64003: नामि¶
Padacheda: नामि | S | 7 | 1 |
Sutrartha¶
षष्ठीबहुवचनस्य नाम्-प्रत्यये परे अङ्गस्य दीर्घः भवति ।
षष्ठीबहुवचनस्य आम्-प्रत्ययस्य यत्र नुडागमः भवति, तत्र तस्य ‘नाम्’ इति परिवर्तनं भवति । अस्य ‘नाम्’ प्रत्ययस्य उपस्थितौ अङ्गस्य अन्तिमस्वरस्य दीर्घः भवति । यथा - बाल + नाम् → बालानाम् । मुनि + नाम् → मुनीनाम् । पितृ + नाम् → पितॄणाम् । आदयः । ज्ञातव्यम् - अचश्च (1.2.28) परिभाषायाः साहाय्येन ‘अच्-वर्णस्य’ दीर्घः भवतीति ज्ञायते । अलोऽन्त्यस्य (1.1.52) इत्यनेन अन्तिम-वर्णस्य दीर्घादेशः भवतीति स्पष्टीभवति ।
Sutrartha (English)¶
In presence of the नाम् प्रत्यय, the last letter of the अङ्ग becomes दीर्घ.
Vasu English Summary¶
The long vowel is substituted for the final of the stem before the Genitive 6th-Case plural affix नाम् (having the augment नुट्).
Vasu English Translation¶
The long vowel is substituted for the final of the stem before the Genitive 6th-Case plural affix नाम् (having the augment नुट्). Karika
नामि दीर्घ आमि चेत्स्यात्कृते दीर्घे नुत् भवेत् । वचनाद्यत्र तन्नास्ति, नोपधायाश्च चर्म्मणाम् ॥
Thus अग्नीनाम्, वायूनाम्, कत्तॄणाम्, हर्त्तॄणाम् ॥ The*anuvritti* of अण् (6.3.111) ceases. The augment नुट् (7.1.54) in नाम् is for the sake of the subsequent sutra; like (6.4.7). and the lengthening takes place after the addition of नुट् to the genitive affix आम् ॥ For if the lengthening took place before the addition of नुट्, there would be no occasion for नुट् which comes only after short stems.
Bhashya¶
नामि (3001) (सनकारग्रहणाक्षेपभाष्यम्) किमर्थमामः सनकारस्य ग्रहणं क्रियते, न आमि दीर्घः इत्येवोच्यते ? केनेदानीं सनकारस्य भविष्यति ? नुडयमाम्भक्त आङ्ग्रहणेन ग्राहिष्यते ॥ अत उत्तरं पठति - (नुट्प्रयोजनश्लोकवार्तिकम्) नामि दीर्घ आमि चेत्स्यात्कृते दीर्घे न नुड् भवेत् । नामि दीर्घ आमि चेत्स्यात्कृते दीर्घे न नुट् स्यात् । अग्नीनाम्, इन्दूनाम् । इदमिह संप्रधार्यम् - दीर्घत्वं क्रियतां नुडिति, किमत्र कर्तव्यम् ? परत्वान्नुट् । नित्यं दीर्घत्वम् । कृतेऽपि नुटि प्राप्नोत्यकृतेऽपि । नित्यत्वाद्दीर्घे कृते ह्रस्वाश्रयो नुट् न प्राप्नोति ॥ (श्लोकवार्तिकावतरणभाष्यम्) एवं तर्ह्याहायं - ह्रस्वान्तान्नुडिति, न च ह्रस्वान्तोऽस्ति । तत्र वचनाद्भविष्यति ॥ (सार्मथ्याभावोपपादकश्लोकवार्तिकम्) वचनाद्यत्र तन्नास्ति । नेदं वचनाल्लभ्यम् । अस्ति ह्यन्यदेतस्य वचने प्रयोजनम् । किम् ? यत्र दीर्घत्वं प्रतिषिध्यते - तिसृणाम्, चतसृणामिति । नैतदस्ति प्रयोजनम् । इह तावच्चतसृणामिति, षट्चतुर्भ्यश्च (7.1.55) इत्येवं भविष्यति । तिसृणामिति, त्रिग्रहणमपि प्रकृतमनुवर्तते । क्व प्रकृतम् ? त्रेस्त्रयः (7.1.53) इति । इदं तर्हि - त्वं नृणां नृपते जायसे शुचिः । नैकमुदाहरणं ह्रस्वग्रहणं प्रयोजयति । तत्र वचनात् भूतपूर्वगतिर्विज्ञास्यते - ह्रस्वान्तं यद्भूतपूर्वमिति ॥ (श्लोकवार्तिकावतरणभाष्यम्) उत्तरार्थं तर्हि सनकारग्रहणं कर्तव्यम् ॥ (नुट्प्रयोजनश्लोकवार्तिकम्) नोपधायाश्च चर्मणाम् । नोपधायाः नामि यथा स्यात् । इह मा भूत् - वर्मणाम्, चर्मणाम् ॥ (संग्रहः) नामि दीर्घ आमि चेत्स्यात्कृते दीर्घे न नुट् भवेत् । वचनाद्यत्र तन्नास्ति नोपधायाश्च चर्मणाम् ॥ 1 ॥
Kashika¶
नामित्येतत् षष्ठीबहुवचनमागतनुट्कं गृह्यते। तस्मिन् परतोऽङ्गस्य दीर्घो भवति। अग्नीनाम्। वायूनाम्। कर्तृृणाम्। हर्तृृणाम्। अण इत्येतदत्र निवृत्तम्। आगतनुट्कग्रहणमुत्तरार्थम्, कृते च नुटि दीर्घप्रतिपत्त्यर्थम्। अन्यथा हि नुडेव न स्यात्।
नामि दीर्घ आमि चेत्स्यात् कृते दीर्घे न नुड् भवेत्।
वचनाद् यत्र तन्नास्ति नोपधायाश्च चर्मणाम्॥
Siddhanta Kaumudi¶
नामि परेऽजन्ताङ्गस्य दीर्घः स्यात् । रामाणाम् । सुपि चे (SK202)ति दीर्घो यद्यपि परस्तथापीह न प्रवर्तते । संनिपातपरिभाषाविरोधात् । नामि (SK209)इत्यनेन त्वारम्भसामर्थ्यात्परिभाषा बाध्यते । रामे । रामयोः । सुपि एत्वे कृते ॥
Laghu Siddhanta Kaumudi¶
अजन्ताङ्गस्य दीर्घः। रामाणाम्। रामे। रामयोः। सुपि - एत्त्वे कृते॥
Balamanorama¶
नृ च - नृच । ‘नृ’ इति लुप्तषष्ठीकम् ।नामी॑ति सूत्रमनुवर्तते । ‘ढ्रलोपे’ इत्यतो ‘दीर्घ’ इत्यनुवर्तते ।छन्दस्युभयथे॑त्यत उभयथेत्यनुवर्तते । तदाह — नृ #इत्येतस्येत्यादिना । नृणां नृणामिति ।ऋवर्णान्नस्ये॑ति णत्वम् । ङौऋतो ङी॑ति गुणो रपरत्वम् । नरि न्रोः नृषु । इत्यृदन्ताः । अथ ऋदन्ता निरूप्यन्ते — कृ इत्यादिना । कृ तृ इत्यनयोकनुकरणे इत्त्वे रपरत्वे इत्यन्वयः । ‘कृ विक्षेपे’तृ प्लवनतरणयोः॑ । कृ तृ इत्याभ्यां शब्दाभ्यामनुकरणे क्रियमाणेऽनुकरणभूताभ्यां ताभ्यां धातुपाठपठितौ कृ तृ इत्येतौ विवक्षितौ । अत एवानुकरणस्य अनुकार्यमर्थः । अनुकार्यं च अनुकरणाद्भिन्नमिति ‘मतौ छः’ इति सूत्रभाष्ये स्थितम् । आनुपूर्वीव्यत्यये ।ञपि वाचकसादृश्यादर्थोपस्थापकत्वमिति अत्र कैयटे,प्राग्दीव्यतोऽ॑णित्यत्र भाष्ये च स्पष्टमेतत् । ततश्चाऽनुकार्याभ्यां कृ तृ इत्याभ्यां अनुकरणभूतयोः कृ तृ इत्यनयोरर्थवत्त्वेन प्रातिपदिकत्वात्सुबुत्पत्तिः । नन्वनुकरणभूतयोरनुकार्यशब्दस्वरूपवाचकत्वात्कियावाचकत्वाऽभावेन धातुत्वाऽभावात्ऋत इद्धातो॑रिति कथमित्वम् । न चप्रकृतिवदनुकरण॑मिति वचनादनुकरणभूतयोर्धातुत्वमिति वाच्यम्, एवं सति अधातुरिति धातुप्रयुदासात्प्रातिपदिकत्वानुपपत्तेरित्यत आह — प्रकृतिवदनुकरणमितीति ।यत्तदेतेभ्यः परिमाणे धात्वनुकरणे विभक्तिनिर्देशाच्चप्रकृतिवदनुकरण॑मिति पाक्षिकम् । ततश्चात्रातिदेशभावमादाय धातुत्वात् ‘ऋत इद्धातोः’ इतीत्त्वम् । अतिदेशाऽभावमादाय धातुत्वाऽभावात्प्रातिपदिकत्वात्सुबुत्पत्तिश्च न विरुध्यत इति भावः ।कीरिति । कृधातुरित्यर्थः । ॠकारस्य इत्त्वे रपरत्वे ‘र्वोरुपधायाः’ इति दीर्घः । सोर्हल्ङ्यादिलोपः, विसर्गश्च । किराविति । अपदान्तत्वात् ‘र्वोः’ इति न दीर्घः । तीरिति । तृधातुरित्यर्थः । गीर्वदिति । गीर्शब्दवद्रूपाणीत्यर्थः । किरम् । किरौ किरः । किरा । कीभ्र्याम् । कीर्भिः । किरे । किरः । किरोः । कीर्षु । भ्यामादौस्वादिष्वसर्वनामस्थाने॑ इति पदत्वाद्दीर्घः । इत्वाऽभावेति ।प्रकृतिवदनुकरण॑मित्यस्याऽनित्यत्वादनुकरणस्य धातुत्वाऽभावात् ‘ॠत इद्धातोः’ इति इत्त्वाऽभावे सतीत्यर्थः । अनङ्गुणौ नेति । ‘ऋत उ’ दित्युत्त्वमपि तपरकरणान्नेति द्रष्टव्यम् । अत एव ‘ग्रो यङी’ त्यादिनिर्देशाः सङ्गच्छन्ते । कृरिति । रृधातुरित्यर्थः । क्रौः क्र इत्यादौ यण् । इत्यादिति । क्रः । क्रः क्रोः क्राम् । क्रि इत्यृदन्ताः ।अत लृदन्ताः । गम्लृ इति । गम्लृ गतौ॑ ‘शक्लृ शक्तौ’ अजन्तौ धातू । अनङिति ।ऋदुशनसित्यनेने॑ति शेषः । ऋऌवर्णयोः सावण्र्यादिति भावः । गुणविषये त्विति । ङौ सर्वनामस्थाने च ऋतो ङीति गुणोऽकारः, लपर इत्यर्थः । ‘उरण्रपरः’ इत्यत्र रप्रत्याहारग्रहणादिति भावः । गमृनिति । ऋत ऌवर्णस्य दीर्घाऽभावाद्दृवर्ण एव । पूर्वसवर्णदीर्घे नत्वमिति भावः । ङसिङसोस्त्विति । गम्लृ अस् इति स्थिते उत्, लपरः । गमुल् स् इति स्थितेसंयोगान्तस्य लोपः॑ । गमुल् इति रूपम् । इत्यादीति । गम्लृभ्याम् । गम्लृभिः । गम्लृभ्यः । गम्लृभ्यः । आमि तु गमृणाम् । गमलि गम्लोः गम्लृषु । वस्तुतस्तु ‘उरण्रपरः’ इत्यत्राऽजिति वक्तव्ये अण्ग्रहणसामर्थ्दाण्पूर्वेणैवेत्युक्तं भाष्ये । यदि ऌकारस्य यण् लकारः स्यात्तर्हि लपरत्वार्थं परेणाण्ग्रहणस्यावश्यकत्वात्तदसङ्गतिः स्पष्टैव । तस्मादेवंजातीयकानां प्रयोगो न भाष्यसंमत इत्याहुः । इति लृदन्ताः । अथ एदन्ताः । इनेति । अः=विष्णुः तस्यापत्यम् इः=कामः । अत इञ् । ‘यस्येति च’ इत्यकारलोपः । इनासहेत्यर्थेतेन सहेति तुल्ययोगे॑ इति बहुव्रीहिः ।वोपसर्जनस्ये॑ति सत्वम् ।आद्गुणः॑ । से इति रूपम् । ततः सुः, रुत्वविसर्गौ । सेः । एवं स्मृतेः । स्मृतः इः=कामो येनेति विग्रहेअनेकमन्यपदार्थे॑इति बहुव्रीहिः । नच एकादेशस्य पूर्वान्तत्वात्से इत्यस्याऽव्ययत्वात् ‘अव्ययादाप्सुपः’ इति लुक् शङ्क्यः, अव्ययमिति महासंज्ञया लिङ्गाद्यनन्वितार्थकस्यैव अव्ययत्वात् । अजादावयादेशं मत्वाह — सयौ सय इति । ‘एह्यह्रस्वात्’ इति संबुद्धिलोपः । हे से । नन्वेवं सति हे हरे इत्यत्र संबुद्धिलोपो न स्यात् । संबुद्धि परनिमित्तमाश्रित्य प्रवृत्तस्य गुणस्य संबुद्धिविघातकं सुलोपं प्रति संनिपातपरिभाषया निमित्तत्वाऽयोगात् । नचैवं सत्येङ्ग्रहणवैयथ्र्यं शङ्क्यं, हे से इत्यत्र चरितार्थत्वादिति चेत्, शृणु — हे हरे इत्यत्र संबुद्धिरूपस्य स्वोपजीव्यगुणविघात्यत्वमेव नास्ति । सत्यपि तल्लोपे प्रत्ययलक्षणमाश्रित्य संबुद्धिसत्त्वात्, तेन च गुणस्य निर्बाधत्वात् । केचित्तुगुणात्संबुद्धे रित्यनुक्त्वाएङ्ह्रस्वा॑दित्युक्तेः संनिपातपरिभाषां बादित्वापि संबुद्धिलोपः प्रवर्तत इत्याहुः । नच जसि सय इति कथम् । अन्तर्वर्तिविभक्त्या ‘से’ इत्यस्य पदत्वेनाऽयादेशं बाधित्वाएङः पदान्ता॑दिति पूर्वरूपापत्तेरिति वाच्यम्,उत्तरपदत्वे चापदादिविधौ॑ इति प्रतिषेधात् । उत्तरपदस्य तद्धटितस्य वा पदत्वे कर्तव्येऽन्तर्बर्तिविभक्तेः प्रत्ययलक्षणं नास्तीति हि तदर्थः । सेनासेवकादिशब्दगतस्य से इत्यस्य अनुकरणं वा अस्तु । तत्र जसि अयादेशस्य निर्बाधत्वात् । इत्येदन्ताः । अथ ओदन्ताः । गो स् इति स्थिते ।
Tattvabodhini¶
नृ च - नृ च । इहछन्दस्युभयथे॑ति सूत्रादुभयथेत्यनुवर्तत इत्याभिप्रेत्याह -वा दीर्घः स्यादिति । केचित्त्विहछन्दसी॑त्यप्यनुवर्तयन्ति, तेषां हिचिन्ताजर्जरचेतसां बत नृणा कता नाम शान्तः कथा,॒॑नृणामेको गम्यस्त्वमसी॑त्यादिप्रयोगा न सङ्गच्छेरन् । किञ्चछन्दस्युभयथे॑ति पूर्वसूत्रेणैवनृणा॑मिति सिद्धेनृ चे॑ति सूत्रस्य वैयथ्र्यं स्यात् । यदपि पूर्वसूत्रेतिसृचतसृ॑इत्यनुवर्तयन्ति, तदप्ययुक्तम् । अविशेषेण विकल्पदर्शनात् । तथा च धाता धातृणां मिति मन्त्रे तैत्तिरीयैह्र्यस्वः पच्यते, बह्वृचैस्तु दीर्घ इति दिक् ।इति ऋदन्ताः । इत्यृदन्ताः । प्रकृतिवदनुकरणमित्यादि ।यत्तदेतेभ्यः परिमाणे॑इति निर्देशोऽत्र लिह्गम् । भवति हि तत्र त्यदाद्यत्वकरणाजनिकरणस्य प्रकृतिवत्त्वमेकशेषाऽभावदर्शनाच्च वैकल्पिकत्वमिति । इत्वे रपरत्वमिति ।ऋत इद्धातोः॑इतीत्वेउरण्रपरः॑इति रपरत्वम् । कीरिति । कृधातुरित्यर्थः । एवं — तीरिति ।तृ॑धातुः । इत्यादीति ।ऋत उ॑दिति तपरकरणान्ङसिङ्सोरत उदादेशो न -क्रः ।दीर्घान्तत्वादामो न नुट् — क्राम् । ङौ तुक्री॑त्यादि । इत्यृदन्ताः । इत्यृदन्ताः । अनङितित । ऋऌवर्णयोः सावण्र्यात्ऋदुशन॑सिति सूत्रपर्वृत्तेः । गुणविषय इथ ।ऋतो ङी॑ति गुणविषये । गमृनिति । ऌवर्णस्यट दीर्घाऽभावात्प्रथमयो॑रिति यः पूर्वसवर्णदीर्घेः स ऌकाराऽकारयोः स्थाने ॠकार एव भवति । नन्वत्र लकारद्वयगर्भो ऌकारो दीर्घोऽस्त्वितिचेत्, अत्राहुः — ॒पर्तमयोः पूर्वसवर्णः॑इत्यस्याऽकः प्रथमाद्वितीययोरचि पूर्वस्य सवर्णो यो दीर्घः स पूर्वपरयोः स्थाने भवतीत्यर्थाहऌवर्णयोर्वचनेन सावण्र्यसद्भावाह्मकार एव ऌकाराऽकारयोः स्थाने भवति न तु लकारद्वयगर्भो दीर्घः, तस्य ईषत्स्पृष्टपर्यत्नत्वात्प्रयत्नभेदेन ऌकारसावण्र्याऽभावादिति । एवं चहोतृ॑नित्यादौ रेफद्वयगर्भो दीर्घे ऋकाराऽकारयोः स्थाने न भवत्येवेति बोध्यम् ।इत्यदीति । गम्लृभ्याम् । गम्लृभिः । गम्लृभ्यः । आमि तुगमृणा॑मिति केचित् । वस्तुतस्तु ऌकारस्थाने लकारद्वयह्मगर्भेणैव दीर्घेण भवितव्यं, स्थानत आन्तर्यस्य बलीयलस्त्वात् ।होतृणा॑मित्यत्र तु ॠकार एव भवति, स्थानपर्यत्नोबयसाम्यात् । स्यादेतत् — रेफद्वययुक्तस्य लकारद्वययुक्तस्य चेषत्स्पृष्टप्रयत्नत्वाप्रयत्न भेदेन ऋऌ वर्माभ्यां सावण्र्याऽभावेनाऽच्त्वाबावात्ऊकालोऽ॑जित्यादिना दीर्घसंज्ञा नास्तीति कथमत्र लकारद्वयगर्भेण भवितव्यम्,ऋति ऋवा॒॑लृति लृवे॑ति वार्तिकपत्र्याख्यानं वा कथं सङ्गच्छताम्,अकः सवर्णे॑इत्यनेन इष्टरूपाणामसिद्धेः । अत्राहुः-उभयोरप्यच्त्वासिद्धये वर्णसमाम्नायऋलृक्सूत्रोत्तरं पाठः कर्तव्यः, तेन सर्वेष्टसिद्धिः । न च दीर्घत्वसिद्धावपि विवृतप्रयत्नसाम्यात्होतृ — ऌकार॑इत्यत्र ऋकारो दीर्घ एव स्यात्, न तु रेफद्वययुक्तो दीर्घ ति शङ्क्यम्, ऋकारद्वयस्थाने रेपद्वयवतः साम्येन कदाचित्तस्यापि पर्वृत्तेः ।होतृऌकार॑इत्यत्र ऌकारेण आन्तर्यात्कदाचिल्लकारद्वययुक्तः कदाचिहकारेण आन्तर्याद्दृकारश्च भवति । परं तु वार्तिकमतेहोतृऌकार॑इत्यत्ररेफद्वयगर्भो न भवति,प्रत्याख्यानपक्षे तु कदाचिद्भवतीति वैषम्यमस्ति, तत्रेष्टापत्तिर्वा, प्रत्याख्यानस्य प्रौढिवादमात्रता वा अभ्युपगन्तव्येति । अत्रेदं बोध्यम् — ॒अकः सवर्णे॑इति सूत्रस्थाभाष्येऋति ऋवा॑लृति लृवे॑त्येतन्न प्रत्याख्यातम्,तुल्यास्ये॑ति सूत्रस्थाभाष्ये तु तस्य प्रत्याख्यानेऽपि फलभेदे तदयोगात् । स्वीकृते तु तस्मिन्नकोऽकीत्येव सुवचमिति ग्रन्थोऽनुपपन्न एव । यदि तुऋति ऋवे॑ति वार्तिकम्,उॠ॑इतिऋवे॑ति पटएत, तदा वार्तिकयोः सवर्ण इति पदानुवृत्त्यनपक्षेणात्मुवचमेवाऽकोकीति । प्रकृतमनुसरामः, — ङौ तुऋतो ङि -॑इति गुणो लपरः । गमलि । गमल्ो#ः । गम्लृषु । एवं शक्लृशब्देऽप्यूह्रम् । इति लृदन्ताः । इति लृदन्ताः । सेरिति । अस्यापत्यमिः कामः, अस्य स्त्री ई=लक्ष्मीः । तेन तया वा सह वर्ततैति विग्रहेतेन सहेति तुल्ययोगे॑इति बहुव्रीहौवोपसर्जनस्ये॑ति सहस्य सभावेआद्गुणः॑ । सय इति । ननुसे॑इत्येकारस्य अन्तवद्भावेन पदान्तत्वादयादेशं बाधित्वा जसि परकतःएहः पदान्ता॑दिति पूर्वरूपमेकादेशः स्यात्, तथाचसे॑पित्येव रूपं स्यान्न तुसय॑इति चेदत्र केचित् — एवं तर्हिथासः से॑ईशः से॒इति विहितादेशस्यानुकरणशब्दोऽमस्तु, तत्र हि जसि परतोऽयादेशस्य निर्बाधत्वादिति । स्मृतेरिति । इः कामः स्मृतो येन सः, ई लक्ष्मीः स्मृता येनेति वा विग्रहः ।निष्ठे॑ति स्मृतशब्दस्य पूर्वनिपातः । स्मृतय इति । नन्वत्र पूर्वोक्तरीत्याएङः पदान्तादती॑ति पूर्वरूपेण भाव्यं न त्वयादेशेन, न ह्यत्रानुकरणशब्दत्वकल्पनमौचित्यं लभत इति चेदत्र नव्याः — ॒उत्तरपदत्वे चाऽपदादिविधौ प्रतिषेधः॑इति प्रत्ययलक्षणप्रतिषेधादेडः पदान्तादती॑त्यस्याऽप्रवृत्तिः । किंचस्वादिष्वसर्वनामस्थाने॒॑यचि भ॑ मित्यत्र भाष्यकृतैस्वादिषु पूर्वं पदसंज्ञं भवती॑ति व्याख्यातम् । ततश्चानेनसुप्तिङन्त॑मितिस्वादि॑ष्विति च द्विविधापि संज्ञा निषिध्यत इति पूर्वन्तत्वप्रयुक्ता पदान्ततेह दुर्लभेतिस्मृतय॑ — इति रूपं निर्बाधमेव । तथासय॑इत्यत्र॒इना सहे॑त्यादिव्युत्पत्तिपक्षेऽपि नानुपपत्तिः । न चैकारदेशस्य पूर्वनतत्वेनाव्ययत्वात्सुपो लुक् स्यादिति शङ्क्यम्, अव्ययसंज्ञाया अन्वर्थत्वेनोपसर्जने तदभावात् । न चैवमपिसहग इ॑इति स्थितेऽन्तरङ्गत्वाद्रुणे कृते सहशब्दस्य सादेश एव न स्यात्, एकादेशस्य पराविद्भावे सहशब्दस्य सभावः, तथापिस॑इत्यदन्तमेव रूपं स्यान्न तुसे॑ इत्येदन्तमिति शङ्क्यम्,नेन्द्रस्य परस्ये॑त्युत्तरपदवृद्धिपर्तिषेधेनपूर्वोत्तरपदयोः पर्थमं कार्यं भवति तत एकादेशः॑इति सामान्यज्ञापनादित्याहुः ।
Padamanjari¶
नामित्येतस्य शास्त्रे क्वचिदप्यविहितत्वातत्परिज्ञानार्थमाह - नामिति षष्ठीबहुवचनमित्यादि । नामीति दीर्घपाठस्तु न समाचीनः । आगतनुट्कमिति । गत्यर्थत्वाद्रमेः कमणि कर्तरि वा क्तः । आगतो नुड।लेन आगतो वा नुड।ल्ं तदा गतनुट्कम् । अग्नीनामित्यादि । अकारन्तस्य तु सुपि चेति दीर्घः सिद्धः । एकर्तणामिति । नन्वण इति वर्तते तत्राह - अण इत्येतदिति । न तिसृचतसृ इति प्रतिषेधादिति भावः । उतरार्थमिति । नोपधायाः इति दीर्घत्वं सनुट्के आमि यथा स्यात् - पञ्चानाम्, सप्तानाम्, षट्चतुभ्यश्चेति नुट् चर्मणामित्यादावनुट्के मा भूत् । कृते च नुटि दीर्घत्वप्रतिपत्यर्थमिति । आगतनुट्कस्य ग्रहणमित्यनुषङ्गः । अन्यथा हीत्यादि । यद्यागतनुट्कस्य ग्रहणं न क्रियते, ततः अग्नि - आम् इति स्थिते दीर्घत्वं च प्राप्नोति, नुट् च परो नुट्, नित्यं दीर्घत्वम्, कृतेऽपि नुटिप्राप्रोत्यकृतेऽपि, ततो दीर्घे कृतेऽह्रस्वत्वान्नुडेव न स्यात्, योऽयं सिद्धान्ते निमितत्वेनोपादानादयत्नेन सिद्धो नुट्, स एव न स्यादित्येवशब्दस्यार्थः । ननु चाह चायं ह्रस्वान्तान्नुडिति , न च नित्यत्वाद्दीर्घे कृते क्वचिदपि ह्रस्वान्तमस्ति, तत एवं विज्ञास्यामः - भूतपूर्व यद् ह्रस्वान्तमिति, ननु चेदं सम्प्रति ह्रस्वान्तमस्ति, न तिसृचतसृ तिसृणाम्, एचतसृणाम् नैतदस्ति इह तावच्चतसृणामिति षट्चतुर्भ्यश्चेति नुट् सिद्धः तिसृणामित्यत्रापि ह्रस्वनद्यापो नुट् इत्यत्र त्रेस्त्रयः इत्यतस्त्रेरित्यनुवृतेरेव नुट् सिद्धः । यदा तर्हि नृ चेति दीर्घत्व प्रतिषधस्तदास्त्यवकाशः न चैकमुदारहणं योगारम्भं प्रयोजयति, यद्येतावत्प्रयोजनं स्यात् नृनद्यापो नुट् इत्येव ब्रूयात्, ह्रस्वग्रहणातु भूतपूर्वगतिविंज्ञायते । यद्येवम्, अस्थ्नाम्, दध्नाम्, अस्थिदधिसक्थ्यक्ष्णाम् त्यिनङ् कृतेऽइपि भूतपूर्वमेतद् ह्रस्वान्तमिति नुट् प्राप्नोति, ततश्च नोपधायाः इति दीर्घत्वे नलोपे च अस्थानामिति प्राप्नोति । यद्वा - यदा नुङ्विधौ भूतपूर्वगतिस्तदा नुण्नित्यो भवति, अनङ् त्वनित्य इति पूर्वं नुटि कृतिऽस्थीनामिति प्राप्नोति, द्विपदामित्यादौ पादस्य लोपे कृते नुट्प्रसङ्गः । एवम् पद्दन्नोमास् इत्यत्र ये ह्रस्वान्तस्यादेशास्तेष्वपि प्रसङ्गो योज्यः, तस्मान्न शक्यं भूतपूर्वगतिविज्ञानम् । यच्चोक्तम् - त्रेरित्यनुवृतेरेव तिसृणामित्यत्र नुट् सिद्ध इति तदप्यप्रमाणम्, न हि द्वयोरन्यतरस्य वाऽपेक्षायामसत्यां चकारे चासत्यनुवृत्तिः स्वध्यवसाना । तस्माद् - अन्यथा हि नुडेव न स्यादित स्थितिमेतत् । उक्त एवार्थे संग्रहश्लोकं पठिति । नामिदीर्घ इति । यदि नुटमकृत्वा आमीत्येव सूत्रं क्रियेतेत्यर्थः । वचनादिति । वचनसामर्थ्याद् भूतपूर्वगतिविज्ञायत इति भावः । यत्र तन्नास्तीति । तिसृणामित्यत्र यत्र दीर्घत्वं नास्ति स वचनस्यावकाश इत्यर्थः । नोपधायाश्चेति । चशब्दः समुच्चये ॥
Praudhamanorama¶
परिभाषाविरोधादिति। एतच्च ‘रुधादिभ्यः श्नम्’ इति सूत्रे ‘श्नान्नलोपः’ इति सूत्रे च भाष्यकैयटयोः स्पष्टम्। आरम्भसामर्थ्यादिति। ‘सुपि च’ इत्यस्य तु न सामर्थ्यम्। रामाभ्यामित्यादौ सावकाशत्वादिति भावः। एवं च रामशब्दे ‘नामि’ इत्यस्योपन्यासो लेखकप्रमादादिति यदूचुस्तच्चिन्त्यम्।
Prakriyasarvasvam¶
नामि परेऽजन्तस्याङ्गस्य दीर्घः स्यात् । हरीणाम् । कृष्णानामित्यत्र तु परत्वात् सुपि चेत्येवोक्तम् । हरि इ ॥
Sarala¶
(नामि परेऽजन्ताङ्गस्य दीर्घः स्यात्) । नामि - सप्तम्यन्तम् ॥
Sudha¶
नामीति । ढ्रलोपे पूर्वस्य दीर्घोऽणः**(6.3.111) इत्यतो दीर्घ इत्यनुवर्तते । दीर्घश्रुत्या च अच इत्युपस्थितम् । तेन चाङ्गं विशेष्यते । अतस्तदन्तविधिस्तदाह - **अजन्ताङ्गस्येत्यादिना । रामाणामिति । रामशब्दात् पष्ठीबहुवचनविवक्षायाम् आमि “राम आम्” अत्र ह्रस्वनद्यापो नुट्**(7.1.54) इति नुटि टित्त्वादाद्यावयवे उकारटकारयोरित्संज्ञायां लोपे च “राम नाम्” इति जाते **नामि**(6.4.3) इति दीर्घे **अट्कुप्वाङ्नुम्व्यवायेऽपि**(8.4.2) इति णत्वे “रामाणाम्” इति सिद्धम् । **रामे इति । रामशब्दात्सप्तम्येकवचनविवक्षायां ङौ कृते लशक्वतद्धिते**(1.3.8) इति ङकारस्येत्संज्ञायां लोपे च “राम इ” इति जाते तत्र **आद्गुणः**(6.1.87) इति गुणे “रामे” इति रूपम् । **रामयोरिति । रामशब्दात् सप्तमीद्विवचनविवक्षायाम् ओसि प्रत्यये “राम ओस” अत्र **ओसि च**(7.3.104) इत्यनेन एकारे तस्य अयादेशे च कृते परेण संयुक्ते “रामयोः” इति रूपम् ।