतस्तु सुपीत्यननुवृत्तावपि न क्षतिः,अनन्तरस्ये॑ति न्यायेन॒एरनेकाचः॑इतिओः सुपी॑ति च सूत्रद्वयेन प्रापितस्यैव यणोन भूसुधियो॑रिति निषेधाभ्युपगमात् । स्थानिवत्त्वाद्यणि प्राप्त इति ।एरनेकाचः -॑इत्यनेन । न चान्तर्वर्तिनीं विभक्तिमाश्रित्य सखि शब्दस्य पदत्वात्न पदान्ते॑ति निषेधेन अल्लोपो न स्थानिनदिति वाच्यम्, नः क्ये नियमेन क्यचि नान्तस्यैव पदत्वात् ।॑क्वौ लुप्तं न स्थानिवत् । क्वौ लुप्तमिति ।नपुंसके भावे क्तः॑ । क्वौ लोप इत्यर्थः । इदं सर्वं कुमारीमिच्छन् किमारीत्यत्रापि बोध्यम् ।क्वौ लुप्त॑मित्येतत्क्काचित्कं,क्वौ विधिं प्रति न स्थानिव॑दित्यब्युपगमात् । अन्यथाबेभिदि ब्राआहृणकुलानी ति हलन्तनपुंसके वक्ष्यमाणं न सङ्गच्छेत । बेभिद्यतेः क्किपि अल्लोपे यलोपे च क्वौ लुप्तत्वेनाऽल्लोपस्य स्थानिवत्त्वाऽभावे झलन्तलक्षणनुम्प्रसङ्गात् ।क्वौ विधिं पर्ति न स्थानिव॑ दित्यस्योदाहरणं तु लवमाचक्षाणोः लौः । अत्र णिचि यष्टिलोपो, यश्च क्वौ णिलोपः, तदुभयंछ्वोः शू॑डिति वकारस्य क्विनिमित्ते ऊठि कर्तव्ये न स्थानिवत् ।एत्येदत्यूठ्सु॑इति वृद्धिः । अत्रेदमवधेयम्, -॒न पदान्ते॑ति सूत्रेक्विलुगुपधात्वचङ्परनिह्र्यासकुत्वेषूपसङ्ख्यान॑मिति वार्तिकमस्ति तदेकदेशानुवादोऽयंक्वौ लुप्त॑मित्यादीति ।लुका लुप्ते न स्थानिव दित्यादीनामप्युदाहरणान्यत्रोच्यन्ते । पञ्चभिः पट्वीबिः क्रीतः पञ्चपटुः ।अर्हा॑दिति ठक्, तस्यअध्यर्धपूर्वे॑ति लुक्,लुक्तद्धितलुकी॑ति ङीषो लुक् । तस्य लुका लुप्तत्वेन स्थानिवत्त्वाऽभावादत्र यणादेशो न भवति । न च ङीषो लुकः परनिमित्तकत्वाऽभावात्स्थार्निवत्त्वं न भवेदिति शङ्कयं, ङीषो लुकं प्रति स्थानिद्वारा तद्धितलुकः परत्वस्वीकारात् । यद्वा बुद्धि परिक्लिपतं पौर्वापर्यमभावेऽप्यस्तीति नास्त्यत्राऽनुपपत्तिः । न च अढे तद्धिते विवक्षितेभास्यैढे॑इति पुंवद्भावादुक्तनिषेधं विनैवेष्टसिद्धिरित्यपि शङ्क्यं,यत्र भाविभत्वं तत्रैव पुंवद्भावः, इह तु लुकि भत्वाऽभावात्कुतः पुंवद्भाव॑इति कैयटेनोक्तत्वात् । तथा पञ्चेन्द्राण्यो देवता अस्य पञ्चेन्द्रः ।सास्य देवते॑त्यण् ।द्विगोर्लुगनपत्ये इति लुक् । ततो ङीषो लुकि तस्य स्थानिवत्त्वाऽभावान्ङीषा संनियुक्त आनङ् श्रूयते । पुंवद्भावास्यात्राऽऽशङ्कापि नास्ति, इन्द्रे इन्द्रत्वमिन्द्राण्यामिन्द्रस्त्रीत्वमिति प्रवृत्तिनिमित्तभेदे भाषितपुंस्कत्वस्यानभ्युपगमात् । ये तुन पदान्ते॑ति सूत्रेवर-ई॑इति ईकारप्रश्लेषं कुर्वन्तितेषामिह लुग्ग्रहणं न कार्यम् ।उपधात्वे कर्तव्ये न स्थानिवत् । तेन परिखाशब्दाच्चातुरर्थिके अणि कृतेवृद्धादकेकान्ते॑त्यादिना पारिखशब्दत्खोपधलक्षणे छप्रत्ययेपारिखीयः॑सिध्ति । अन्यथा उपधासंज्ञायाः पूर्वविधित्वेन तस्यां कर्तव्यायामालोपः स्थानिवत्स्यात् । नन्वेवंपटयती॑त्यादौ वृद्धिः स्यादिति चेन्न, यत्रोपधासंज्ञयामुपजीव्यप्रत्ययो विहिततस्तत्रैवायं निषेध इति भाष्ये स्थितत्वात् । तत्र च चङ्परनिपह्र्यासग्रहणमेव ज्ञापकम् — ॒चङ्परनिर्ह्रासस्तत्र न स्थानिवत् । वादितवन्तं प्रयोजितवान् अवीवद्वीणां परिवांदकेन । अत्र पर्थमणिलोपस्य स्थानिवत्त्वादाकारोऽनुपधेतिणौ चङी॑त्युपधाह्रस्वो न प्राप्तोति । णिसामान्यग्रहणादेतत्सिद्धमिति चेत्, तह्र्रन्यदुदाहर्तव्यं, वारि आख्यदवीवरत् । न चअग्लोपी॑ति निषेधः शङ्क्यः, परत्वाद्वृद्धौ सत्यां टिलोप इत्यभ्युपगमेनाऽग्लोपित्वाऽभावात् । अतएवमुण्डमिश्रे॑ति सूत्रे हलिकल्योर्हलकलेत्यदन्तनिपातनं सार्थकम् ।कृत्वे न स्थानिवत् । अर्चयतेरर्कः ।कृदाधारार्चिकलिभ्यः॑इति कः । पाचयतेः पाक्तिः । इ ह॒चोः॑कु॑रिति कुत्वे णिलोपो न स्थानिवत् । वार्तिकेऽस्मिन् क्विचङ्परनिह्र्यासोपधानां ग्रहणमावश्यकं । कृत्वे न स्थानिवत्,लुक ईकारप्रश्लेषेण गतार्थत्वात्, कुत्वस्य पूर्वत्रासिद्धीयत्वाच्चेत्यवधेयम् ।चजो॑रिति कुत्वे चोदाहरणमन्वेषणीयम् । सख इति ।तेन सहेती॑ति बहुव्रीहौवोपसर्जनस्ये॑ति सभावः । सखीरित्यादि ।सुपाअत्मनः क्यच् ।क्यचि च॑ इतीत्त्वम् । दीर्घस्यापीति । एतदर्थं कृतयणदेश इति भावः । ननु अतिसखेर्भूपतेरिति गुणविषयं व्यापर्तयितुं यणा निर्देश इति चेदस्त्वेवं, तथापि दीर्घे प्रवृत्तिः केन वार्यताम् । न हि ह्रस्वे यणा भाव्यं न दीर्घेष्वित्यत्र प्रमाणमस्ति । सौत्रस्य विकृतिनिर्देशस्याऽव्याप्त्यतिव्याप्त्युभयवारकत्वे सारवत्त्वलाभेन तथैवौचित्याद्भाष्यारूढत्वाच्च । लूनमिति ।ल्वादिभ्यः॑इति निष्ठातस्यः नः । क्षाममिति ।क्षयो मः॑इति मः ।स्त्यःप्रपूर्वस्ये॑ति संप्रासारणम् । शुष्कीरिति ।शुषः कः॑इति निष्ठातस्य कः । पक्वीरिति ।पचोः वः॑इति वः । इयङिति । संयोगपूर्वत्वादिवर्णस्य यण्नेति भावः । इतीदन्ताः । हरिवदिति । तद्वत्साध्य इत्यर्थः ।
Padamanjari¶
राजनीति । विभाषा ङिश्योः इत्यिल्लोपाभावपक्षे दीर्घत्पप्रसङ्गः । एवं चर्मणामित्यादावपि प्रसङ्गः ॥
Prakriyasarvasvam¶
असम्बुद्धौ सर्वनामस्थाने परे नान्तस्योपधाया दीर्घः स्यात् । सखान् स् ॥
Sarala¶
ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यतो “दीर्घ” इति, “नोपधाया” इति च वर्त्तते, अङ्गस्य (६.४.१) इत्यधिकृतं, विशेषणेन तदन्तविधिस्तदाह - नान्तस्येति ॥
Sudha¶
सर्वनामस्थाने इति । “नोपधायाः” इति सूत्रमनुवर्तते । ढ्रलोपे पूर्वस्य दीर्घोऽणः**(6.3.111) इत्यतो दीर्घ इत्यनुवर्तते । तदाह - **नान्तस्येत्यादिना । तदन्तस्येति । षष्ठीतत्पुरुषोऽयम् । तस्य प्रातिपदिकसञ्ञ्ज्ञकपदस्य अन्तो यो नकारस्तस्येत्यर्थः। प्रातिपदिकेति किम् ? अहन् । पदमिति किम् ? राजानौ, राजानः । सखा । सखिशब्दात् प्रथमैकवचनविवक्षायाम् सुसमागते उकारस्येत्सञ्ज्ञायां लोपे च “सखि-स्” इति स्थिते **अनङ् सौ**(7.1.93) इति अनङादेशे प्राप्ते क्व स्यात् इति शङ्कायाम् **अनेकाल्शित्सर्वस्य**(1.1.55) इति परिभाषया सर्वस्य स्थाने प्राप्ते परं **ङिच्च**(1.1.53) इत्यनेन तं प्रवाध्य अन्त्यस्य-खकारोत्तरवर्तिन इकारस्य स्थानेऽनङादेशे जाते ङकारस्येत्सञ्ज्ञायां लोपे च “सखन् स्” इति जाते **अलोऽन्त्यात् पूर्व उपधा**(1.1.65) इति उपधासञ्ज्ञात्वे **सर्वनामस्थाने चासम्बुद्धौ**(6.4.8) इति नान्तस्य पदस्योपधाया दीर्घे विहिते “सखान् स्” इत्यवस्थायाम् **अपृक्त एकाल् प्रत्ययः**(1.2.41) इति सस्यापृक्तसञ्ज्ञायां कृतायाम् **हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्**(6.1.68) इति सस्य लोपे “सखान्” इत्यवशिष्टे **नलोपः प्रातिपदिकान्तस्य**(8.2.7) इति नलोपे “सखा” इति रूपम् ।