64001: अङ्गस्य

Padacheda: अङ्गस्य | S | 6 | 1 |

Sutrartha

अस्मात् सूत्रात् आरभ्य सप्तमाध्यायस्य अन्तपर्यन्तम् सर्वेषु सूत्रेषु ‘अङ्गस्य’ इति अध्याहारः कर्तव्यः ।

व्याकरणशास्त्र प्रयुक्तासु भिन्नासु संज्ञासु अन्यतमा अस्ति ‘अङ्गम्’ इति संज्ञा । यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् (1.4.13) अनेन सूत्रेण इयं संज्ञा दीयते । प्रक्रियायाम् अस्यैव अङ्गस्य यानि भिन्नानि परिवर्तनानि सम्भवन्ति, तेषाम् सर्वेषाम् सङ्कलनम् अस्मिन् अधिकारे कृतम् अस्ति । उदाहरणानि - 1) हलः (6.4.2) इत्यनेन उक्तः दीर्घादेशः अङ्गस्य दीर्घादेशः अस्ति । 2) ये च (6.4.109) इत्यनेन यकारादिप्रत्यये परे अङ्गस्य उकारस्य लोपः भवति । 3) नपुंसकस्य झलचः (7.1.72) इत्यनेन नपुंसकस्य अङ्गस्य नुमागमः विधीयते । 4) णौ चङ्युपधाया ह्रस्वः (7.4.1) इत्यनेन अङ्गस्य ह्रस्वादेशः भवति । आदयः । <note>अङ्गात् परस्य प्रत्ययस्य कार्याणि अपि अस्मिन्नेव अधिकारे विद्यन्ते, अत्र अत्र बहुषु स्थलेषु (आवश्यकं चेत्) ‘अङ्गस्य’ इति षष्ठ्यन्तम् पदम् ‘अङ्गात्’ इति पञ्चम्या अपि विपरिणम्यते । यथा, युवोरनाकौ (7.1.1) इत्यनेन उक्तौ अन-अक-आदेशौ ‘अङ्गात्’ परः विद्यमानस्य प्रत्ययस्य भवतः, न हि अङ्गस्य । अतः तत्र ‘अङ्गस्य’ इति पदम् पञ्चम्या विपरिणम्यते । </note>

Sutrartha (English)

In all the rules starting from this sutra till the end of the seventh chapter the word ‘अङ्गस्य’ should be included while interpreting the sutras.

Vasu English Summary

Whatever will be taught here after up to the end of the 7th अध्याय is consequent upon the अङ्ग (stem).

Vasu English Translation

Whatever will be taught here after up to the end of the 7th अध्याय is consequent upon the अङ्ग (stem). This is an adhikara sutra. Thus in (6.4.2) is taught the lengthening of the vowel of a samprasarana : as हूतः, जीतः, संवीतः ॥ That means that the vowel preceded by a consonant belonging to the stem is lengthened. Therefore in निर् + वेञ् + क्त = निरुक्तम्, the vocalised vowel उ is not lengthened, as निर् is upasarga and not stem. So दुरुतम् ॥ Similarly (6.4.3), teaches the lengthening of the final before नाम्, as अग्नीनाम्, वायूनाम् ॥ But क्रिमिणाम् पश्य, पामनां पश्य, as मि and म are not the end-portions of a stem. The stem is क्रिमिणा and पामना ‘a female having क्रिमि or पामन्’, formed by न affix (5.2.100). The forms क्रिमिणाम् and पामनाम् are Accusative Singular. Similarly (7.1.9) teaches that after अ, भिस् is changed into ऐस् ॥ As वृक्षैः, प्लक्षैः ॥ There also, the अ must be the अ final in an anga or stem : hence not here are ब्राह्मणभिस्सा, ओदनभिस्सदा, the भिस does not follow an anga. भिस्स means boiled rice and भिस्सदा means दधिः ॥

The maxim of अर्थवद्ग्रहणे नानर्थकस्य does not apply here; for had it been so, there would have been no necessity of making this sutra. For example, in the sutra नामि (6.4.3), the affix नाम् having a meaning would have been meant, and not any other नाम् ॥

The word अङ्गस्य must be read in the following sutras, otherwise there would arise incongruity : first; sutras teaching the lengthening of the vowel when सन् or Samprasarana follows, thus : (6.4.16) ordains the lengthening of vowel before सन्, as विवीषति; but not here दधि सनोति for इ of दधि is not that of anga. So also in Samprasarana, but not in निरुक्त &c as shown above.

2andly – For the purposes of एत्वं in sutra (6.4.68). The optional change of आ into ए must refer to anga, as ग्लेयात् or ग्लायात्, but not here निर्यायात् or निर्वायात्, for here र् is not part of the anga, and so र्य cannot be considered a conjunct part of anga.

3rdly – For the change of तु to तात् in (7.1.35). There also तु must be portion of the anga, and not the particle तु, therefore, जीवतु or जीवतात्, but hot here जीव तु त्वम् ॥

4thly – For the substitution of इयङ् and उवङ् in (6.4.77). Therefore not here श्यर्थम् and वर्यम् ॥

5thly – For the sake of नुट् augment in (7.1.54). But not here are कुमारी आमिति आह ॥

6thly – For the sake of shortening of vowels. Thus (7.4.13) ordains the shortening of अण् vowels before क ॥ It refers to the anga-vowel, as कुमारिका ॥ But not here, कुमारी कस्मै स्पृहयति or कुमार्याः कं सुखं = कुमारीकं ॥

And lastly for तत्व or त substitution. Thus (7.4.48) ordains the change of प् into त् in the case of अप् before भ ॥ It refers to anga, as अद्भिः ॥ But not here अद्भारः, for अप् here is not anga.

To sum up in Sanskrit : सन् सम्प्रसारण दीर्घत्वैत्वतातार्ङयङुवङ्नुट ह्रस्वत्व तत्वे च अङ्गस्येत्यधिकारे प्रयोजनं ॥

The word अङ्गस्य is in the Genitive case. But the force of Genitive is here not only that taught in (1.1.49) (स्थाने योगः), but of mere relation-ship. Or अङ्गस्य may be considered as a mere pratipadika, without any case-affix. In the subsequent aphorisms, it should be read with proper case-affixes as the exigencies of each sutra may require. Thus in अतो भिस ऐस् (7.1.9) अङ्ग should be read in the ablative case: अकारान्ताद् अङ्गाद् भिसः ऐस् ॥ The Genitive case has force of स्थानषष्ठी in sutras like हन्तेर्ज, where the whole of हन् is replaced (6.4.36). It has the force of अवयवषष्ठी in sutras like ऊदुपधाया गोहः (6.4.89). It has the force of निमित्तनिमित्ति सम्बन्धः in युवोरनाकौ (7.1.1). Or the Genitive case in अङ्गस्य may be changed into any other case, as already shown.

Bhashya

अङ्गस्य (2999) (अधिकारावधिनिर्णयाधिकरणम्) (अधिकारमर्यादाभाष्यम्) आ कुतोऽयमधिकारः ? आ सप्तमाध्यायपरिसमाप्तेरङ्गाधिकारः ॥ (मर्यादायां पक्षान्तरोपस्थापकभाष्यम्) यदि तर्ह्यासप्तमाध्यायपरिसमाप्तेरङ्गाधिकारः, गुणो यङ्लुकोः (7.4.82) इति यङ्लुग्ग्रहणं कर्तव्यम् । प्रागभ्यासविकारेभ्यः पुनरङ्गाधिकारे सति प्रत्ययलक्षणेन सिद्धम् । अस्तु तर्हि प्रागभ्यासविकारेभ्योऽङ्गाधिकारः ॥ (पक्षान्तरे दूषणपूर्वकं सिद्धान्तभाष्यम्) यदि प्रागभ्यासविकारेभ्योऽङ्गाधिकारः, वव्रश्च वकारस्य सम्प्रसारणं प्राप्नोति । आ सप्तमाध्यायपरिसमाप्तेः पुनरङ्गाधिकारे सति उरदत्वस्य स्थानिवद्भावात् न सम्प्रसारणे सम्प्रसारणम् (6.1.37) इति प्रतिषेधः सिद्धो भवति । स चेदानीमपरिहारो भवति यत्तदुक्तम् - ।अङ्गान्यत्वाच्च सिद्धम् इति । अस्तु तर्ह्या सप्तमाध्यायपरिसमाप्तेरङ्गाधिकारः । ननु चोक्तमिदानीं गुणो यङ्लुको - इति यङ्लुग्ग्रहणं कर्तव्यमिति । क्रियते न्यास एव ॥ (वार्तिकावतरणभाष्यम्) किं पुनरियं स्थानषष्ठी - अङ्गस्य स्थान इति ? एवं भवितुमर्हति ॥ (6419 स्थानषष्ठ्यां दोषवार्तिकम् ॥ 1 ॥) - अङ्गस्येति स्थानषष्ठी चेत्पञ्चम्यन्तस्य चाधिकारः - अङ्गस्येति स्थानषष्ठी चेत्पञ्चम्यन्तस्य चाधिकारः कर्तव्यः । अङ्गात् इत्यपि वक्तव्यम् । अनुच्यमाने हि - अतो भिस ऐस्भवतीति अत इति पञ्चमी, अङ्गस्येति स्थानषष्ठी, तत्राशक्यं विविभक्तिकत्वादत इति पञ्चम्याऽङ्गं विशेषयितुम् । तत्र को दोषः ? अतो भिस ऐस् इति अकारान्तात्परस्य भिस्मात्रस्यैस्भावो भवति -इति -इहापि प्रसज्येत ब्राह्मणभिस्सा, ओदनभिस्सटा -इति ॥ (6500 स्थानषष्ठ्यां दोषवार्तिकम् ॥ 2 ॥) - अवयवषष्ठ्यादीनां चाप्रतिपत्तिः - अवयवषष्ठ्यादयश्च न सिध्यन्ति । तत्र को दोषः ? शास इदङ्हलोः (6.4.34) इति शासेश्चान्त्यस्य स्यादुपधामात्रस्य च । ऊदुपधाया गोहः (6.4.89) इति गोहेश्चान्त्यस्य स्यादुपधामात्रस्य च ॥ (6501 दोषापोहवार्तिकम् ॥ 3 ॥) - सिद्धं तु परस्परं प्रत्यङ्गप्रत्ययसंज्ञाभावात् - सिद्धमेतत् । कथम् ? परस्परं प्रत्यङ्गप्रत्ययसंज्ञे भवतः । अङ्गसंज्ञां प्रति प्रत्ययसंज्ञा, प्रत्ययसंज्ञां प्रत्यङ्गसंज्ञा ॥ (वार्तिकावतरणभाष्यम्) किमतो यत्परस्परं प्रत्यङ्गप्रत्ययसंज्ञे भवतः ? (6502 स्थानषष्ठ्यां सिद्धान्तवार्तिकम् ॥ 4 ॥) - सम्बन्धषष्ठीनिर्देशश्च - सम्बन्धषष्ठीनिर्देशश्चायं कृतो भवति -अङ्गस्य यो भिस्शब्द इति । किञ्ञ्चाङ्गस्य भिस्शब्दः ? निमित्तम् । यस्मिन्नङ्गमित्येतद्भवति । कस्मिंश्चैतद्भवति ? प्रत्यये ॥ (दोषाक्षेपपरिहारभाष्यम्) एवमप्यवयवषष्ठ्यादयोऽविशेषिता भवन्ति । अवयवषष्ठ्यादयोऽपि सम्बन्ध एव ॥ एवमपि स्थानमविशेषितं भवति । स्थानमपि सम्बन्ध एव ॥ एवमपि न ज्ञायते - क्व स्थानषष्ठी, क्व विशेषणषष्ठीति ? यत्र षष्ठी अन्यं योगं नापेक्षते सा स्थानषष्ठी । यत्र ह्यन्ययोगमपेक्षते सा विशेषणषष्ठी ॥ (वार्तिकावतरणभाष्यम्) कानि पुनरङ्गाधिकारस्य प्रयोजनानि ? अङ्गाधिकारस्य प्रयोजनम् - (6503 अधिकारप्रयोजनवार्तिकम् ॥ 5 ॥) - सम्प्रसारणदीर्घत्वे - हल उत्तरस्य सम्प्रसारणस्य दीर्घत्वं भवति - हूतः, जीनः, संवीतः शूनः । अङ्गस्येति किम् ? निरुतम्, दुरुतम् ॥ (6504 प्रयोजनवार्तिकम् ॥ 6 ॥) - नाम्सनोर्दीर्घत्वे - प्रयोजनम् । नामि दीर्घो भवति - अग्नीनाम्, इन्दूनाम् । अङ्गस्येति किम् ? किमिणां पश्य, पामनां पश्य ॥ सनि दीर्घो भवति - चिचीषति, तुष्टूषति । अङ्गस्येति किमर्थम् ? दधि सनोति, मधु सनोति ॥ (6505 प्रयोजनवार्तिकम् ॥ 7 ॥) - लिङ्येत्वे - प्रयोजनम् । ग्लेयात्, म्लेयात् । अङ्गस्येति किमर्थम् ? निर्यायात्, निर्वायात् ॥ (6506 प्रयोजनवार्तिकम् ॥ 8 ॥) - अतो भिस ऐस्त्वे - प्रयोजनम् । वृक्षैः । प्लक्षैः । अङ्गस्येति किम् ? ब्राह्मणभिस्सा, ओदनभिस्सटा ॥ (6507 प्रयोजनवार्तिकम् ॥ 9 ॥) - लुङादिष्वडाटौ - प्रयोजनम् । अकार्षीत्, ऐहिष्ट । अङ्गस्येति किमर्थम् ? प्राकरोत्, अवैहिष्ट ॥ (6508 प्रयोजनवार्तिकम् ॥ 10 ॥) - इङुवङ्युष्मदस्मत्तातङामिनुडानेमुक्केह्रस्वयिदीर्घभितत्वानि - इयङुवङौ प्रयोजनम् । श्रियौ, श्रियः । भ्रुवौ, भ्रुवः । अङ्गस्येति किमर्थम् ? श्र्यर्थम्, भ्र्वर्थम् ॥ युष्मदस्मदोः प्रयोजनम् । साम आकम् (7.1.33) युष्माकम्, अस्माकम् । अङ्गस्येति किम् ? युष्मत्साम, अस्मत्साम ॥ तातङ् प्रयोजनम् । जीवतु जीवताद् भवान् । अङ्गस्येति किमर्थम् ? पच हि तावत्त्वं, पच तु तावत्त्वम् । जल्प हि तावत्त्वम्, जल्प तु तावत्त्वम् ॥ आमि नुट् प्रयोजनम् । किशोरीणाम्, कुमारीणाम् । अङ्गस्येति किमर्थम् ? कुमारी आमित्याह, किशोरी आमित्याह ॥ आने मुक् (7.2.82) प्रयोजनम् । यजमानः, पचमानः । अङ्गस्येति किमर्थम् ? प्राणः ॥ के ह्रस्वः प्रयोजनम् । कुमारिका, किशोरिका । अङ्गस्येति किमर्थम् ? कुमारीं कायति - कुमारीकः ॥ यि दीर्घः प्रयोजनम् । चीयते, स्तूयते । अङ्गस्येति किम् ? दधियानम्, मधुयानम् ॥ भि तत्वं प्रयोजनम् । अदि्भः, अद्भ्यः । अङ्गस्येति किमर्थम् ? अब्भारः, अब्भक्षः ॥ (वार्तिकावतरणभाष्यम्) नैतानि सन्ति प्रयोजनानि । कथम् ? (6509 प्रयोजनान्यथासिद्धिसाधकं वार्तिकम् ॥ 11 ॥) - अर्थवद्ग्रहणप्रत्ययग्रहणाभ्यां सिद्धम् - अर्थवद्ग्रहणप्रत्ययग्रहणाभ्यामेवैतानि सिद्धानि । क्वचित् अर्थवद्ग्रहणेनानर्थकस्य इत्येवं न भविष्यति, क्वचित् प्रत्ययाप्रत्यययोर्ग्रहणे प्रत्ययस्यैव ग्रहणं भवतीति ॥ अथवा प्रत्यय इति प्रकृत्याङ्गकार्यमध्येष्ये । यदि प्रत्यय इति प्रकृत्याङ्गकार्यमधीषे - प्राकरोत्, उपैहिष्ट - उपसर्गात्पूर्वमडाटौ प्राप्नुतः । ।सिद्धं तु प्रत्ययग्रहणे यस्मात्स तदादितदन्तविज्ञानात् । सिद्धमेतत् । कथम् ? प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य च ग्रहणं भवतीति, एवमुपसर्गात्पूर्वमडाटौ न भविष्यतः ॥

Kashika

अधिकारोऽयमा सप्तमाध्यायपरिसमाप्तेः। यदित ऊर्ध्वमनुक्रमिष्यामोऽङ्गस्येत्येवं तद् वेदितव्यम्। वक्ष्यति — हलः (६.४.२) — हूतः। जीनः। संवीतः। अङ्गस्येति किम्? निरुतम्। दुरुतम्। नामि (६.४.३) दीर्घः — अग्नीनाम्। वायूनाम्। अङ्गस्येति किम्? क्रिमिणां पश्य। पामनां पश्य। अतो भिस ऐस् (७.१.९) — वृक्षैः। प्लक्षैः। अङ्गस्येति किम्? ब्राह्मणभिस्सा। ओदनभिस्सिटा। अङ्गाधिकारः कृतोऽन्यार्थो नामि दीर्घत्वाद्यपि व्यवस्थापयतीति तदर्थम् अर्थवद्ग्रहणपरिभाषा (परि०१४) नाश्रयितव्या भवति। अङ्गस्येति संबन्धसामान्य एषा षष्ठी यथायोगं विशेषेष्ववतिष्ठते। अथवा प्रातिपदिकार्थमात्रमविवक्षितविभक्त्यर्थमधिक्रियते। तदुत्तरत्र यथायोगं विपरिणम्यते। ततोऽकारान्तादङ्गाद् भिस ऐसित्येवमाद्यपि सम्यक् संपन्नं भवति॥

Siddhanta Kaumudi

इत्यधिकृत्य ॥

Padamanjari

अधिकारोऽयमिति । स्वरितत्वात् । इह केचिन्मन्यन्ते - प्रागभ्यासविकारेभ्योऽयमङ्गाधिकारः । एवं हि गुणो यङ्लुकोः इत्यत्र लुग्प्रहणं न कर्तव्यं भवति, कथम् प्रत्ययलक्षणेनैव सिद्धम् । यदि त्वभ्यासविकारेऽप्ययमधिकारः स्यात्, ततोऽङ्गाधिकारविहितमिति न लुमताङ्गस्य इति प्रतिषेधः स्यादिति । वृत्तिकारस्तु मन्यते - यदि प्रागभ्यासविकारेभ्योऽङ्गाधिकारः, वव्रश्चेति वृश्चतेर्लिटि लिट।ल्भ्यासस्योभयेषाम् इति रेफस्य सम्प्रसारणे उरदत्वे हलादिशेर्षे च कृते वकारस्यापि सम्प्रसारणं प्राप्नोति, तस्य न सम्प्रसारणे सम्प्रसारणम् इति प्रतिषेध इष्यते, स न प्राप्नोति उरदत्वस्यासम्प्रसारणत्वात् । न च तस्य स्थानिवत्वम्, अपरनिमितत्वात् । आ सप्तमाध्यायपरिसमाप्तेः पुनरङ्गाधिकारे सत्युरदत्वं परिनिमितकं भवति, अङ्गेन स्वनिमितस्य प्रत्ययस्याक्षेपात् । यदष्युक्तम् - लुग्ग्रहणं न कर्तव्यं भवतीति, तदपि न न हि तत्राङ्गाधिकारविहितस्यैव प्रतिषेधः, कस्य तर्हि लुमता लुप्ते प्रत्यये वस्तुतो यदङ्गं तस्य पारप्तं यत्कार्यमाङ्गमनाङ्ग वा तस्य सर्वस्य प्रतिषेधः । तस्मादासप्तमाध्यायपरिसमाप्तेरयमङ्गाधिकारो युक्त इति । हूत इत्यादौ यजादित्वात्सम्प्रसारणम् । जीन इति । ग्रहिज्या इति सूत्रेण सम्प्रसारणम्, ल्वादिभ्यः इति निष्ठानत्वम् । निरुतम्, तुरुतमिति । घेञ् तन्तुसन्ताने, यजादिः, अत्राङ्गेऽनन्तर्भूतयोर्निर्दुरोरवयवौ यौ हलौ तदाश्रयं दीर्घत्वं न भवति । क्रिमिणामिति । क्रिमिपामन्शब्दाभ्यां मत्वर्थे पामादिभ्यो नः, पामनो नलोपः, स्त्रियां टाप्, द्वितीयैकवचनम् । अत्र नामिति समुदायस्याप्रत्ययत्वान्न तदपेक्षं पूर्वस्याङ्गत्वमिति नप्रत्ययापेक्षयाऽङ्गत्वेऽपि दीर्घत्वं न भवति, पामनामित्यत्र नलोपे कृतेऽजन्तत्वाद् दीर्घप्रसङ्गः । न च नलोपस्यासिद्धत्वम्, असुब्विधित्वात् । न ह्यस्यां दशायां दीर्घत्वं सुब्विधिर्भवति । अस्तु वाऽसिद्धत्वम्, नोपधायाः इति दीर्घत्वप्रसङ्गः । भिस्मा - ओदनः भिस्सदा- दिधि । ननु क्रिमिणामित्यत्र प्रत्ययस्यार्थवत्वेऽपि समुदायोऽनर्थकः, परस्परासम्बन्धात्, एवं भिस्साभिस्सदयोर्भिस्शब्दः, ततश्च अर्थवद्ग्रहणे नानर्थकस्य इत्येव न भविष्यति तत्राह - अङ्गा धिकार इत्यादि । सन्सम्प्रसारणदीर्घत्वैत्वतातङ्यिङ्वङ्नुरस्वत्वत्वे चाङ्गस्येत्यधिकारे प्रयोजनम् । सनि दीर्घः प्रयोजनम् - दधि सनोतीति दधिसेत्यत्र मा भूत् । सम्प्रसारणदीर्घत्वम् - निरुतम्, दुरुतभित्यत्र मा भूत् । एत्वम एर्लिङ् वान्यिस्य संयोगादेः निर्यायात्, निर्वायादित्यत्र मा भूत् । तातङ् - निपात्स्य तोर्मा भूत्, जीव तु त्वम् । इवणुवदृ - शयर्थम्, वर्थम् इत्यत्र मा भूत् । नुट् - ह्रस्वनद्यापो नुट्, कुमारी आमित्याहेत्यत्र मा भूत् । ह्रस्वत्वम् - केऽणः, कुमारी कस्मै स्पृहयति, कुमार्याः कं सुखं कुमारीकमित्यत्र मा भूत् । तत्वम् - अपो फिः अब्भार इत्यत्र मा भूदित्येवमर्थं कर्तव्योऽङ्गाधिकारः । सोऽन्यार्थः कृतो नामीत्यत्रापि दीर्घत्वं व्यवस्थापयति - अभिमते विषये नियमयति । अर्थवद्ग्रहणपरिभाषयेति । उपलक्षणमेतत् । अनने मुक्, प्राण इत्यत्र मा भूत्। अकृत्सार्वधातुकयोदीर्घः दधि यातमित्यत्र मा भूत् - इत्येवमर्थं लक्षणप्रतिपदोक्तपरिभाषा, नञिवयुक्तन्यायश्च नाश्रयितव्यो भवति । षष्ठी स्थानेयोगा इति वचनादङ्गस्येति स्थानषष्ठीयम्, ततश्च अतो भिस ऐस् इत्यत्रात इति पञ्चम्यन्तमङ्गस्येत्यस्य षष्ठ।ल्न्तस्य सामानाधिकरण्येन विशेषणं नोपपद्यते इत्यकारमात्रस्य ग्रहणात् ब्राह्मणभिस्सेत्यादावपि प्रसङ्गः । अवयवषष्ठ।लदीनां चाप्रसिद्धिः, ततश्च ऊदुपधायां गोहः अङ्गस्य इति स्थानषष्ठ।ल अन्त्येऽल्युपसंहाराद् गोहश्चान्त्यस्य स्यात्, उपधायाश्चेति वचनादुपधामात्रस्य च । एवं शास इदङ्हलोः इत्यादावपीत्याशङ्कायामाह - अङ्गस्येति सम्बन्धसामान्ये षष्ठीति । अयमभिप्रायः - अधिकारोऽयम्, स च परर्थः, षष्ठीस्थाने योगा इत्यपि परिभाषा परार्था, न च परार्थयोः परस्परं सम्बन्धोऽस्ति, यश्रोक्तम् - गुणानां च परार्थत्वादसम्बन्धः समात्वात्स्यात् इति, ततश्चाङ्गस्येति षष्ठी स्वभावप्रयुक्तं सम्बन्धसामान्यमेवार्थमभिधत इति । यथायोगमिति । यस्मिन्योगे यस्य सम्बन्धविशेषस्याभिव्यञ्जकमस्ति तस्मिन्योगे तत्रैव विशेषे पर्यवस्यतीत्यर्थः । एतद्यथा हन्तेर्जः त्यादिउ स्थानषष्ठी, ऊदुपधाया गोहः इत्यवयवषष्ठी, युवोरनाकौ इत्यादौ निमितनिमितिसम्बन्ध षष्ठी, लोकवत्, तद्यथा - लोके देवदतस्येत्यभेदेन प्रकृता षष्ठी- पुत्रः पाणिः कम्बल इति प्रतिसम्बन्धवशातत्रतत्र विशेषे पर्यवस्यति । अथ वेत्यादि । पूर्व विवक्षितोऽपि षष्ठ।ल्र्थः सामान्यरुप इत्युक्तम्, इदानी तु प्रयोगासाधुत्वायैव षष्ठयुच्चार्यते, न त्वर्थविवक्षयेत्युच्यते । अवश्यं च यया कयाचन विभक्तया निर्द्देष्टव्यम् । षष्ठ।ल्नुरोधस्तु बाहुल्येन तदर्थस्योपयोक्ष्यमाणत्वात् । यथायोगं विभक्तिषु विपरिणम्यत इति । लोकवदेव । तद्यया - उच्चानि देवदतस्य गृहाणि, आढ्यो वैधवेयो देवदतः, आमन्त्रयस्वैनं देवदतम्, किमनेन कृत्यं देवदतेनेति, तेन अतो भिस ऐस् इत्यत्र पञ्चम्या विपरिणामे सति अकारान्तदङ्गदित्ययमर्थे भवति । आदिशब्देन युष्मदस्मद्भ्यां ङ्सोऽश् इत्येवमादिर्गृह्यते । अपिशब्देनैतद्दर्शयति - न केवलं षष्ठ।ल्र्थ एव सस विशेषः सिध्यति, अपि तु पञ्चम्यर्थेऽपिति । पूर्वत्र तु पक्षे अतो भिस ऐस् इत्यत्र निमितनिमितिसम्बन्धे षष्ठी - अङ्गस्य निमितं यो भिस् । कश्चाङ्गस्य निमितम् यस्मिन्नङ्गमित्येतद्भवति । कस्मिंश्चैतद्भवति प्रत्यये ॥

Nyaas

अधिकारोऽयम् इति। स्वरितलिङ्गासङ्गात्। इह केचित्? प्रागभ्यासविकारेभ्योऽयमङ्गाधिकारो युक्त इति मन्यन्ते। एवं हि गुणो यङ्लुकोः (7.4.82) इत्यस्मिन्? सत्रे लुग्ग्रहणं न कर्तव्यं भवति; यङ्लुक्यापि प्रत्ययलक्षणेन गुणस्य सिद्धत्वात्। यदि पुनरा सप्तमाध्यायपरिसमाप्तेरयमङ्गाधिकारः स्यात्, ततोऽवश्यं लुग्ग्रहणं कर्तव्यम्, न ह्रन्यथा यङ्लुकि गुणः सिध्यति; न लुमताङ्गस्य (1.1.63) इति प्रतिषेधादित्येदं तेषामभिप्रायः। वृत्तिकारस्तु -यदि प्रागभ्यासविकारेभ्योऽयमङ्गाधिकारः स्यात्, ततो वव्रश्चेत्यत्र वृश्चतेर्लिटि द्विर्ववचने कृते हलादिशेषात्? प्राक्? सम्प्रसारणं पूर्वप्रतिषेधेन, उभयेषाम् इति वचनसामर्थ्याद्धापरमपि हलादिशेषं बाधित्वा सम्प्रसारणं स्यात्, ततश्च सम्प्रसारणाच्च (6.1.108) इति पूर्वरूपत्वे उरत् (7.4.66) इत्यत्त्वे रपरत्वे हलादिशेषे च कृते वकारस्यापि सम्प्रसारणं प्रसज्येत। आ सप्तमाध्यायपरिसमाप्तेः पुनरङ्गाधिकारे सति उरत् (7.4.66) इत्यस्य परनिमित्तत्वात्? प्रत्ययो निमित्तत्वेनाश्रीयते। तेन परनिमित्तत्वादुरदत्तवस्य सम्परसारणम्` (6.1.36) इति वकारस्य सम्प्रसारणं प्रतिषिध्यते। प्रागभ्यासविकारेभ्यः पुनरङ्गाधिकारे सत्यपरनिमित्तत्वा दुरदत्त्वसय स्थानिवद्भावो न स्यात्, ततश्च न सम्प्रसारणे सम्प्रसारणम् (6.1.37) इत्यस्य प्रतिषेधस्याभावाद्वकारसय समप्रसारणं स्यादेव। ततश्चोव्रश्चेत्यनिष्टं रूपं स्यात्। तस्मादा सप्तमाध्यायपरसमाप्तेरङ्गाधिकारो युक्तः, न तु प्रागभ्यासविकारेभ्य इति मन्यमान आह -आ सप्तमाध्यायपरिसमाप्तेः इति। सप्तमाध्यायपरिसमाप्तेस्तु परेण पदस्य (8.1.16) इत्यधिकृतय कार्यं विधीयते। तेन तत्राङ्गाधिकारो नानुवर्तते। ह्वेञ्? स्पर्धायाम् [ह्वेञ्? स्पर्धायां शब्दे च -धातुपाठः-] (धातुपाठः-1008) निष्ठा, यजादीत्वात्? सम्प्रसारणम्। जीनः इति। ` ज्या वयोहानौ` (धातुपाठः-1499) ग्रह्रादिसूत्रेण (6.1.16) सम्प्रसारणम्, ल्वादिभ्यः (8.2.44) इति निष्ठानत्वम्। संवीतः इति। व्येञ्? संवरणे (धातुपाठः-1007) वच्यादिना (6.1.15) सम्प्रसारणम्। निरुतम्, दुरुतम् इति। वेञ्? तन्तुसन्ताने (धातुपाठः-1006) पूर्ववत्? सम्प्रसारणम्। असत्यङ्गाधिकारे निर्दुरोरवयवो यो हल्? ततोऽप्युत्तरस्य सम्प्रसारणस्य दीर्घः स्यात्। अङ्गाधिकारे पुनरङ्गावयवो यो हल्? तदुत्तरं यत्? सम्प्रसारणं तदन्तस्याङ्गस्य दीर्घत्वं विज्ञायत इति न भवति दीर्घत्वप्रसङ्गः। न ह्यत्राङ्गावयवाद्धल उत्तरं सम्प्रसारणम्। अग्नीनाम् इति। ह्रस्वनद्यापो नुट् (7.1.54) । क्रिमिणां पश्य पामनां पश्य इति। क्रियमोऽस्यां सन्तीति, पामानोऽस्यां सन्तीति लोमादि (5.2.99) इत्यादिना नप्रत्ययः, ततष्टाप्, द्वितीयैकवचनम्। अमि पूर्वः (6.1.107) इति पूर्वरूपत्वम्। यद्यङ्गस्येति नाधिक्रियते, ततोऽत्रापि क्रिमिशब्दस्य पामशब्दसय च नामि परतो दीर्घत्वं स्यात्। अङ्गाधिकारे तु न दोषः, न ह्यत्र क्रिमिपामशब्दयोर्नामि परतोऽङ्गत्वमस्ति, अपि तु नप्रत्यये ब्राआहृणभिस्सा, ओदनभिस्सिटा इति। भिस्साभिस्सिटाशब्दौ टाबन्तौ। तत्रैक ओदनस्य वाचकः, अपरस्तु तद्दग्धिकायाः। ताभ्यां यथाक्रमं ब्राआहृणौदनशब्दयोः षष्ठीसमासः। तत्रासत्यङ्गाधिकारे अनङ्गाब्यामपि ब्राआहृणौदनशब्दाभ्यां परस्य भिस ऐस्भावः प्रसज्येत। ननु च तर्थवद्ग्रहणे नानर्थकस्य (व्या।प।1) इति वचनाद्यथा क्रिमिणां पश्य, पामनां पश्येत्यत्र दीर्घत्वं न भविष्यति, तथा ब्राआहृणभिस्सौदनभिस्सिटेत्यत्राप्यैस्भावः, न ह्यत्र नामोऽर्थवत्त्वम्, नापि भिसः, तत्? किं तन्निवृत्यर्थेनाङ्गाधिकारेण? इत्याह -अङ्गाधिकारः इत्यादि। नामिदीर्घत्वाद्यपि इत्यादि। आदशब्देन अतो भिस ऐस् (7.1.9) इत्यैस्? गृह्रते। इतिकरणो हेतौ। यस्मादसत्यङ्गाधिकारे हलः (6.4.2) इति दीर्घत्वं यथा हूतः जीन इत्यत्र भवति, तथा निरुतम्, दुरतमित्यत्रापि स्यात्। अज्झनगमां सनि (6.4.16) इति दीर्घत्वं यथा चिकीर्षतीत्यत्र भवति, तथा दधि सनोति, मधु सनोतीत्यत्रापि स्यात्। एर्लिङि (6.4.67) वान्यस्य संयोगादेः (6.4.68) इत्येत्त्वं यथा ग्लेयादित्यत्र भवति, तथा निर्यायात्? निर्वायादित्यत्रापि भवेत्। तस्मादेवमाद्यर्थोऽवश्यकर्तव्योऽङ्गाधिकारः। सोऽन्यार्थः क्रियमाणो नामि दीर्घत्वाद्यपि व्यवस्थापयति=विषयान्तराद्व्यावर्त्त्याभिमते विषये नियमति। तेन तदर्थमेषा परिभाषा नाश्रयितव्या भवति। अगत्या हि खलु परिभाषाऽऽश्रीयत इति भावः। ननु षष्ठी स्थानेयोगा (1.1.49) इति वचनादङ्गस्येति स्थानषष्ठीयम्, ततश्च अतो भिसाइस (7.1.9) इत्येतत्? पञ्चम्यन्तेनाङ्गस्येत्येतत्षष्ठन्तस्य समानाधिकरणत्वं न स्यात्; भिन्नविभक्तिकत्वात्। तथा च सत्यकारान्तात्? परस्य भिस्सेत्यत्रस्यैस्भावः प्रसज्येत ऊदुपघाया गोहः (6.4.89) इत्यत्र गोहः इत्यस्याः स्थानषष्ठआ अलोऽन्त्यस्य (1.1.52) इत्यन्तेऽल्युपसंहारादुपधागरहणसामर्थ्याच्छ गोहश्चान्त्यस्य स्यादूत्त्वम्। उपधामात्रस्य च शास इदङ्हलोः (6.4.34) इत्यत्रापि शास इति स्थानषष्ठीत्वेन विज्ञातायाः षष्ठआ अन्तेऽल्युपसंहारादुपधाग्रहणानुवृत्तिसामर्थ्याच्च शासश्चान्त्यस्येत्त्वम्, उपधामात्रस्य चेत्येतद्देश्यमपाकर्त्तुमाह -अङ्गस्येति सम्बन्धसामान्य एषा षष्ठी इत्यादि। सम्बन्धसामान्ये=अविशेषितसम्बन्धमात्रे। तत्रानेकसम्बन्धानुग्रहार्थमनाश्रितविशेषं सम्बन्धसामान्यमुपादाय प्रवृत्ता सत्युत्तरेषु भिन्नार्थेषु लक्षमवाक्येषु यथायोगं विशेषेष्ववतिष्ठते। सा क्वचित्? स्थाने योगा भवति, यथा हन्तेर्जः (6.4.36) इत्येवमादौ। क्वचिन्निमित्तनिमित्तिसम्बन्धविषया, यथा -युवोरनाकौ (7.1.1) इत्यादौ। यथैव हि देवदत्तस्येत्येका षष्ठभेदेन प्रवृत्ता ज्ञात्यवयवादिषु सम्बन्धभेदैर्भिद्यमाना जन्यजनकभावाद्यैः सम्बन्धविशेषे यथायोगमुपतिष्ठते -देवदत्तस्य पुत्रः पाणिः कम्बल इति, तथाङ्गस्येत्येषापि। तत्र यस्मिन्? वाक्ये शास इदङ्हलोः (6.4.34) इत्येवमादौ सम्बन्धिविशेषो विद्यते -अवयवोऽन्यो वा, तत्र यथायोगमवयवादिसम्बन्धे षष्ठी वेदतव्या। यत्र न विद्यते तत्र स्थाने षष्ठी, यथा -हन्तेर्जः (6.4.36) इतयवमादौ। कथं पुनरेषा सम्बन्धसामान्ये षष्ठीति लभ्यते, यावता षष्ठी स्थानेयोगा (1.1.49) इत्युक्तम्? एवं मन्यते -न हि सर्वा षष्ठी स्थानेयोगा भवति, अपि तु यस्याः कलादिकं लिङ्गं प्रतिज्ञायते; अन्यथा हि उदीचामातः साथाने इति स्थानग्रहणमनर्थकं स्यात्। तस्माद्विशिष्टैव या षष्ठी यस्याः कलादिकं लिङ्गं प्रतिज्ञायते सा स्थानेयोगेत्युक्तम्। न चास्याः कलादिकं लिङ्गं प्रतिज्ञायते। ततो नेयं स्थानेयोगा भवितुमर्हति। अथ वा इत्यादि। अङ्गशब्दस्य प्रातिपदिकस्य योऽर्थस्तन्मात्रधिक्रियते, न त्वेङ्स्येत्येतच्छब्दरूपम्। मात्रशब्दो विभक्त्यर्थव्यवच्छेदाय। अत एवाह -अविवक्षितविभक्त्यर्थम् इति। न विवक्षितो विभक्त्यर्थी यस्मिन्नर्थमात्रे तत्? तथोक्तम्। यतश्चेतदेवं तेन षष्ठी स्थानेयोगेति। नात्रेयं परिभाषोपतिष्ठते। अनेकसम्बन्धप्रसङ्गे हि सम्बन्धान्तरव्यवच्छेदार्थमेषा प्रणीता। ततो यत्र सम्बन्धो विवक्ष्यते तत्रैव नियमार्थमुपतिष्ठते, न चात्र कश्चित्? सम्बन्धः षष्ठआ विवक्षितः केवलं निर्देशार्थ एवास्याः प्रयोगः। अवश्यं हि यथा कयाचिद्विभक्त्या निर्देशः कर्तव्य इति षष्ठआं निर्देशः कृतः। ननु च स्वरितेनाधिकारः, स च शब्दधर्मः, नार्थधर्मः, तत्? कथं स्वरितरहितोऽर्थः शक्यतोऽधिकर्त्तुम्? नैष दोषः; अङ्गशब्दप्रतिपादितो योऽर्थः स शब्दात्मक एव। तथा हि यस्मात्? प्रत्ययविविस्तदादेः शब्दस्याङ्गसंज्ञा विहिता। तदुत्तरत्र यथायोगं विपरिणम्यते इत्यादि। अर्थवशात्? क्वचित्? षष्ठन्तत्वेनैव क्वचिद्विभक्त्यन्तरत्वेन, यथा -आढओ र्बधवेयो देवदेत्तः, उच्चान्यस्य गृहाणि, आमन्त्रयस्वैनं देवदत्तमिति। तेन अतो भिस ऐस्? (7.1.9) इत्यत्र पञ्चम्यन्ततया विभक्तिविपरिणामे हि सत्यकारान्तादङ्गादुत्तरस्य भिस ऐसादेशो भवतीत्येवमाद्यर्थरूपं सम्पन्नं भवति। आदिशब्देन युष्मदस्मद्भ्यामुत्तरस्य ङसोऽश्? भवतीति परिगृह्रते। पिशब्दादवयवषष्ठआदयोऽपि परिसम्पन्ना भवन्ति। पूर्वत्र तु परिहारे `अतो भिस्? ऐस् (7.1.9) इत्यत्रात्? इत्येषा निमित्तनिमित्तिसम्बन्दे षष्ठी द्रष्टव्या। तत्रायं सूत्रार्थः -अकारान्तस्याङ्गस्य यी भिस्? तस्यैस्भवतीति। तेन ब्राआहृणभिस्सेत्येवमादौ न भवति। अङ्गस्य हि को भिम्? यस्तस्य निमित्तम्। कस्तस्य पुनर्निमित्तम्? भिस्? परभूते यस्मिन्नङ्गमित्येषं भवति। कस्मश्चैतद्भवति? प्रत्यये। न च ब्राआहृणभिस्सेत्येवमादौ भिस्प्रत्यय इति कुतस्तस्यैस्प्रसङ्गः॥

Sutra Prayogas

  • सांराविणं (भट्टिकाव्यम्): इनण्यनपत्ये इति प्रकृतिभावः।