64002: हलः¶
Padacheda: हलः | S | 5 | 1 |
Sutrartha¶
अङ्गस्य अन्ते विद्यमानः सम्प्रसारणसंज्ञकः वर्णः तस्मिन्नेव अङ्गे हल्-वर्णात् परः विद्यते चेत् तस्य वर्णस्य दीर्घादेशः भवति ।
‘यण्’ वर्णस्य स्थाने ‘इक्’ वर्णस्य विधानम्, तथा च अनेन विधानेन प्राप्तः इक्-वर्णः, उभयोः व्याकरणशास्त्रे इग्यणः सम्प्रसारणम् (1.1.45) इति सूत्रेण ‘सम्प्रसारणम्’ इति संज्ञा भवति । ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे (6.1.13) इत्यस्मात् आरभ्य विभाषा परेः (6.1.44) इत्येतेषु सूत्रेषु अष्टाध्याय्यां सम्प्रसारणकार्यम् प्रोक्तम् अस्ति । एतादृशः सम्प्रसारणकार्येण सिद्धः (सम्प्रसारणसंज्ञकः) वर्णः यदि अङ्गस्य अन्ते, तस्यैव अङ्गस्य हल्-वर्णात् परः विद्यते, तर्हि वर्तमानसूत्रेण तादृशस्य अङ्गस्य (इत्युक्ते, अङ्गान्ते विद्यमानस्य सम्प्रसारणसंज्ञकवर्णस्य) दीर्घादेशः भवति । कानिचन उदाहरणानि एतानि - 1) वचिस्वपियजादीनां किति (6.1.15) इत्यनेन सूत्रेण ‘ह्वे (स्पर्धायां शब्दे च, भ्वादिः (1.1163) अस्य धातोः अङ्गस्य कित्-प्रत्यये परे सम्प्रसारणे कृते वर्तमानसूत्रेण दीर्घादेशः अपि भवति -
ह्वे (स्पर्धायां शब्दे च)
--> ह्वा [**आदेच उपदेशेऽशिति** (6.1.45) इति आकारादेशः]
--> ह्वा + क्त [**निष्ठा** (3.2.102) इति क्तप्रत्ययः]
--> ह् उ आ + त [कित्-प्रत्यये परे वकारस्य **वचिस्वपियजादीनां किति** (6.1.15) इति सम्प्रसारणम् । वकारस्य सम्प्रसारणे **इग्यणः सम्प्रसारणम्** (1.1.45) इति उकारः]
--> ह् उ + त [**सम्प्रसारणाच्च** (6.1.108) इति पूर्वरूप-एकादेशः]
--> हूत [**हलः** (6.4.2) इति हल्-वर्णात् परस्य अङ्गान्ते विद्यमानस्य उकारस्य दीर्घः]
ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च (6.1.16) इत्यनेन सूत्रेण ‘ज्या (वयोहानौ, क्र्यादिः. (9.34) अस्य धातोः अङ्गस्य कित्/ङित्-प्रत्यये परे सम्प्रसारणे कृते वर्तमानसूत्रेण दीर्घादेशः अपि भवति -
ज्या (वयोहानौ, क्र्यादिः)
--> ज्या + क्त्वा [**समानकर्तृकयोः पूर्वकाले** (3.4.21) इति क्त्वाप्रत्ययः]
--> ज् इ आ + त्वा [कित्-प्रत्यये परे यकारस्य **ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च** (6.1.16) इति सम्प्रसारणम् । यकारस्य सम्प्रसारणे **इग्यणः सम्प्रसारणम्** (1.1.45) इति इकारः]
--> ज् इ + त्वा [**सम्प्रसारणाच्च** (6.1.108) इति पूर्वरूप-एकादेशः]
--> ज् ई + त्वा [**हलः** (6.4.2) इति हल्-वर्णात् परस्य अङ्गान्ते विद्यमानस्य इकारस्य दीर्घः]
--> जीत्वा
ज्या-धातोः ङित्-प्रत्यये परे सम्प्रसारणे कृते अपि इदं सूत्रम् अवश्यमेव प्रवर्तते -
ज्या (वयोहानौ, क्र्यादिः)
--> ज्या + लिङ् [**आशिषि लिङ्लोटौ** (3.3.173) इति आशिषि लिङ्]
--> ज्या + तिप् [**तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्** (3.4.78) इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]
--> ज्या यासुट् + ति **यासुट् परस्मैपदेषूदात्तो ङिच्च** (3.4.103) इति यासुट्-आगमः, सः च ङित् भवति । ]
--> ज्या + यास् + ति [इत्संज्ञालोपः]
--> ज्या + यास् + सुट् + ति [**सुट् तिथोः** (3.4.107) इति सुट्-आगमः]
--> ज्या + यास् + स् + ति [इत्संंज्ञालोपः]
--> ज्या + यास् + स् + त् [**इतश्च** (3.4.100) इति इकारलोपः]
--> ज् इ आ + यास् + स् + त् [ङित्-प्रत्यये परे यकारस्य **ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च** (6.1.16) इति सम्प्रसारणम् । यकारस्य सम्प्रसारणे **इग्यणः सम्प्रसारणम्** (1.1.45) इति इकारः]
--> ज् इ + यास् + स् + त् [**सम्प्रसारणाच्च** (6.1.108) इति पूर्वरूप-एकादेशः]
--> ज् ई + यास् + स् + त् [**हलः** (6.4.2) इति हल्-वर्णात् परस्य अङ्गान्ते विद्यमानस्य इकारस्य दीर्घः]
--> जीयात् [**स्कोः संयोगाद्योरन्ते च** (8.2.29) इति उभयोः सकारयोः लोपः]
प्र-उपसर्गपूर्वकस्य स्यै-धातोः निष्ठाप्रत्यये परे सम्प्रसारणे कृते अनेन सूत्रेण दीर्घादेशः भवति -
ष्ट्यै (शब्दसङ्घातयोः, भ्वादिः, (1.1059))
--> स्त्यै [**धात्वादेः षः सः** (6.1.64), निमित्तापाये नैमित्तिकस्याप्यपायः इति टकारस्य तकारः]
--> स्त्या [**आदेच उपदेशेऽशिति** (6.1.45) इति आकारादेशः]
--> प्र + स्त्या + क्त [**निष्ठा** (3.2.102) इति क्तप्रत्ययः]
--> प्र + स्त् इ आ + त [**स्त्यः प्रपूर्वस्य** (6.1.23) इति सम्प्रसारणम् । यकारस्य सम्प्रसारणे **इग्यणः सम्प्रसारणम्** (1.1.45) इति इकारः]
--> प्र + स्त् इ + त [**सम्प्रसारणाच्च** (6.1.108) इति पूर्वरूप-एकादेशः]
--> प्र + स्त् ई + त [**हलः** (6.4.2) इति दीर्घः]
--> प्रस्तीत
दलकृत्यम्
यदि हल्-वर्णः नास्ति तर्हि अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, वेञ् + क्त इत्यत्र -
वेञ् (तन्तुसन्ताने, भ्वादिः, (1.1161))
--> वा [**आदेच उपदेशेऽशिति** (6.1.45) इति आकारादेशः]
--> वा + क्त [**निष्ठा** (3.2.102) इति क्तप्रत्ययः]
--> उ आ + त [**वचिस्वपियजादीनां किति** (6.1.15) इति सम्प्रसारणम्]
--> उत [**सम्प्रसारणाच्च** (6.1.108) इति पूर्वरूपैकादेशः । अत्र उवर्णात् पूर्वः हल्-वर्णः नास्ति, अतः अत्र दीर्घः न भवति ।
यदि हल्-वर्णः अस्ति परन्तु अङ्गस्य अवयवः नास्ति (पृथग् रूपेण विद्यते) तर्हि अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, निर्+ वेञ् + क्त इत्यत्र -
वेञ् (तन्तुसन्ताने, भ्वादिः, (1.1161))
--> वा [**आदेच उपदेशेऽशिति** (6.1.45) इति आकारादेशः]
--> निर् + वा + क्त [**निष्ठा** (3.2.102) इति क्तप्रत्ययः]
--> निर् + उ आ + त [**वचिस्वपियजादीनां किति** (6.1.15) इति सम्प्रसारणम्]
--> निर् + उ + त [**सम्प्रसारणाच्च** (6.1.108) इति पूर्वरूपैकादेशः । अत्र उवर्णात् पूर्वः विद्यमानः हल्-वर्णः तस्मिन्नेव अङ्गे नास्ति (**यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्** (1.4.13) इत्यनेन उपसर्गः अङ्गावयवः न), अतः अत्र दीर्घः न भवति ।
--> निरुत
यदि अङ्गान्ते विद्यमानः वर्णः सम्प्रसारणसंज्ञकः नास्ति, तर्हि अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, ‘जि + त –> जित’ अत्र ‘जि (जये, भ्वादिः)’ इति धातौ अङ्गान्ते विद्यमानः इकारः औपदेशिक-अवस्थातः एव विद्यते, सम्प्रसारणनिर्मितः नास्ति । अतः अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति ।
यदि सम्प्रसारणसंज्ञकः वर्णः अङ्गस्य अन्ते न विद्यते, तर्हि अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, ‘व्यध् + क्त’ इत्यत्र यकारस्य सम्प्रसारणे पूर्वरूपैकादेशे कृते ‘विध् + त’ इत्यत्र इकारः अङ्गस्य अन्ते नास्ति अतः तस्य दीर्घः अपि न भवति । अन्तिमरूपे ‘विद्ध’ इति ह्रस्वः इकारः एव श्रूयते ।
सूत्ररचनाविशेषाः
अत्र सम्पूर्णम् सूत्रम् - अङ्गस्य हलः सम्प्रसारणस्य अङ्गस्य दीर्घः - इति स्वीक्रियते । अत्र ‘अङ्गस्य’ इति शब्दः सूत्रे द्विवारं प्रयुज्यते इति विशेषः । आदौ, अत्र ‘अङ्गस्य हलः’ इत्यत्र अवयवषष्ठीरूपेण ‘अङ्गस्य’ इति शब्दं स्वीकृत्य, तथा च तस्मादित्युत्तरस्य (1.1.67) इत्यनेन पूर्वनिमित्ताश्रयणेन ‘अङ्गस्य अवयवः यः हल् वर्णः, तस्मात् परस्य’ इति अर्थः सिद्ध्यति । अग्रे, द्वितीयः ‘अङ्गस्य’ इति शब्दः ‘सम्प्रसारणस्य अङ्गस्य’ इत्यत्र अन्वेति । अत्र येन विधिस्तदन्तस्य (1.1.72) इत्यनया परिभाषया ‘सम्प्रसारणान्तस्य अङ्गस्य’ इति तदन्तविधिः स्वीक्रियते । अन्ते, ‘अङ्गस्य दीर्घः’ इत्यत्र अलोऽन्त्यस्य (1.1.52) इत्यनेन अङ्गान्ते विद्यमानस्य वर्णस्य दीर्घः भवेत् - इति अर्थः स्पष्टी भवति । अनेन प्रकारेण अत्र सम्पूर्णसूत्रस्य अर्थः - ‘अङ्गस्य हल्-वर्णात् परस्य तस्यैव अङ्गस्य अन्ते विद्यमानस्य सम्प्रसारणसंज्ञकवर्णस्य दीर्घः भवेत्’ इति सिद्ध्यति ।
भाष्यविस्तरः
यद्यपि अस्मिन् सूत्रे निर्दिष्टः सम्प्रसारणसंज्ञकः वर्णः ‘इ, उ, ऋ, ऌ’ एतेषु कश्चन भवितुम् अर्हति, तथापि अस्य सूत्रस्य प्रसक्तिः केवलं ‘अण्’ प्रत्याहारे विद्यमानानां वर्णानां विषये (इत्युक्ते, इवर्णस्य उवर्णस्य च विषये) विद्यते इति अत्र भाष्ये स्पष्टी क्रियते । यथा, ‘तृतीय’ इत्यस्य पूरणप्रत्ययान्तशब्दस्य सिद्धौ आदौ ‘त्रि’ इति शब्दात् त्रेः सम्प्रसारणं च (5.2.55) इत्यनेन सूत्रेण ‘तीय’ प्रत्ययः भवति, तथा च अनेनैव सूत्रेण ‘त्रि’ शब्दस्य सम्प्रसारणं कृत्वा ‘तृ’ इति सिद्ध्यति । अत्र सम्प्रसारणेन निर्मितः ऋकारः हल्-वर्णात् परः अस्ति, अतः हलः (6.4.2) इत्यनेन सूत्रेण तस्यापि दीर्घादेशस्य प्रसक्तिः विद्यते । परन्तु ‘ऋ’ वर्णः ‘अण्’ प्रत्याहारे न गृह्यते, अतः तस्य विषये इदं सूत्रं नैव प्रयोक्तव्यम्, इति अत्र भाष्यस्य आशयः । अस्य पक्षस्य पुष्ट्यर्थं ढ्रलोपे पूर्वस्य दीर्घोऽणः (6.3.111) इत्यस्मात् सूत्रात् ‘अण्’ इत्यस्य अनुवृत्तिः वर्तमानसूत्रे स्वीक्रियते ।
Sutrartha (English)¶
The letter which has been generated using सम्प्रसारणम् and which occurs at end of an अङ्ग becomes दीर्घ when there is a हल् letter which occurs just before it in that अङ्ग.
Vasu English Summary¶
The long vowel is substituted for a vocalised half-vowel अ , इ and उ at the end of a अङ्ग (stem), when it is preceded by a consonant which is a portion of the stem.
Vasu English Translation¶
The long vowel is substituted for a vocalised half-vowel अ , इ and उ at the end of a अङ्ग (stem), when it is preceded by a consonant which is a portion of the stem. Both the words दीर्घ and अण् from (6.3.111), and संप्रसारण from (6.3.139) are understood here. Thus हूतः from ह्वा, जीनः from ज्या, संवीतः from व्या ॥ Why do we say ‘preceded by a consonant’? Observe उतः and उतवान् from वेञ् ॥ Why do we say that the preceding consonant should be a portion of the stem? Observe निरुतम्, here र is not an integral part of the stem, but a portion of the upasarga निर् and therefore उ is not lengthened. Why do we say ‘at the end of a stem’? Observe विद्धः, विचितः from व्यध् and व्यच्; here the vowel इ is in the middle of the stem. Why do we say ‘अ, इ and उ substitutes of semivowels’? Observe तृतीयः ॥ Here त्रि has been vocalised into तृ, ऋ being substituted for र् before the affix तीय (5.2.55). There ऋ will not be lengthened. Or the absence of lengthening in तृतीय is an irregularity countenanced by Panini himself in sutras like (2.1.30) &c. The word अङ्ग should be repeated in this sutra, first to qualify the word हल, and then to qualify the letters अ, इ and उ ॥
Bhashya¶
हलः (3000) (दीर्घाधिकरणम्) (वार्तिकावतरणभाष्यम्) इह कस्मान्न भवति - तृतीयः ? (6510 अतिव्याप्तिनिवारकवार्तिकम् ॥ 1 ॥) - अण्प्रकरणादृकारस्याप्राप्तिः - अण्प्रकरणादृकारस्य दीर्घत्वं न भविष्यति । अण इति वर्तते । क्व प्रकृतम् ? ढ्रलोपे पूर्वस्य दीर्घोऽणः (6.3.111) इति ॥ (वार्तिकावतरणभाष्यम्) तद्वै इकः काशे (6.3.123) इत्यनेनेग्ग्रहणेन व्यवच्छिन्नं न शक्यमनुवर्तयितुम् ॥ (6511 अण्ग्रहणानुवृत्तिसाधकवार्तिकम् ॥ 2 ॥) - इग्ग्रहणस्य चाण्विशेषणत्वात् - अण्विशेषणमिग्ग्रहणम् -अण इक इति ॥ (अण्ग्रहणानुवृत्तौ दोषनिवारकभाष्यम्) यदि तर्ह्यण्विशेषणमिग्ग्रहणं, चौ दीर्घो भवति -इतीह न प्राप्नोति - अवाचा, अवाचे । नैष दोषः । अण्ग्रहणमनुवर्तते, इग्ग्रहणं निवृत्तम् ॥ एवमपि कर्तृचः, कर्तॄचा, कर्तॄचे - अत्र न प्राप्नोति । यथालक्षणमप्रयुक्ते ॥ (वार्तिकान्यथासिद्धिसाधकभाष्यम्) अथवा - उभयं निवृत्तम् । कस्मान्न भवति - तृतीय इति ? निपातनात् । किं निपातनम् ? द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् (2.2.3) इति ॥
Kashika¶
अङ्गावयवाद्धलो यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घो भवति। हूतः। जीनः। संवीतः। हल इति किम्? उतः। उतवान्। अङ्गावयवादिति किम्? निरुतम्। तदन्तस्येति किम्? विद्धः। विचितः। अण इत्येव — तृतीयः। ०तृतीया (२.३.१८) इति वा निपातनादत्र दीर्घाभावः। अङ्गग्रहणमावर्तयितव्यं हल्विशेषणार्थम्, अङ्गकार्यप्रतिपत्त्यर्थं च॥
Siddhanta Kaumudi¶
अङ्गावयवाद्धलः परं यत्संप्रसारणं तदन्ताङ्गस्य दीर्घः स्यात् । इति दीर्घे कृते प्वादीनां ह्रस्वः (SK2258) । जिनाति । जिज्यौ । जिज्यतुः ।{$ {!1500 री!} गतिरेषणयोः$} । रेषणं वृकशब्दः ।{$ {!1501 ली!} श्लेषणे$} । विभाषा लीयतेः (SK1509) इत्येज्विषये आत्वं वा । ललौ । लिलाय । लाता । लेता ।{$ {!1502 व्ली!} वरणे$} । व्लिनाति ।{$ {!1503 प्ली!} गतौ$} । वृत् । ल्वादयो वृत्ताः । प्वादयोऽपीत्येके ।{$ {!1504 व्री!} वरणे$} ।{$ {!1505 भ्री!} भये$} । भरण इत्येते ।{$ {!1506 क्षीष्!} हिंसायाम्$} । एषां त्रयाणां ह्रस्वः । केषांचिन्मते तु न ।{$ {!1507 ज्ञा!} अवबोधने$} । ज्ञाजनोर्जा (SK2511) जानाति । दीर्घनिर्देशसामर्थ्यान्न ह्रस्वः । {$ {!1508 बन्ध!} बन्धने$} । बध्नाति । बबन्धिथ । बन्धा । बन्धारौ । भन्त्स्यति । बधान । अभान्सीत् । पूर्वत्रासिद्धम् (SK12) इति भष्भावात्पूर्वं झलो झलि (SK2281) इति सिज्लोपः । प्रत्ययलक्षणेन सादिप्रत्ययमाश्रित्य भष्भावो न । प्रत्ययलक्षणं प्रतिसिज्लोपस्यासिद्धत्वात् । अबान्धाम् । अभान्त्सुः ।{$ {!1509 वृङ्!} संभक्तौ$} । वृणीते । वव्रे । ववृषे । ववृढ्वे । वरिता । वरीता । अवरिष्ट । अवरीष्ट । अवृत ।{$ {!1510 श्रन्थ!} विमोचनप्रतिहर्षयोः$} ॥ इतः परस्मैपदिनः ॥ श्रन्थाति । ।<!श्रन्थिग्रन्थीत्यादिना कित्त्वपक्षे एत्वाभ्यासलोपावप्यत्र वक्तव्यौ इति हरदत्तादयः !> (वार्तिकम्) ॥ श्रेथतुः । श्रेथुः । इदं कित्त्वं पितामपीति सुधाकरमते । श्रेथिथ । अस्मिन्नपि पक्षे णलि । शश्राथ । उत्तमे तु । शश्राथ शश्रथेति माधवः । तत्र मूलं मृग्यम् । {$ {!1511 मन्थ!} विलोडने$} ।{$ {!1512 श्रन्थ!} {!1513 ग्रन्थ!} सन्दर्भे$} । अर्थभेदाच्छ्रन्धेः पुनः पाठः । रूपं तूक्तम् ।{$ {!1514 कुन्थ!} संश्लेषणे$} । संक्लेशे इत्येके । कुथ्नाति । चुकुन्थ । कुथेति दुर्गः । चुकोथ ।{$ {!1515 मृद!} क्षोदे$} । मृद्नाति । मृदान ।{$ {!1516 मृड!} च$} । अयं सुखेऽपि । ष्टुत्वम् । मृड्णाति ।{$ {!1517 गुध!} रोषे$} । गुध्नाति ।{$ {!1518 कुष!} निष्कर्षे$} । कुष्णाति । कोषिता ॥
Laghu Siddhanta Kaumudi¶
अङ्गावयवाद्धलः परं यत्संप्रसारणं तदन्तस्य दीर्घः। जीनः॥
Balamanorama¶
हलः - दिग्योगे पञ्चम्येषा । हलः परस्येति लभ्यते ।संप्रसारणस्ये॑ति सूत्रमनुवर्तते । अङ्गस्येत्यधिकृतमिहानुवृत्तमावर्त्त्यते । एकमवयवषष्ठन्तं हल इत्यत्रान्वेति । अङ्गावयवाद्धल इति लभ्यते । द्वितीयं तु स्थानषष्ठन्तं संप्रसारणेन विशेष्यते । तदन्तविधिः । ‘ढ्रलोपे’ इत्यतो दीर्घ इत्यनुवर्तते । तदाह — अङ्गावयवादित्यादिना । उदाहरणं तु — वीतः, शूनः, जीनः । हल इति किम् । उतः उतवान् । अङ्गावयवात् किम् । निरुतम् । तदन्ताङ्गस्येति किम् । विध्यति । एषामिति । व्रीभ्रीक्षीषामित्यर्थः । ल्वादय एव वृत्ताः, न तु प्वादय इति मते इति भावः । ज्ञा अवबोधने । शिति जादेशं स्मारयति — ज्ञाजनोर्जेति । दीर्घनिर्देशे॑ति । प्वादित्वेऽपि आकारोच्चारणसामर्थ्यान्न ह्रस्व इति भावः । बन्ध बन्धने । अनिट् । नोपधः । बन्धातीति ।अनिदिता॑मिति नलोप इति भावः । भारद्वाजनियमात्थलि वेडिति मत्वाऽऽह — बबन्धिथ बबन्द्धेति । अकित्त्वान्नलोपो न । अनिट्पक्षे तुझषस्तथो॑रिति थस्य धः । बन्धेति । तासि.झषस्तथो॑रिति तकारस्य धः । भन्त्स्यतीति । ‘एकाचः’ इति बस्य भष् । धस्य चर्त्वेन तः । बधानेति । ‘हलः श्नः शानज्झौ’ इति शानच् । अभान्त्सीदिति । हलन्तलक्षणावृद्धिः । भष्भावः । अबान्द्धामित्यत्र सकारपरकत्वाद्भष्भावमाशङ्क्याह — पूर्वत्रत्यादि । ननु कृते सिज्लोपे प्रत्ययलक्षणमाश्रित्य सकारपरकत्वाद्भष् दुर्वार इत्यत आह — प्रत्ययलक्षणेनेति । अबान्द्धामिति ।झषस्तथो॑रिति तस्य धः । श्रन्थ विमोचने । श्रन्थिग्रन्थीत्यादिनेति ।श्रन्थिग्रन्थिदम्भिस्वञ्जीना लिटः कित्त्वं वे॑ति व्याकरणान्तरेणेत्यर्थः । अस्मिन्नपि पक्षे इति ।पितामपीदं कित्त्व॑मिति सुधाकरमतेऽपि प्रथमपुरुषणलि — शश्राथ । उत्तमपुरुषणलि तु शश्राय शश्रयेति माधव आहेत्यर्थः । तत्र मूलमिति ।कित्त्वपक्षे एत्त्वाभ्यालोपा॑वित्यारभ्य ‘माधव’ इत्यन्तसंदर्भे मूलं नास्तीत्यर्थः । संयुक्तहल्मध्यस्थत्वादेवंविधवार्तिकाऽदर्शनाच्चेति भावः । कुष निष्कर्षे ।
Padamanjari¶
हल इति किमिति । केनेदानीमुदाहरणेषु दीर्घसिद्धः एषं मन्यते - यथा शेषे इति लक्षणं चाधिकारश्च, तथाङ्गस्येत्येतदपि, ततश्चाभिमते विषये दीर्घो भविष्यतीति । अतिप्रसङ्ग इति तूतरम् । विद्धः, विचित इति । व्यधताडने, व्यच व्याजीकरणे, ग्रहिज्या इत्यादिना सम्प्रसारणम् । अण इत्येवेति । ढ्रलोपे पूर्वस्य दीर्घोऽणः इत्यतः । न च तस्य इकः काशे इतिग्ग्रहणेन विच्छेदः । तत्र हि विरोधाभावादिग्ग्रहणेनाणेव विशेष्यते - इकोऽण इति । अथेदानीम् चौ इत्यारभ्याण इत्येवानुवर्तिष्यते, नेक इति । तृतियेति वा निपातनादिति । मा नामाण इत्येतदनुवृतत्, द्वितीयतृतीयचतुर्थेति योऽयं निर्द्देशस्तस्मादेव निपातनादनणो दीर्घत्वं न भविष्यतीत्यर्थः । नन्वेकमङ्गग्रहणं प्रकृतं तद्धलो यदि । विशेषणं स्यात्कार्यित्वमङ्गस्येह न लभ्यते ॥ ततश्च विद्धमित्यादावपि दीर्घः प्रसड।ल्ते । अथ निर्दिश्यते कार्थी नाहलः स्याद्विशेषणम् ॥ ततो निरुतमित्यादावपि दीर्घत्वमापतेत् । सकृच्छुतस्य चैकस्य युज्यते नोभयार्थता ॥ अत आह - अङ्गग्रहणमित्यादि । आवर्तमानं वस्वेकमप्यनेकस्य शेषताम् । भजते भाजनं यद्वन्नृणामसहभोजने ॥
Nyaas¶
अण्ग्रहणं सम्प्रसारणग्रहणं दीर्घग्रहणञ्चैतत्? तरयमनुवर्तते। कुतः पुनः प्रकृतमण्ग्रहणम्? ढ्रलोपे पूर्वस्य दीर्घोऽणः (6.3.111) इत्यतः। ननु तत्? इकः काशे (6.3.123) इतीग्ग्रहणेन व्यवच्छिन्नम्, तत्? कथमिहानुवर्तते? नैष दोषः, इग्ग्रहणेन ह्रणेव विशिष्यते -अण्णिगित। ततो विरोधाभावन्नेग्ग्रहणेनाण्ग्रहणं व्यवच्छिद्यते। ननु च यदीग्ग्रहणेनाण्ग्रहणं विशिष्यते, तदा -अवाचा, स्वराचा इत्यत्र दीर्घत्वं न स्यात्। चौ (6.3.137) इत्त्राण्ग्रहणमेवात्रानुवर्त्तिष्यते, इग्ग्रहणं तु निवृत्तमित्येषोऽपयदोषः। अथ वा -यद्यपीग्ग्रहणेनाण्ग्रहणं व्यवच्छिन्नम्, तथापीह मण्डूकप्लुतिन्यायेनानुवर्तते। ननु यथा शेषे (4.2.91) इत्येतल्लक्षणं विधिरधिकारश्च, तथा अङ्गस्य (6.4.1) इत्येतदपि, ततश्चानेनैव हूतः, जीन इत्यादेः सिद्धत्वादपार्थकं हलः इत्येतद्वचनम्। अतो न कर्तव्यमेवेति मन्यमान आह -हल इति किम् इति। किमर्थं हलः इत्येतत्? सूत्रमारभ्यत इत्यर्थ। उतः, उतवान् इति। असत्यस्मिन्? सूत्रे सन्प्रसारणान्तस्याङ्गस्य दीर्घो भवतीत्युच्यमान इहापि दीर्घत्वं स्यात्। भवति ह्रेतदपि व्यपदेशिवद्भावेन सम्प्रसारणान्तमङ्गम्, तस्मात् हलः इति सूत्रं कर्तव्यम्। विद्धः विचितः` इति। व्यध ताडने (धातुपाठः-1181) व्यच व्याजीकरणे (दा।पा।1293) निष्ठा, ग्रह्रादिसूत्रेण (6.1.16) सम्प्रसारणम्। सम्प्रसारणान्तस्याङ्गस्य ग्रहणादिह न भवति दीर्घः। यद्यपि विध्यत्यधनुषा (4.4.83) ग्रहिज्यावयिव्यधिवष्टिविचति (6.1.16) इति निर्देशात्? हलन्तस्य यत्? सम्प्रसारणं तस्य दीर्घो न भविष्यतीति विज्ञायते, तथापि ज्ञापकद्वारेणास्मिन्नर्थे प्रतिपाद्यमाने प्रतिपत्तिगौरवं स्यादित्येतत्परिहारार्थं सम्प्रसारणान्तस्येत्युक्तम्। तृतीयः इति। द्वेस्तीयः (5.2.54) इति त्रेः सम्प्रसारणं च (5.2.55) इति तीयप्रत्ययः सम्प्रसारणञ्च। सर्वमात्रास्ति, न त्वण्? कस्मान्नास्त्यण्? यस्मात्? ढ्रलोपे**ढ्रलोपे पूर्वस्य दीर्घोऽणः** (6.3.111) इत्यत इहाण्ग्रहणमनुवर्तते, तत्र च पूर्वेणैव णकारेण प्रत्याहारग्रहणम्, न च तत्र ऋकारः सन्निविष्ट इति भवत्येव प्रत्युदाहरणम्। `तृतीयेति वा इत्यादि। अथ वा अण इत्येतन्निवृत्तमेव। तथाप्यत्र न भवत्येव दीर्घः; कर्त्तुकरणयीस्तृतीया (2.3.18) इति निपातनात्। हलः इत्येतसय त्रयोऽर्थाः सम्भाव्यन्ते, हल उत्तरस्य सम्प्रसारणान्तस्याङग्सय् दीर्घो भवति -अयमेकोऽर्थः, अङ्गवयवाद्धल उत्तरस्य सम्प्रसारणस्य दीर्घो भवति -इति द्वितीयः, तृतीयस्तु वृत्तिकारेणैव दर्शितः। तत्र यदि प्रथमः पक्ष आश्रीयते, तदा निरुतम्, दुरुतमित्यत्रापि स्यात्। भवति ह्रेतदपि हल उत्तरं समप्रसारणान्तमङ्गम्। अथ द्वितीयस्तदा विद्धः, विचित इत्यत्रापि स्यात्। अत्राप्याङ्गवयवाद्धल उत्तरं सम्प्रसारणमिति। अथ विध्यत्यधनुषा (4.4.83) , ग्रहिज्यावयिव्यधिवष्टिविचति (6.1.16) इति निर्देशान्न भविष्यति? ततश्च ज्ञापकद्वारेणैवंविधे दीर्घत्वाभावे प्रतिपत्तिगौरवं स्यादेव। तस्मादेतस्यैव दोषस्य परिजिहीर्षया तृतीयोऽर्थो वृत्तिकारेण द्रशितः। अत्रापि देश्यमिदमाशङ्क्यते -ननु चायमर्थोऽस्य सूत्रस्य नोपपद्यत एव, यस्मादङ्गस्येत्येकमङ्गग्रहणं प्रकृतम्। तच्च हलो विशेषणं वा स्यात्, अङ्गस्य कार्यप्रतिपत्त्यर्थं वा। तत्र यदि पूर्वकः पक्ष आश्रीयते तदाङ्गविशिष्ट सम्प्रसारणान्तस्याङ्गस्येति यावद्दीर्घो न लभ्यते। अथ द्वितीयस्तदा हल्? विशेषितो न स्यात्। तस्माद्द्वितीयमङ्गग्रहणं कर्तव्यं स्यात्। न ह्र#एकेन शक्यमेतदुभयं प्रतिपादयितुम्। अतोऽस्य देश्यस्य निरासायाऽऽवृत्तिन्यायमाश्रित्याह -अङ्गग्रहणम् इत्यादि। एकमपि हि वस्त्वावर्त्त्यमानमनेकत्रोपयुज्यते। यथैकं भाजनमसहभुजामनेकेषां भुजिक्रियायाम्, तथेदमङ्गग्रहणमावर्त्त्यते। तत्रानावृत्तेन हल्? विशिष्यते, आवृत्तेन त्वङ्गस्य दीर्घत्वं भवतीत्युभयथार्थप्रतिपत्तिर्भवति॥
Prakriyasarvasvam¶
अङ्गस्थहलः परं यत् सम्प्रसारणं तदन्तस्याङ्गस्य दीर्घः स्यात् । शी त ॥