64003: नामि =========== **Padacheda:** नामि | S | 7 | 1 | Sutrartha --------- **षष्ठीबहुवचनस्य नाम्-प्रत्यये परे अङ्गस्य दीर्घः भवति ।** षष्ठीबहुवचनस्य आम्-प्रत्ययस्य यत्र नुडागमः भवति, तत्र तस्य 'नाम्' इति परिवर्तनं भवति । अस्य 'नाम्' प्रत्ययस्य उपस्थितौ अङ्गस्य अन्तिमस्वरस्य दीर्घः भवति । यथा - बाल + नाम् → बालानाम् । मुनि + नाम् → मुनीनाम् । पितृ + नाम् → पितॄणाम् । आदयः । ज्ञातव्यम् - **अचश्च** (1.2.28) परिभाषायाः साहाय्येन 'अच्-वर्णस्य' दीर्घः भवतीति ज्ञायते । **अलोऽन्त्यस्य** (1.1.52) इत्यनेन अन्तिम-वर्णस्य दीर्घादेशः भवतीति स्पष्टीभवति । Sutrartha (English) ------------------- In presence of the नाम् प्रत्यय, the last letter of the अङ्ग becomes दीर्घ. Vasu English Summary -------------------- The long vowel is substituted for the final of the stem before the Genitive 6th-Case plural affix नाम् (having the augment नुट्). Vasu English Translation ------------------------ The long vowel is substituted for the final of the stem before the Genitive 6th-Case plural affix नाम् (having the augment नुट्). *Karika* नामि दीर्घ आमि चेत्स्यात्कृते दीर्घे नुत् भवेत् । वचनाद्यत्र तन्नास्ति, नोपधायाश्च चर्म्मणाम् ॥ Thus अग्नीनाम्, वायूनाम्, कत्तॄणाम्, हर्त्तॄणाम् ॥ The*anuvritti* of अण् (6.3.111) ceases. The augment नुट् (7.1.54) in नाम् is for the sake of the subsequent *sutra*; like (6.4.7). and the lengthening takes place after the addition of नुट् to the genitive affix आम् ॥ For if the lengthening took place before the addition of नुट्, there would be no occasion for नुट् which comes only after short stems. Bhashya ------- नामि (3001) (सनकारग्रहणाक्षेपभाष्यम्) किमर्थमामः सनकारस्य ग्रहणं क्रियते, न आमि दीर्घः इत्येवोच्यते ? केनेदानीं सनकारस्य भविष्यति ? नुडयमाम्भक्त आङ्ग्रहणेन ग्राहिष्यते ॥ अत उत्तरं पठति - (नुट्प्रयोजनश्लोकवार्तिकम्) नामि दीर्घ आमि चेत्स्यात्कृते दीर्घे न नुड् भवेत् । नामि दीर्घ आमि चेत्स्यात्कृते दीर्घे न नुट् स्यात् । अग्नीनाम्, इन्दूनाम् । इदमिह संप्रधार्यम् - दीर्घत्वं क्रियतां नुडिति, किमत्र कर्तव्यम् ? परत्वान्नुट् । नित्यं दीर्घत्वम् । कृतेऽपि नुटि प्राप्नोत्यकृतेऽपि । नित्यत्वाद्दीर्घे कृते ह्रस्वाश्रयो नुट् न प्राप्नोति ॥ (श्लोकवार्तिकावतरणभाष्यम्) एवं तर्ह्याहायं - ह्रस्वान्तान्नुडिति, न च ह्रस्वान्तोऽस्ति । तत्र वचनाद्भविष्यति ॥ (सार्मथ्याभावोपपादकश्लोकवार्तिकम्) वचनाद्यत्र तन्नास्ति । नेदं वचनाल्लभ्यम् । अस्ति ह्यन्यदेतस्य वचने प्रयोजनम् । किम् ? यत्र दीर्घत्वं प्रतिषिध्यते - तिसृणाम्, चतसृणामिति । नैतदस्ति प्रयोजनम् । इह तावच्चतसृणामिति, षट्चतुर्भ्यश्च (7.1.55) इत्येवं भविष्यति । तिसृणामिति, त्रिग्रहणमपि प्रकृतमनुवर्तते । क्व प्रकृतम् ? त्रेस्त्रयः (7.1.53) इति । इदं तर्हि - त्वं नृणां नृपते जायसे शुचिः । नैकमुदाहरणं ह्रस्वग्रहणं प्रयोजयति । तत्र वचनात् भूतपूर्वगतिर्विज्ञास्यते - ह्रस्वान्तं यद्भूतपूर्वमिति ॥ (श्लोकवार्तिकावतरणभाष्यम्) उत्तरार्थं तर्हि सनकारग्रहणं कर्तव्यम् ॥ (नुट्प्रयोजनश्लोकवार्तिकम्) नोपधायाश्च चर्मणाम् । नोपधायाः नामि यथा स्यात् । इह मा भूत् - वर्मणाम्, चर्मणाम् ॥ (संग्रहः) नामि दीर्घ आमि चेत्स्यात्कृते दीर्घे न नुट् भवेत् । वचनाद्यत्र तन्नास्ति नोपधायाश्च चर्मणाम् ॥ 1 ॥ Kashika ------- नामित्येतत् षष्ठीबहुवचनमागतनुट्कं गृह्यते। तस्मिन् परतोऽङ्गस्य दीर्घो भवति। अग्नीनाम्। वायूनाम्। कर्तृृणाम्। हर्तृृणाम्। अण इत्येतदत्र निवृत्तम्। आगतनुट्कग्रहणमुत्तरार्थम्, कृते च नुटि दीर्घप्रतिपत्त्यर्थम्। अन्यथा हि नुडेव न स्यात्। नामि दीर्घ आमि चेत्स्यात् कृते दीर्घे न नुड् भवेत्। वचनाद् यत्र तन्नास्ति नोपधायाश्च चर्मणाम्॥ Siddhanta Kaumudi ----------------- नामि परेऽजन्ताङ्गस्य दीर्घः स्यात् । रामाणाम् । सुपि चे (SK202)ति दीर्घो यद्यपि परस्तथापीह न प्रवर्तते । संनिपातपरिभाषाविरोधात् । नामि (SK209)इत्यनेन त्वारम्भसामर्थ्यात्परिभाषा बाध्यते । रामे । रामयोः । सुपि एत्वे कृते ॥ Laghu Siddhanta Kaumudi ----------------------- अजन्ताङ्गस्य दीर्घः। रामाणाम्। रामे। रामयोः। सुपि - एत्त्वे कृते॥ Balamanorama ------------ **नृ च** - नृच । 'नृ' इति लुप्तषष्ठीकम् ।नामी॑ति सूत्रमनुवर्तते । 'ढ्रलोपे' इत्यतो 'दीर्घ' इत्यनुवर्तते ।छन्दस्युभयथे॑त्यत उभयथेत्यनुवर्तते । तदाह — नृ #इत्येतस्येत्यादिना । नृणां नृणामिति ।ऋवर्णान्नस्ये॑ति णत्वम् । ङौऋतो ङी॑ति गुणो रपरत्वम् । नरि न्रोः नृषु । इत्यृदन्ताः । अथ ऋदन्ता निरूप्यन्ते — कृ इत्यादिना । कृ तृ इत्यनयोकनुकरणे इत्त्वे रपरत्वे इत्यन्वयः । 'कृ विक्षेपे'तृ प्लवनतरणयोः॑ । कृ तृ इत्याभ्यां शब्दाभ्यामनुकरणे क्रियमाणेऽनुकरणभूताभ्यां ताभ्यां धातुपाठपठितौ कृ तृ इत्येतौ विवक्षितौ । अत एवानुकरणस्य अनुकार्यमर्थः । अनुकार्यं च अनुकरणाद्भिन्नमिति 'मतौ छः' इति सूत्रभाष्ये स्थितम् । आनुपूर्वीव्यत्यये ।ञपि वाचकसादृश्यादर्थोपस्थापकत्वमिति अत्र कैयटे,प्राग्दीव्यतोऽ॑णित्यत्र भाष्ये च स्पष्टमेतत् । ततश्चाऽनुकार्याभ्यां कृ तृ इत्याभ्यां अनुकरणभूतयोः कृ तृ इत्यनयोरर्थवत्त्वेन प्रातिपदिकत्वात्सुबुत्पत्तिः । नन्वनुकरणभूतयोरनुकार्यशब्दस्वरूपवाचकत्वात्कियावाचकत्वाऽभावेन धातुत्वाऽभावात्ऋत इद्धातो॑रिति कथमित्वम् । न चप्रकृतिवदनुकरण॑मिति वचनादनुकरणभूतयोर्धातुत्वमिति वाच्यम्, एवं सति अधातुरिति धातुप्रयुदासात्प्रातिपदिकत्वानुपपत्तेरित्यत आह — प्रकृतिवदनुकरणमितीति ।यत्तदेतेभ्यः परिमाणे धात्वनुकरणे विभक्तिनिर्देशाच्चप्रकृतिवदनुकरण॑मिति पाक्षिकम् । ततश्चात्रातिदेशभावमादाय धातुत्वात् 'ऋत इद्धातोः' इतीत्त्वम् । अतिदेशाऽभावमादाय धातुत्वाऽभावात्प्रातिपदिकत्वात्सुबुत्पत्तिश्च न विरुध्यत इति भावः ।कीरिति । कृधातुरित्यर्थः । ॠकारस्य इत्त्वे रपरत्वे 'र्वोरुपधायाः' इति दीर्घः । सोर्हल्ङ्यादिलोपः, विसर्गश्च । किराविति । अपदान्तत्वात् 'र्वोः' इति न दीर्घः । तीरिति । तृधातुरित्यर्थः । गीर्वदिति । गीर्शब्दवद्रूपाणीत्यर्थः । किरम् । किरौ किरः । किरा । कीभ्र्याम् । कीर्भिः । किरे । किरः । किरोः । कीर्षु । भ्यामादौस्वादिष्वसर्वनामस्थाने॑ इति पदत्वाद्दीर्घः । इत्वाऽभावेति ।प्रकृतिवदनुकरण॑मित्यस्याऽनित्यत्वादनुकरणस्य धातुत्वाऽभावात् 'ॠत इद्धातोः' इति इत्त्वाऽभावे सतीत्यर्थः । अनङ्गुणौ नेति । 'ऋत उ' दित्युत्त्वमपि तपरकरणान्नेति द्रष्टव्यम् । अत एव 'ग्रो यङी' त्यादिनिर्देशाः सङ्गच्छन्ते । कृरिति । रृधातुरित्यर्थः । क्रौः क्र इत्यादौ यण् । इत्यादिति । क्रः । क्रः क्रोः क्राम् । क्रि इत्यृदन्ताः ।अत लृदन्ताः । गम्लृ इति । गम्लृ गतौ॑ 'शक्लृ शक्तौ' अजन्तौ धातू । अनङिति ।ऋदुशनसित्यनेने॑ति शेषः । ऋऌवर्णयोः सावण्र्यादिति भावः । गुणविषये त्विति । ङौ सर्वनामस्थाने च ऋतो ङीति गुणोऽकारः, लपर इत्यर्थः । 'उरण्रपरः' इत्यत्र रप्रत्याहारग्रहणादिति भावः । गमृनिति । ऋत ऌवर्णस्य दीर्घाऽभावाद्दृवर्ण एव । पूर्वसवर्णदीर्घे नत्वमिति भावः । ङसिङसोस्त्विति । गम्लृ अस् इति स्थिते उत्, लपरः । गमुल् स् इति स्थितेसंयोगान्तस्य लोपः॑ । गमुल् इति रूपम् । इत्यादीति । गम्लृभ्याम् । गम्लृभिः । गम्लृभ्यः । गम्लृभ्यः । आमि तु गमृणाम् । गमलि गम्लोः गम्लृषु । वस्तुतस्तु 'उरण्रपरः' इत्यत्राऽजिति वक्तव्ये अण्ग्रहणसामर्थ्दाण्पूर्वेणैवेत्युक्तं भाष्ये । यदि ऌकारस्य यण् लकारः स्यात्तर्हि लपरत्वार्थं परेणाण्ग्रहणस्यावश्यकत्वात्तदसङ्गतिः स्पष्टैव । तस्मादेवंजातीयकानां प्रयोगो न भाष्यसंमत इत्याहुः । इति लृदन्ताः । अथ एदन्ताः । इनेति । अः=विष्णुः तस्यापत्यम् इः=कामः । अत इञ् । 'यस्येति च' इत्यकारलोपः । इनासहेत्यर्थेतेन सहेति तुल्ययोगे॑ इति बहुव्रीहिः ।वोपसर्जनस्ये॑ति सत्वम् ।आद्गुणः॑ । से इति रूपम् । ततः सुः, रुत्वविसर्गौ । सेः । एवं स्मृतेः । स्मृतः इः=कामो येनेति विग्रहेअनेकमन्यपदार्थे॑इति बहुव्रीहिः । नच एकादेशस्य पूर्वान्तत्वात्से इत्यस्याऽव्ययत्वात् 'अव्ययादाप्सुपः' इति लुक् शङ्क्यः, अव्ययमिति महासंज्ञया लिङ्गाद्यनन्वितार्थकस्यैव अव्ययत्वात् । अजादावयादेशं मत्वाह — सयौ सय इति । 'एह्यह्रस्वात्' इति संबुद्धिलोपः । हे से । नन्वेवं सति हे हरे इत्यत्र संबुद्धिलोपो न स्यात् । संबुद्धि परनिमित्तमाश्रित्य प्रवृत्तस्य गुणस्य संबुद्धिविघातकं सुलोपं प्रति संनिपातपरिभाषया निमित्तत्वाऽयोगात् । नचैवं सत्येङ्ग्रहणवैयथ्र्यं शङ्क्यं, हे से इत्यत्र चरितार्थत्वादिति चेत्, शृणु — हे हरे इत्यत्र संबुद्धिरूपस्य स्वोपजीव्यगुणविघात्यत्वमेव नास्ति । सत्यपि तल्लोपे प्रत्ययलक्षणमाश्रित्य संबुद्धिसत्त्वात्, तेन च गुणस्य निर्बाधत्वात् । केचित्तुगुणात्संबुद्धे रित्यनुक्त्वाएङ्ह्रस्वा॑दित्युक्तेः संनिपातपरिभाषां बादित्वापि संबुद्धिलोपः प्रवर्तत इत्याहुः । नच जसि सय इति कथम् । अन्तर्वर्तिविभक्त्या 'से' इत्यस्य पदत्वेनाऽयादेशं बाधित्वाएङः पदान्ता॑दिति पूर्वरूपापत्तेरिति वाच्यम्,उत्तरपदत्वे चापदादिविधौ॑ इति प्रतिषेधात् । उत्तरपदस्य तद्धटितस्य वा पदत्वे कर्तव्येऽन्तर्बर्तिविभक्तेः प्रत्ययलक्षणं नास्तीति हि तदर्थः । सेनासेवकादिशब्दगतस्य से इत्यस्य अनुकरणं वा अस्तु । तत्र जसि अयादेशस्य निर्बाधत्वात् । इत्येदन्ताः । अथ ओदन्ताः । गो स् इति स्थिते । Tattvabodhini ------------- **नृ च** - नृ च । इहछन्दस्युभयथे॑ति सूत्रादुभयथेत्यनुवर्तत इत्याभिप्रेत्याह -वा दीर्घः स्यादिति । केचित्त्विहछन्दसी॑त्यप्यनुवर्तयन्ति, तेषां हिचिन्ताजर्जरचेतसां बत नृणा कता नाम शान्तः कथा,॒॑नृणामेको गम्यस्त्वमसी॑त्यादिप्रयोगा न सङ्गच्छेरन् । किञ्चछन्दस्युभयथे॑ति पूर्वसूत्रेणैवनृणा॑मिति सिद्धेनृ चे॑ति सूत्रस्य वैयथ्र्यं स्यात् । यदपि पूर्वसूत्रेतिसृचतसृ॑इत्यनुवर्तयन्ति, तदप्ययुक्तम् । अविशेषेण विकल्पदर्शनात् । तथा च धाता धातृणां मिति मन्त्रे तैत्तिरीयैह्र्यस्वः पच्यते, बह्वृचैस्तु दीर्घ इति दिक् ।इति ऋदन्ताः । इत्यृदन्ताः । प्रकृतिवदनुकरणमित्यादि ।यत्तदेतेभ्यः परिमाणे॑इति निर्देशोऽत्र लिह्गम् । भवति हि तत्र त्यदाद्यत्वकरणाजनिकरणस्य प्रकृतिवत्त्वमेकशेषाऽभावदर्शनाच्च वैकल्पिकत्वमिति । इत्वे रपरत्वमिति ।ऋत इद्धातोः॑इतीत्वेउरण्रपरः॑इति रपरत्वम् । कीरिति । कृधातुरित्यर्थः । एवं — तीरिति ।तृ॑धातुः । इत्यादीति ।ऋत उ॑दिति तपरकरणान्ङसिङ्सोरत उदादेशो न -क्रः ।दीर्घान्तत्वादामो न नुट् — क्राम् । ङौ तुक्री॑त्यादि । इत्यृदन्ताः । इत्यृदन्ताः । अनङितित । ऋऌवर्णयोः सावण्र्यात्ऋदुशन॑सिति सूत्रपर्वृत्तेः । गुणविषय इथ ।ऋतो ङी॑ति गुणविषये । गमृनिति । ऌवर्णस्यट दीर्घाऽभावात्प्रथमयो॑रिति यः पूर्वसवर्णदीर्घेः स ऌकाराऽकारयोः स्थाने ॠकार एव भवति । नन्वत्र लकारद्वयगर्भो ऌकारो दीर्घोऽस्त्वितिचेत्, अत्राहुः — ॒पर्तमयोः पूर्वसवर्णः॑इत्यस्याऽकः प्रथमाद्वितीययोरचि पूर्वस्य सवर्णो यो दीर्घः स पूर्वपरयोः स्थाने भवतीत्यर्थाहऌवर्णयोर्वचनेन सावण्र्यसद्भावाह्मकार एव ऌकाराऽकारयोः स्थाने भवति न तु लकारद्वयगर्भो दीर्घः, तस्य ईषत्स्पृष्टपर्यत्नत्वात्प्रयत्नभेदेन ऌकारसावण्र्याऽभावादिति । एवं चहोतृ॑नित्यादौ रेफद्वयगर्भो दीर्घे ऋकाराऽकारयोः स्थाने न भवत्येवेति बोध्यम् ।इत्यदीति । गम्लृभ्याम् । गम्लृभिः । गम्लृभ्यः । आमि तुगमृणा॑मिति केचित् । वस्तुतस्तु ऌकारस्थाने लकारद्वयह्मगर्भेणैव दीर्घेण भवितव्यं, स्थानत आन्तर्यस्य बलीयलस्त्वात् ।होतृणा॑मित्यत्र तु ॠकार एव भवति, स्थानपर्यत्नोबयसाम्यात् । स्यादेतत् — रेफद्वययुक्तस्य लकारद्वययुक्तस्य चेषत्स्पृष्टप्रयत्नत्वाप्रयत्न भेदेन ऋऌ वर्माभ्यां सावण्र्याऽभावेनाऽच्त्वाबावात्ऊकालोऽ॑जित्यादिना दीर्घसंज्ञा नास्तीति कथमत्र लकारद्वयगर्भेण भवितव्यम्,ऋति ऋवा॒॑लृति लृवे॑ति वार्तिकपत्र्याख्यानं वा कथं सङ्गच्छताम्,अकः सवर्णे॑इत्यनेन इष्टरूपाणामसिद्धेः । अत्राहुः-उभयोरप्यच्त्वासिद्धये वर्णसमाम्नायऋलृक्सूत्रोत्तरं पाठः कर्तव्यः, तेन सर्वेष्टसिद्धिः । न च दीर्घत्वसिद्धावपि विवृतप्रयत्नसाम्यात्होतृ — ऌकार॑इत्यत्र ऋकारो दीर्घ एव स्यात्, न तु रेफद्वययुक्तो दीर्घ ति शङ्क्यम्, ऋकारद्वयस्थाने रेपद्वयवतः साम्येन कदाचित्तस्यापि पर्वृत्तेः ।होतृऌकार॑इत्यत्र ऌकारेण आन्तर्यात्कदाचिल्लकारद्वययुक्तः कदाचिहकारेण आन्तर्याद्दृकारश्च भवति । परं तु वार्तिकमतेहोतृऌकार॑इत्यत्ररेफद्वयगर्भो न भवति,प्रत्याख्यानपक्षे तु कदाचिद्भवतीति वैषम्यमस्ति, तत्रेष्टापत्तिर्वा, प्रत्याख्यानस्य प्रौढिवादमात्रता वा अभ्युपगन्तव्येति । अत्रेदं बोध्यम् — ॒अकः सवर्णे॑इति सूत्रस्थाभाष्येऋति ऋवा॑लृति लृवे॑त्येतन्न प्रत्याख्यातम्,तुल्यास्ये॑ति सूत्रस्थाभाष्ये तु तस्य प्रत्याख्यानेऽपि फलभेदे तदयोगात् । स्वीकृते तु तस्मिन्नकोऽकीत्येव सुवचमिति ग्रन्थोऽनुपपन्न एव । यदि तुऋति ऋवे॑ति वार्तिकम्,उॠ॑इतिऋवे॑ति पटएत, तदा वार्तिकयोः सवर्ण इति पदानुवृत्त्यनपक्षेणात्मुवचमेवाऽकोकीति । प्रकृतमनुसरामः, — ङौ तुऋतो ङि -॑इति गुणो लपरः । गमलि । गमल्ो#ः । गम्लृषु । एवं शक्लृशब्देऽप्यूह्रम् । इति लृदन्ताः । इति लृदन्ताः । सेरिति । अस्यापत्यमिः कामः, अस्य स्त्री ई=लक्ष्मीः । तेन तया वा सह वर्ततैति विग्रहेतेन सहेति तुल्ययोगे॑इति बहुव्रीहौवोपसर्जनस्ये॑ति सहस्य सभावेआद्गुणः॑ । सय इति । ननुसे॑इत्येकारस्य अन्तवद्भावेन पदान्तत्वादयादेशं बाधित्वा जसि परकतःएहः पदान्ता॑दिति पूर्वरूपमेकादेशः स्यात्, तथाचसे॑पित्येव रूपं स्यान्न तुसय॑इति चेदत्र केचित् — एवं तर्हिथासः से॑ईशः से॒इति विहितादेशस्यानुकरणशब्दोऽमस्तु, तत्र हि जसि परतोऽयादेशस्य निर्बाधत्वादिति । स्मृतेरिति । इः कामः स्मृतो येन सः, ई लक्ष्मीः स्मृता येनेति वा विग्रहः ।निष्ठे॑ति स्मृतशब्दस्य पूर्वनिपातः । स्मृतय इति । नन्वत्र पूर्वोक्तरीत्याएङः पदान्तादती॑ति पूर्वरूपेण भाव्यं न त्वयादेशेन, न ह्यत्रानुकरणशब्दत्वकल्पनमौचित्यं लभत इति चेदत्र नव्याः — ॒उत्तरपदत्वे चाऽपदादिविधौ प्रतिषेधः॑इति प्रत्ययलक्षणप्रतिषेधादेडः पदान्तादती॑त्यस्याऽप्रवृत्तिः । किंचस्वादिष्वसर्वनामस्थाने॒॑यचि भ॑ मित्यत्र भाष्यकृतैस्वादिषु पूर्वं पदसंज्ञं भवती॑ति व्याख्यातम् । ततश्चानेनसुप्तिङन्त॑मितिस्वादि॑ष्विति च द्विविधापि संज्ञा निषिध्यत इति पूर्वन्तत्वप्रयुक्ता पदान्ततेह दुर्लभेतिस्मृतय॑ — इति रूपं निर्बाधमेव । तथासय॑इत्यत्र॒इना सहे॑त्यादिव्युत्पत्तिपक्षेऽपि नानुपपत्तिः । न चैकारदेशस्य पूर्वनतत्वेनाव्ययत्वात्सुपो लुक् स्यादिति शङ्क्यम्, अव्ययसंज्ञाया अन्वर्थत्वेनोपसर्जने तदभावात् । न चैवमपिसहग इ॑इति स्थितेऽन्तरङ्गत्वाद्रुणे कृते सहशब्दस्य सादेश एव न स्यात्, एकादेशस्य पराविद्भावे सहशब्दस्य सभावः, तथापिस॑इत्यदन्तमेव रूपं स्यान्न तुसे॑ इत्येदन्तमिति शङ्क्यम्,नेन्द्रस्य परस्ये॑त्युत्तरपदवृद्धिपर्तिषेधेनपूर्वोत्तरपदयोः पर्थमं कार्यं भवति तत एकादेशः॑इति सामान्यज्ञापनादित्याहुः । Padamanjari ----------- नामित्येतस्य शास्त्रे क्वचिदप्यविहितत्वातत्परिज्ञानार्थमाह - नामिति षष्ठीबहुवचनमित्यादि । नामीति दीर्घपाठस्तु न समाचीनः । आगतनुट्कमिति । गत्यर्थत्वाद्रमेः कमणि कर्तरि वा क्तः । आगतो नुड।लेन आगतो वा नुड।ल्ं तदा गतनुट्कम् । अग्नीनामित्यादि । अकारन्तस्य तु सुपि चेति दीर्घः सिद्धः । एकर्तणामिति । नन्वण इति वर्तते तत्राह - अण इत्येतदिति । न तिसृचतसृ इति प्रतिषेधादिति भावः । उतरार्थमिति । नोपधायाः इति दीर्घत्वं सनुट्के आमि यथा स्यात् - पञ्चानाम्, सप्तानाम्, षट्चतुभ्यश्चेति नुट् चर्मणामित्यादावनुट्के मा भूत् । कृते च नुटि दीर्घत्वप्रतिपत्यर्थमिति । आगतनुट्कस्य ग्रहणमित्यनुषङ्गः । अन्यथा हीत्यादि । यद्यागतनुट्कस्य ग्रहणं न क्रियते, ततः अग्नि - आम् इति स्थिते दीर्घत्वं च प्राप्नोति, नुट् च परो नुट्, नित्यं दीर्घत्वम्, कृतेऽपि नुटिप्राप्रोत्यकृतेऽपि, ततो दीर्घे कृतेऽह्रस्वत्वान्नुडेव न स्यात्, योऽयं सिद्धान्ते निमितत्वेनोपादानादयत्नेन सिद्धो नुट्, स एव न स्यादित्येवशब्दस्यार्थः । ननु चाह चायं ह्रस्वान्तान्नुडिति , न च नित्यत्वाद्दीर्घे कृते क्वचिदपि ह्रस्वान्तमस्ति, तत एवं विज्ञास्यामः - भूतपूर्व यद् ह्रस्वान्तमिति, ननु चेदं सम्प्रति ह्रस्वान्तमस्ति, न तिसृचतसृ तिसृणाम्, एचतसृणाम् नैतदस्ति इह तावच्चतसृणामिति षट्चतुर्भ्यश्चेति नुट् सिद्धः तिसृणामित्यत्रापि ह्रस्वनद्यापो नुट् इत्यत्र त्रेस्त्रयः इत्यतस्त्रेरित्यनुवृतेरेव नुट् सिद्धः । यदा तर्हि नृ चेति दीर्घत्व प्रतिषधस्तदास्त्यवकाशः न चैकमुदारहणं योगारम्भं प्रयोजयति, यद्येतावत्प्रयोजनं स्यात् नृनद्यापो नुट् इत्येव ब्रूयात्, ह्रस्वग्रहणातु भूतपूर्वगतिविंज्ञायते । यद्येवम्, अस्थ्नाम्, दध्नाम्, अस्थिदधिसक्थ्यक्ष्णाम् त्यिनङ् कृतेऽइपि भूतपूर्वमेतद् ह्रस्वान्तमिति नुट् प्राप्नोति, ततश्च नोपधायाः इति दीर्घत्वे नलोपे च अस्थानामिति प्राप्नोति । यद्वा - यदा नुङ्विधौ भूतपूर्वगतिस्तदा नुण्नित्यो भवति, अनङ् त्वनित्य इति पूर्वं नुटि कृतिऽस्थीनामिति प्राप्नोति, द्विपदामित्यादौ पादस्य लोपे कृते नुट्प्रसङ्गः । एवम् पद्दन्नोमास् इत्यत्र ये ह्रस्वान्तस्यादेशास्तेष्वपि प्रसङ्गो योज्यः, तस्मान्न शक्यं भूतपूर्वगतिविज्ञानम् । यच्चोक्तम् - त्रेरित्यनुवृतेरेव तिसृणामित्यत्र नुट् सिद्ध इति तदप्यप्रमाणम्, न हि द्वयोरन्यतरस्य वाऽपेक्षायामसत्यां चकारे चासत्यनुवृत्तिः स्वध्यवसाना । तस्माद् - अन्यथा हि नुडेव न स्यादित स्थितिमेतत् । उक्त एवार्थे संग्रहश्लोकं पठिति । नामिदीर्घ इति । यदि नुटमकृत्वा आमीत्येव सूत्रं क्रियेतेत्यर्थः । वचनादिति । वचनसामर्थ्याद् भूतपूर्वगतिविज्ञायत इति भावः । यत्र तन्नास्तीति । तिसृणामित्यत्र यत्र दीर्घत्वं नास्ति स वचनस्यावकाश इत्यर्थः । नोपधायाश्चेति । चशब्दः समुच्चये ॥ Praudhamanorama --------------- **परिभाषाविरोधादिति।** एतच्च 'रुधादिभ्यः श्नम्' इति सूत्रे 'श्नान्नलोपः' इति सूत्रे च भाष्यकैयटयोः स्पष्टम्। **आरम्भसामर्थ्यादिति।** 'सुपि च' इत्यस्य तु न सामर्थ्यम्। रामाभ्यामित्यादौ सावकाशत्वादिति भावः। एवं च रामशब्दे 'नामि' इत्यस्योपन्यासो लेखकप्रमादादिति यदूचुस्तच्चिन्त्यम्। Prakriyasarvasvam ----------------- नामि परेऽजन्तस्याङ्गस्य दीर्घः स्यात् । हरीणाम् । कृष्णानामित्यत्र तु परत्वात् सुपि चेत्येवोक्तम् । हरि इ ॥ Sarala ------ (नामि परेऽजन्ताङ्गस्य दीर्घः स्यात्) । **नामि** - सप्तम्यन्तम् ॥ Sudha ----- **नामीति ।** **ढ्रलोपे पूर्वस्य दीर्घोऽणः**(6.3.111) इत्यतो दीर्घ इत्यनुवर्तते । दीर्घश्रुत्या च अच इत्युपस्थितम् । तेन चाङ्गं विशेष्यते । अतस्तदन्तविधिस्तदाह - **अजन्ताङ्गस्येत्यादिना । रामाणामिति ।** रामशब्दात् पष्ठीबहुवचनविवक्षायाम् आमि "राम आम्" अत्र **ह्रस्वनद्यापो नुट्**(7.1.54) इति नुटि टित्त्वादाद्यावयवे उकारटकारयोरित्संज्ञायां लोपे च "राम नाम्" इति जाते **नामि**(6.4.3) इति दीर्घे **अट्कुप्वाङ्नुम्व्यवायेऽपि**(8.4.2) इति णत्वे "रामाणाम्" इति सिद्धम् । **रामे इति ।** रामशब्दात्सप्तम्येकवचनविवक्षायां ङौ कृते **लशक्वतद्धिते**(1.3.8) इति ङकारस्येत्संज्ञायां लोपे च "राम इ" इति जाते तत्र **आद्गुणः**(6.1.87) इति गुणे "रामे" इति रूपम् । **रामयोरिति ।** रामशब्दात् सप्तमीद्विवचनविवक्षायाम् ओसि प्रत्यये "राम ओस" अत्र **ओसि च**(7.3.104) इत्यनेन एकारे तस्य अयादेशे च कृते परेण संयुक्ते "रामयोः" इति रूपम् ।