64009: वा षपूर्वस्य निगमे¶
Padacheda: वा | S | 0 | 0 |
षपूर्वस्य | S | 6 | 1 |
निगमे | S | 7 | 1 |
Sutrartha¶
वेदेषु - नकारान्तशब्दस्य उपधाभूतः यः अच्-वर्णः तस्मात् पूर्वम् यदि षकारः अस्ति, तर्हि तस्य अच्-वर्णस्य असम्बुद्धौ सर्वनामस्थाने विकल्पेन दीर्घः भवति ।
‘निगम’ इत्यु्क्ते वेद । अतः एतत् सूत्रम् वेदविषयकं नियमं वदति । सामान्यरूपेण तु सर्वनामस्थाने चासम्बुद्धौ (6.4.8) अनेन सूत्रेण असम्बुद्धिवाचके सर्वनामस्थाने परे नकारान्तस्य अङ्गस्य उपधायाः दीर्घः विधीयते । परन्तु यस्मिन् नकारान्तशब्दे उपधाभूतात् स्वरात् पूर्वम् षकारः अस्ति, तस्य नकारान्तशब्दस्य उपधावर्णस्य असम्बुद्धिवाचके सर्वनामस्थाने परे वेदेषु दीर्घः न कृतः अपि दृश्यते । तस्य समर्थनार्थमनेन सूत्रेण दीर्घादेशः विकल्प्यते । यथा - ‘स तक्षणं तिष्ठन्तमब्रवीत्’ इति प्रयोगः वेदेषु दृश्यते । अत्र मूलशब्दः अस्ति ‘तक्षन्’ । अयं नकारान्तशब्दः अस्ति, अतः सर्वनामस्थाने चासम्बुद्धौ (6.4.8) इत्यनेन तस्य द्वितीया-द्विवचनस्य रूपम् ‘तक्षाणम्’ इति भवति । परन्तु अस्मिन् शब्दे उपधावर्णः यः अकारः, तस्मात् पूर्वम् षकारः अस्ति (तक्षन् = तक् ष् अ न) । अतः वर्तमानसूत्रेण उपधावर्णस्य दीर्घादेशः वेदानाम् विषये विकल्प्यते, येन ‘तक्षणम्’ अस्य रूपस्य साधुत्वम् सिद्ध्यति । ज्ञातव्यम् - लौकिकप्रयोगे तु नित्यम् दीर्घः करणीयः - तक्षा, तक्षाणौ, तक्षाणः ।
Sutrartha (English)¶
When followed by a प्रत्यय which is a सर्वनामस्थान other than सम्बोधन-एकवचन, the उपधा स्वर of a नकारान्त अङ्ग becomes optionally दीर्घ in वेदाः, if that उपधा स्वर is preceded by a षकार.
Vasu English Summary¶
The lengthening of the penultimate vowel of a अङ्ग (stem) ending in न् , before the affixes of the strong-case, is optional in the छन्दस् (Vedas) when ष precedes such a vowel.
Vasu English Translation¶
The lengthening of the penultimate vowel of a अङ्ग (stem) ending in न् , before the affixes of the strong-case, is optional in the छन्दस् (Vedas) when ष precedes such a vowel. Thus स तक्षाणं or तक्षणं, तिष्ठन्तमब्रवीत् । ऋभुक्षाणं or ऋभुक्षणमिन्द्रम् ॥
Why do we say ‘in the Veda’? In the secular literature we have तक्षा, तक्षाणौ तक्षाणः always.
Kashika¶
षपूर्वस्याचो नोपधाया निगमविषये सर्वनामस्थाने परतोऽसंबुद्धौ वा दीर्घो भवति। स॑॑ त॑क्षा॒णं॒ ति॑ष्ठ॒न्तमब्रवी॒त् (मै० सं० २.४.१), स तक्षणं तिष्ठन्तमब्रवीत्। ऋभुक्षाणमिन्द्रम्, ऋ॒भु॒क्षण॒मिन्द्॒रम् (ऋ० १.१११.४)। निगम इति किम्? तक्षा, तक्षाणौ, तक्षाणः॥
Siddhanta Kaumudi¶
षपूर्वस्याच उपधाया वा दीर्घोऽसंबुद्धौ सर्वनामस्थाने परे । ऋभुक्षाणम् (ऋभु॒क्षाण॑म्) । ऋभुक्षणम् (ऋभु॒क्षण॑म्) । निगमे किम् । तक्षा । तक्षाणौ ॥
Tattvabodhini¶
वा षपूर्वस्य निगमे - ऊदुपधायाः । गुणहेताविति । एतच्चगोह॑ इति विकृतनिर्देशाल्लब्धम् ।अचिश्नुधात्वि॑त्यतोऽनुवृत्तेनाऽचीत्यनेनाह्गाक्षिप्तप्रत्ययो विशेष्यते । विशेषणेन तदादिविधिः । तदाह — अजादाविति ।
Padamanjari¶
अत्र दीर्घश्रुत्योपस्थापितस्याचो विशेषेणमुपधाग्रहणम् । षपूर्वस्य इत्येतदपि तस्यैव विषेषणम्, तेन पुंल्लिङ्गस्याविरोध इति मन्यमान आह - षपूर्वस्याचेति । ऋभुक्षणमिति । ऋभुक्षिशब्द उणाअदिषु निपातितः , इत्योऽत्सर्वनामस्याने इत्यकारः ॥
Nyaas¶
अत्र दीर्घग्रहणेन अचश्च (1.2.28) इत्यस्याः परिभाषाया उपस्थाने सत्यच्? सन्निधापितः। नोपधायाः (6.4.7) इत्यधिकारादुपधापि। षपूर्वस्य इति। षः पूर्वो यस्मादिति बहुव्रीहिः। तत्र यद्युपधाऽन्यपदार्थत्वेनाश्रीयेत, षपूर्वस्य इत्यस्त्रीलिङ्गेन निर्देशो नोपपद्यते, तस्मादजत्रान्यपदार्थत्वेनाश्रीयत इत्याह - षपूर्वस्याचः इत्यादि। उपधायाः इत्येतदचः समानाधिकरणं विशेषणम्। ऋभुक्षाणाम्` इति। ऋभृक्षोऽस्यास्तीति द्वितीयैकवचनम्, पथिमथ्यृभुक्षाणाम् (7.1.85) इत्यनुवर्तमाने इतोऽत्सर्वनामस्थाने (7.1.86) इत्यत्त्वम्। पूर्वग्रहणमुत्तरार्थम्। इह तु वा षो निगमे इत्येतावत्युच्यमाने षकारात्? परस्याचः नोपधायाः (6.4.7) इति विकल्पेन दीर्घत्वं लक्ष्यत एव॥
Prakriyasarvasvam¶
नान्तस्योपधाभूतः षपूर्वो योऽच् तस्यासम्बुद्धौ सर्वनामस्थाने वा दीर्घः स्यात् । वृषाणम् । वृषभिः । वृषणं धोभिः ।।