64008: सर्वनामस्थाने चासम्बुद्धौ ================================ **Padacheda:** सर्वनामस्थाने | S | 7 | 1 | च | S | 0 | 0 | असम्बुद्धौ | S | 7 | 1 | Sutrartha --------- **असम्बुद्धिवाचके सर्वनामस्थाने परे नकारान्तस्य अङ्गस्य उपधायाः दीर्घः भवति ।** पुंलिङ्गशब्दात् स्त्रीलिङ्गशब्दात् वा परस्य सुँ / औ / जस् / अम् / औट् एतेषां पञ्च प्रत्ययानाम् **सुडनपुंसकस्य** (1.1.43) इत्यनेन 'सर्वनामस्थान' संज्ञा भवति । तथैव, नपुंसकलिङ्गशब्दात् परस्य जस् / शस् एतयोः द्वयोः प्रत्यययोः **शि सर्वनामस्थानम्** (1.1.42) इत्यनेन सर्वनामस्थानसंज्ञा भवति । सर्वनामस्थानसंज्ञके प्रत्यये परे नकारान्तस्य अङ्गस्य उपधास्वरस्य अनेन सूत्रेण दीर्घः विधीयते । परन्तु सम्बोधनैकवचनस्य सुँ-प्रत्यये परे अयं दीर्घादेशः न भवति । यथा - राजन् + औ इत्यत्र 'औ' प्रत्ययस्य सर्वनामसंज्ञायां प्राप्तायाम् नकारात् पूर्वः यः अकारः, तस्य दीर्घादेशः भवति, अतः राजानौ इति रूपं सिद्ध्यति । परन्तु राजन् + सुँ [सम्बोधनैकवचनम्] इत्यत्र अयं दीर्घादेशः न भवति, अतः 'राजन्' इत्येव रूपं जायते । नपुंसकलिङ्गशब्दस्य विषये अपि अयं दीर्घादेशः जस्-शस्-प्रत्यययोः परयोः दृश्यते । यथा - नामन् + जस् / शस् → नामानि । ज्ञातव्यम् - 'फल + जस्/शस्' इत्यत्रापि अस्य सूत्रस्य प्रसक्तिः अस्तीति स्मर्तव्यम् । अस्य प्रक्रिया एतादृशी अस्ति - फल + जस् / शस् → फल + शि [**जश्शसोः शि** (7.1.20) इति शि-आदेशः । **शि सर्वनामस्थानम्** (1.1.42) इति सर्वनामस्थानसंज्ञा ।] → फलन् + इ [शकारस्य इत्संज्ञा, लोपः । **नपुंसकस्य झलचः** (7.1.72) इति अङ्गस्य नुमागमः] → फलानि [**सर्वनामस्थाने चासम्बुद्धौ** (6.4.8) इति अङ्गस्य उपधावर्णस्य दीर्घः । अनेनैव प्रकारेण वारीणि, मधूनि, धातॄणि इत्यत्रापि उपधावर्णस्य दीर्घः अनेन सूत्रेण भवति । Sutrartha (English) ------------------- The उपधा letter of a नकारान्त अङ्ग becomes दीर्घ when followed by a प्रत्यय which is a सर्वनामस्थान other than सम्बोधन-एकवचन. Vasu English Summary -------------------- In a अङ्ग (stem) ending in न् the preceding vowel is lengthened in strong cases with the exception of the Vocative Case singular. Vasu English Translation ------------------------ In a अङ्ग (stem) ending in न् the preceding vowel is lengthened in strong cases with the exception of the Vocative Case singular. As राजा, राजानौ, राजानः, राजानम्, राजानौ ॥ So also सामानि तिष्ठन्ति ॥ राजा was राजान्स्, the स् was elided by (6.1.68), and म् by (8.2.7). Why do we say 'in strong cases'? Observe राजनि (Locative Singular); सामनि (Locative Singular). Why do we say 'but not in the Vocative Singular'? Observe हे राजन् ! हे तक्षन् ! Kashika ------- सर्वनामस्थाने च परतोऽसंबुद्धौ नोपधाया दीर्घो भवति। राजा, राजानौ, राजानः। राजानम्, राजानौ। सामानि तिष्ठन्ति। सामानि पश्य। सर्वनामस्थान इति किम्? राजनि। सामनि। असंबुद्धाविति किम्? हे राजन्। हे तक्षन्॥ Siddhanta Kaumudi ----------------- नान्तस्योपधाया दीर्घः स्यादसंबुद्धौ सर्वनामस्थाने परे ॥ Laghu Siddhanta Kaumudi ----------------------- नान्तस्योपधाया दीर्घोऽसम्बुद्धौ सर्वनामस्थाने॥ Balamanorama ------------ **सर्वनामस्थाने चासम्बुद्धौ** - न भूसुधियोः । 'इणो य' णित्यतो यणिति,ओः सुपी॑त्यतः सुपीति,इको यणची॑त्यतोऽचीति चानुवर्तते । तदाह — एतयोरित्यादिना । एतयोरिति-सूत्रोक्तभूसुधियोः परामर्शः । अचीति । अजादावित्यर्थः । यणि प्रतिषिध्दे इयङमभिप्रेत्य आह — सुधियाविति । आदिना अजादिसर्वसङ्ग्रहः । प्रधीवद्रूपाणि । इयङेव विशेषः । अचीति वस्तुस्थितिः । अनजादौ यणः प्रसक्त्यभावात् । सुपीति किम् । सुधीभिरूपास्यः सुध्युपास्यः । वस्तुतस्तु सूपीति नानुवर्तनीयम् । 'एरनेकाचः' इति यणो ह्यत्र न प्रसक्तिः, तस्य अजादिप्रत्यये विधानादुपास्यशब्दस्य च प्रत्ययत्वाऽभावात् ।इको यणची॑ति तु भवत्येव, 'अनन्तरस्य' इति न्यायेनएरनेकाचः॑,ओः सुपी॑ति च विहतयण एव प्रतिषेधात् । सुधिया उपास्यः सुध्युपास्य इत्यत्र त्वन्तर्वर्तिनीं विभक्तिमाश्रित्य 'एरनेकाचः' इति यणो 'न भूसुधियोः' इति प्रतिषेधेऽपि 'उपास्यः' इत्यचमाश्रित्यइको यणची॑ति यण् भवत्येव,अनन्तरस्ये॑ति न्यायेन तस्याऽत्र प्रतिषेधाऽभावादित्यलम् । सखीयतीति । 'सुप आत्मनः' इति सखिशब्दात्क्यचि कृतेअकृत्सार्वधातुकयो॑रिति दीर्घेसखीयती॑ति रूपम् । ततः क्विबिति । तस्मात्=सखीयशब्दात् 'सनाद्यन्ताः' इति दातुसंज्ञकात्क्विप्चे॑ति सूत्रेण क्विबित्यर्थः । अल्लोपयलोपाविति । 'अतोः लोपः' इति यकारादकारस्य लोपः,लोपो व्यो॑रिति यलोप इत्यर्थः । यलोपे कर्तव्येऽल्लोपस्तु न स्थानिवत्,न पदान्ते॑ति यलोपे स्थानिवत्त्वनिषेधात् । स्थानिवत्त्वादिति ।अचः परस्मिन्नित्यनेने॑ति शेषः । यणि प्राप्ते इति ।खकारादीकारस्यइको यणचीत्यनेने॑ति शेषः । न चान्तर्वर्तिसुपा पदान्तत्वा॑न्न पदान्ते॑ति निषेधः शङ्क्यः, 'नः क्ये' इति क्यचि नान्तस्यैव पदत्वात् । क्वौ लुप्तिमिति । 'न पदान्त' सूत्रेक्विलुगुपधात्वचङ्परनिह्र्यासकुत्वेषूपसङ्ख्यान॑मिति वार्तिकेक्विलु॑गित्यंशस्यायमनुवादः । तत्रलु॑गिति लोपो विवक्षित इति तत्रैव भाष्ये स्पष्टम् । लुप्तमिति भावे क्तः । क्विप्प्रत्ययपरको लोपो न स्थानिवदित्यर्थः । ततस्च खकारादीकारस्याऽच्परकत्वाऽभावान्न यणिति भावः । यद्यपिन पदान्ते॑ति सूत्रेक्वौ लुप्तं न स्थानिव॑दिति निराकृत्य,क्वौ विधिं प्रति न स्थानिव॑दित्येव स्वीकृतं तथापि गोमत्यतेः क्विपि गोमानिति भाष्यात्क्वौ लुप्तं न स्थानिवदित्यपि क्वचिदस्तीति शब्देन्दुशेखरे स्थितम् । ततस्च सखायमिच्छतीत्यर्थे सखीति ईदन्तं रूपं स्थितम् । ततः सुबुत्पत्तिः । अनङ्णित्वे इति । 'अनङ् सौ' 'सख्युरसम्बुद्धौ' इत्युभाभ्या॑मिति शेषः । इदन्तसखिशब्दस्य विधीयमाने अनङ्णित्त्वे कथं सखीशब्दस्य ईदन्तस्य भवेतामित्यत आह — एकदेशेति । हे सखीरिति । अङ्यन्तत्वान्न सुलोपः । स्त्रीत्वाऽभावान्नदीत्वाऽभावान्नदीकार्यं न भवति । यणि प्राप्ते इति ।एरनेकाचः इत्यनेने॑ति शेषः । शसि यणिति । पूर्वसवर्णदीर्घापवादो यण् । कृतपूर्वसवर्णदीर्घत्वाऽभावान्नत्वं नेति भावः । सख्या । सख्ये । सख्युः । सख्योः । सख्यौ । सह खेनेति । खमाकाशं खकारो वा ।तेन सहेति तुल्ययोगे॑ इति बहुव्रीहिः ।वोपसर्जनस्ये॑ति सभावः । तमिच्छतीति । सखमात्मन इच्छतीत्यर्थे 'सुप आत्मनः' इति क्यच् ।क्यचि चे॑तीत्वं, 'सनाद्यन्ताः' इति धातुत्वात्क्विपि अल्लोपयलोपयोः सखीशब्दः । एवं सुखीशब्दः, सुतीशब्दश्च । सखीरिति । अङ्यन्तत्वान्न सुलोपः । सख्यावित्यादि । अजादौ 'एरनेकाचः' इति यणिति भावः । सख्यम् । सख्यः सख्या । सख्ये ।दीर्घस्यापीति । एतदर्थमेव तत्र कृतयणा निर्देश इति भावः । सख्याम् । सख्यि । सुखीसुतीशब्दयोरप्येवम् । लूनीरिति ।लूञ् छेदने॑क्तः । 'त्वादिभ्यः' इति नत्वम् । क्यचि ईत्वम् । अङ्यन्त्रत्वान्न सुलोपः । 'क्षै क्षये' क्तः ।आदेच उपदेशेऽशिती॑त्यात्त्वम् । 'क्षायोः मः' इति मत्वम् । क्यजादि पूर्ववत् । प्रस्तीमीरिति ।स्त्यै ष्टए शब्दसङ्घातयोः । क्तः । 'आदेचः' इत्यात्त्वम् ।प्रस्त्यो ।ञन्यतरस्या॑मिति मः ।स्त्यः प्रपूर्वस्ये॑ति सम्प्रसारणम् ।सम्प्रसारणाच्चे॑ति पूर्वरूपम् । 'हलः' इति दीर्घः । क्यजादि पूर्ववत् सखी सुतीत्यादिवद्रूपाणि । ङसिङसोर्यणिति । 'एरनेकाचः' इत्यनेने॑ति शेषः ।असिद्धत्वा॑दित्यनन्तरंत्यात्परत्वा॑दिति शेषः । शुष्कीयतेरिति ।इक्शितपौ धातुनिर्देशे॑ इति श्तिपा निर्देशोऽयम् । शुषधातोः क्तः । शुष्कः । 'शुषः कः' इति कत्वम् । शुष्कमात्मन इच्छतीत्यर्थे क्यजन्ताच्छुष्कीयधातोः क्विपि शुष्कीरिति रूपमित्यर्थः । अङ्यन्तत्वान्न सुलोपः । सखी सुतीत्यादिशब्दवच्छुष्कीशब्दः । शुष्कियावित्यादि । संयोगुपूर्वत्वान्न यण्, किं तु इयङिति विशेष इतीति भावः । ङसिङसोः शुष्किय इति । न च कत्वस्याऽसिद्धत्वात्ख्यत्यात्परत्नादुत्त्वं शङ्क्यम्, #इयङादेशे सति कृतयणादेशत्वाऽभावादिति भावः । इति ईदन्ताः । शम्भुर्हरिवदिति । तत्र पूर्वसवर्णदीर्घ ऊकारः, गुणस्तु ओकारः, अवित्यादयो विशेषास्त्वान्तरतदम्यात्सङ्गता इति भावः ।क्रुश आह्वाने, रोदने चे॑ति धातोःसितनिगमिमसिसच्यविधाञ्क्रुशिभ्यस्तुन् इति तुन्प्रत्ययेव्रश्चे॑ति शस्य षकारे, ष्टुत्वेन टकारे च क्रोष्टुशब्दः । क्रुशधातो कर्तरि तृचि तु क्रोष्टृशब्दः । द्वावपि सृगालवाचिनो । Tattvabodhini ------------- **सर्वनामस्थाने चासम्बुद्धौ** - अचि सुपीति । सुपीति किम् सुध्युपास्यः । वस्तुतस्तु सुपीत्यननुवृत्तावपि न क्षतिः,अनन्तरस्ये॑ति न्यायेन॒एरनेकाचः॑इतिओः सुपी॑ति च सूत्रद्वयेन प्रापितस्यैव यणोन भूसुधियो॑रिति निषेधाभ्युपगमात् । स्थानिवत्त्वाद्यणि प्राप्त इति ।एरनेकाचः -॑इत्यनेन । न चान्तर्वर्तिनीं विभक्तिमाश्रित्य सखि शब्दस्य पदत्वात्न पदान्ते॑ति निषेधेन अल्लोपो न स्थानिनदिति वाच्यम्, नः क्ये नियमेन क्यचि नान्तस्यैव पदत्वात् ।॑क्वौ लुप्तं न स्थानिवत् । क्वौ लुप्तमिति ।नपुंसके भावे क्तः॑ । क्वौ लोप इत्यर्थः । इदं सर्वं कुमारीमिच्छन् किमारीत्यत्रापि बोध्यम् ।क्वौ लुप्त॑मित्येतत्क्काचित्कं,क्वौ विधिं प्रति न स्थानिव॑दित्यब्युपगमात् । अन्यथाबेभिदि ब्राआहृणकुलानी ति हलन्तनपुंसके वक्ष्यमाणं न सङ्गच्छेत । बेभिद्यतेः क्किपि अल्लोपे यलोपे च क्वौ लुप्तत्वेनाऽल्लोपस्य स्थानिवत्त्वाऽभावे झलन्तलक्षणनुम्प्रसङ्गात् ।क्वौ विधिं पर्ति न स्थानिव॑ दित्यस्योदाहरणं तु लवमाचक्षाणोः लौः । अत्र णिचि यष्टिलोपो, यश्च क्वौ णिलोपः, तदुभयंछ्वोः शू॑डिति वकारस्य क्विनिमित्ते ऊठि कर्तव्ये न स्थानिवत् ।एत्येदत्यूठ्सु॑इति वृद्धिः । अत्रेदमवधेयम्, -॒न पदान्ते॑ति सूत्रेक्विलुगुपधात्वचङ्परनिह्र्यासकुत्वेषूपसङ्ख्यान॑मिति वार्तिकमस्ति तदेकदेशानुवादोऽयंक्वौ लुप्त॑मित्यादीति ।लुका लुप्ते न स्थानिव दित्यादीनामप्युदाहरणान्यत्रोच्यन्ते । पञ्चभिः पट्वीबिः क्रीतः पञ्चपटुः ।अर्हा॑दिति ठक्, तस्यअध्यर्धपूर्वे॑ति लुक्,लुक्तद्धितलुकी॑ति ङीषो लुक् । तस्य लुका लुप्तत्वेन स्थानिवत्त्वाऽभावादत्र यणादेशो न भवति । न च ङीषो लुकः परनिमित्तकत्वाऽभावात्स्थार्निवत्त्वं न भवेदिति शङ्कयं, ङीषो लुकं प्रति स्थानिद्वारा तद्धितलुकः परत्वस्वीकारात् । यद्वा बुद्धि परिक्लिपतं पौर्वापर्यमभावेऽप्यस्तीति नास्त्यत्राऽनुपपत्तिः । न च अढे तद्धिते विवक्षितेभास्यैढे॑इति पुंवद्भावादुक्तनिषेधं विनैवेष्टसिद्धिरित्यपि शङ्क्यं,यत्र भाविभत्वं तत्रैव पुंवद्भावः, इह तु लुकि भत्वाऽभावात्कुतः पुंवद्भाव॑इति कैयटेनोक्तत्वात् । तथा पञ्चेन्द्राण्यो देवता अस्य पञ्चेन्द्रः ।सास्य देवते॑त्यण् ।द्विगोर्लुगनपत्ये इति लुक् । ततो ङीषो लुकि तस्य स्थानिवत्त्वाऽभावान्ङीषा संनियुक्त आनङ् श्रूयते । पुंवद्भावास्यात्राऽऽशङ्कापि नास्ति, इन्द्रे इन्द्रत्वमिन्द्राण्यामिन्द्रस्त्रीत्वमिति प्रवृत्तिनिमित्तभेदे भाषितपुंस्कत्वस्यानभ्युपगमात् । ये तुन पदान्ते॑ति सूत्रेवर-ई॑इति ईकारप्रश्लेषं कुर्वन्तितेषामिह लुग्ग्रहणं न कार्यम् ।उपधात्वे कर्तव्ये न स्थानिवत् । तेन परिखाशब्दाच्चातुरर्थिके अणि कृतेवृद्धादकेकान्ते॑त्यादिना पारिखशब्दत्खोपधलक्षणे छप्रत्ययेपारिखीयः॑सिध्ति । अन्यथा उपधासंज्ञायाः पूर्वविधित्वेन तस्यां कर्तव्यायामालोपः स्थानिवत्स्यात् । नन्वेवंपटयती॑त्यादौ वृद्धिः स्यादिति चेन्न, यत्रोपधासंज्ञयामुपजीव्यप्रत्ययो विहिततस्तत्रैवायं निषेध इति भाष्ये स्थितत्वात् । तत्र च चङ्परनिपह्र्यासग्रहणमेव ज्ञापकम् — ॒चङ्परनिर्ह्रासस्तत्र न स्थानिवत् । वादितवन्तं प्रयोजितवान् अवीवद्वीणां परिवांदकेन । अत्र पर्थमणिलोपस्य स्थानिवत्त्वादाकारोऽनुपधेतिणौ चङी॑त्युपधाह्रस्वो न प्राप्तोति । णिसामान्यग्रहणादेतत्सिद्धमिति चेत्, तह्र्रन्यदुदाहर्तव्यं, वारि आख्यदवीवरत् । न चअग्लोपी॑ति निषेधः शङ्क्यः, परत्वाद्वृद्धौ सत्यां टिलोप इत्यभ्युपगमेनाऽग्लोपित्वाऽभावात् । अतएवमुण्डमिश्रे॑ति सूत्रे हलिकल्योर्हलकलेत्यदन्तनिपातनं सार्थकम् ।कृत्वे न स्थानिवत् । अर्चयतेरर्कः ।कृदाधारार्चिकलिभ्यः॑इति कः । पाचयतेः पाक्तिः । इ ह॒चोः॑कु॑रिति कुत्वे णिलोपो न स्थानिवत् । वार्तिकेऽस्मिन् क्विचङ्परनिह्र्यासोपधानां ग्रहणमावश्यकं । कृत्वे न स्थानिवत्,लुक ईकारप्रश्लेषेण गतार्थत्वात्, कुत्वस्य पूर्वत्रासिद्धीयत्वाच्चेत्यवधेयम् ।चजो॑रिति कुत्वे चोदाहरणमन्वेषणीयम् । सख इति ।तेन सहेती॑ति बहुव्रीहौवोपसर्जनस्ये॑ति सभावः । सखीरित्यादि ।सुपाअत्मनः क्यच् ।क्यचि च॑ इतीत्त्वम् । दीर्घस्यापीति । एतदर्थं कृतयणदेश इति भावः । ननु अतिसखेर्भूपतेरिति गुणविषयं व्यापर्तयितुं यणा निर्देश इति चेदस्त्वेवं, तथापि दीर्घे प्रवृत्तिः केन वार्यताम् । न हि ह्रस्वे यणा भाव्यं न दीर्घेष्वित्यत्र प्रमाणमस्ति । सौत्रस्य विकृतिनिर्देशस्याऽव्याप्त्यतिव्याप्त्युभयवारकत्वे सारवत्त्वलाभेन तथैवौचित्याद्भाष्यारूढत्वाच्च । लूनमिति ।ल्वादिभ्यः॑इति निष्ठातस्यः नः । क्षाममिति ।क्षयो मः॑इति मः ।स्त्यःप्रपूर्वस्ये॑ति संप्रासारणम् । शुष्कीरिति ।शुषः कः॑इति निष्ठातस्य कः । पक्वीरिति ।पचोः वः॑इति वः । इयङिति । संयोगपूर्वत्वादिवर्णस्य यण्नेति भावः । इतीदन्ताः । हरिवदिति । तद्वत्साध्य इत्यर्थः । Padamanjari ----------- राजनीति । विभाषा ङिश्योः इत्यिल्लोपाभावपक्षे दीर्घत्पप्रसङ्गः । एवं चर्मणामित्यादावपि प्रसङ्गः ॥ Prakriyasarvasvam ----------------- असम्बुद्धौ सर्वनामस्थाने परे नान्तस्योपधाया दीर्घः स्यात् । सखान् स् ॥ Sarala ------ **ढ्रलोपे पूर्वस्य दीर्घोऽणः** (६.३.१११) इत्यतो "दीर्घ" इति, "नोपधाया" इति च वर्त्तते, **अङ्गस्य** (६.४.१) इत्यधिकृतं, विशेषणेन तदन्तविधिस्तदाह - **नान्तस्येति** ॥ Sudha ----- **सर्वनामस्थाने इति ।** "नोपधायाः" इति सूत्रमनुवर्तते । **ढ्रलोपे पूर्वस्य दीर्घोऽणः**(6.3.111) इत्यतो दीर्घ इत्यनुवर्तते । तदाह - **नान्तस्येत्यादिना । तदन्तस्येति ।** षष्ठीतत्पुरुषोऽयम् । तस्य प्रातिपदिकसञ्ञ्ज्ञकपदस्य अन्तो यो नकारस्तस्येत्यर्थः। प्रातिपदिकेति किम् ? अहन् । पदमिति किम् ? राजानौ, राजानः । **सखा ।** सखिशब्दात् प्रथमैकवचनविवक्षायाम् सुसमागते उकारस्येत्सञ्ज्ञायां लोपे च "सखि-स्" इति स्थिते **अनङ् सौ**(7.1.93) इति अनङादेशे प्राप्ते क्व स्यात् इति शङ्कायाम् **अनेकाल्शित्सर्वस्य**(1.1.55) इति परिभाषया सर्वस्य स्थाने प्राप्ते परं **ङिच्च**(1.1.53) इत्यनेन तं प्रवाध्य अन्त्यस्य-खकारोत्तरवर्तिन इकारस्य स्थानेऽनङादेशे जाते ङकारस्येत्सञ्ज्ञायां लोपे च "सखन् स्" इति जाते **अलोऽन्त्यात् पूर्व उपधा**(1.1.65) इति उपधासञ्ज्ञात्वे **सर्वनामस्थाने चासम्बुद्धौ**(6.4.8) इति नान्तस्य पदस्योपधाया दीर्घे विहिते "सखान् स्" इत्यवस्थायाम् **अपृक्त एकाल् प्रत्ययः**(1.2.41) इति सस्यापृक्तसञ्ज्ञायां कृतायाम् **हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्**(6.1.68) इति सस्य लोपे "सखान्" इत्यवशिष्टे **नलोपः प्रातिपदिकान्तस्य**(8.2.7) इति नलोपे "सखा" इति रूपम् ।