63138: चौ¶
Padacheda: चौ | S | 7 | 1 |
Sutrartha¶
लुप्त-अकार-नकारे अञ्च्-शब्दे परे पूर्वस्य अण्-वर्णस्य दीर्घादेशः भवति ।
अन्च् (गतौ) धातोः यदा क्विन्-प्रत्ययः भवति तदा अनिदितां हलः उपधायाः क्ङिति (6.4.24) इत्यनेन चकारात् पूर्वः यः नकारः तस्य लोपः जायते । अतः ‘अन्च् + क्विन्’ इत्यनेन ‘अच्’ इति प्रातिपदिकं सिद्ध्यति । एतादृशः लुप्तनकारः यः अन्च्-धातुनिर्मितः अच्-शब्दः, तदन्तम् यत् भसंज्ञकमङ्गम्, तस्य चकारात्-पूर्वस्य अकारस्य अपि अचः (6.4.138) इत्यनेन लोपः भवति । एतादृशः अकार-नकार-लुप्तः यः अञ्च्-शब्दः सः एव ‘चौ’ इत्यनेन अस्मिन् सूत्रे गृह्यते । एतादृशे चकारे परे पूर्वशब्दस्य अन्तिमस्वरस्य अनेन सूत्रेण दीर्घादेशः विधीयते । यथा - प्रति + अन्च् (गतौ) अस्मात् धातोः क्विन्-प्रत्यये कृते अग्रे अनिदितां हलः उपधायाः क्ङिति (6.4.24) अनेन नकारलोपे कृते ‘प्रति + अच्’ इति प्रातिपदिकं सिद्ध्यति । अस्मात् प्रातिपदिकात् तृतीयैकवचनस्य ‘टा’ प्रत्यये परे ‘प्रति + अच् + टा’ इत्यत्र यचि भम् (1.4.18) इत्यनेन अङ्गस्य भसंज्ञां कृत्वा अचः (6.4.138) इत्यनेन चकारात् पूर्वस्य अकारस्य लोपः विधीयते । ततः ‘प्रति + च् + टा’ अस्याम् स्थितौ चकारात् पूर्वः यः अण्-वर्णः (इकारः) तस्य वर्तमानसूत्रेण दीर्घादेशः भवति । अतः ‘प्रतीचा’ इति रूपम् सिद्ध्यति । ज्ञातव्यम् - अस्मिन् सूत्रे अण्-प्रत्याहारः पूर्वणकारेण गृह्यते । इत्युक्ते, अकार-इकार-उकाराणम् एव अस्मिन् प्रत्याहारे समावेशः भवति ।
Sutrartha (English)¶
When the अञ्च् word is in a state where its अकार and नकार have been removed, it causes the दीर्घ of the previous अण् letter.
Vasu English Summary¶
The final vowel of the preceding member is lengthened before अञ्च when it assumes the form च having lost its nasal and the vowel.
Vasu English Translation¶
The final vowel of the preceding member is lengthened before अञ्च when it assumes the form च having lost its nasal and the vowel. Thus दधीचः पश्य, दधीचा, दधीचे, मधूचः पश्य, मधूचा, मधूचे ॥ The nasal of अञ्च is elided by (6.4.24), and the अ by (6.4.138). In दधि + अच् the इ is not changed to its semivowel, though that is an antaranga rule, because the present sutra ordains specifically long ई, and so also दधी + अच् and मधू + अच् ॥ See also (6.3.92).
Bhashya¶
चौ (2997) (ज्ञापकत्वसंपादकभाष्यम्) इहान्ये आचार्याः - चौ प्रत्यङ्गस्य प्रतिषेधमाहुः, तदिहापि साध्यम् । नैष दोषः । एतदेव ज्ञापयत्याचार्यः - न चौ प्रत्यङ्गं भवतीति, यदयं चौ दीर्घत्वं शास्ति ॥
Kashika¶
चौ परतः पूर्वपदस्य दीर्घो भवति। चावित्यञ्चतिर्लुप्तनकाराकारो गृह्यते। दधीचः पश्य। दधीचा। दधीचे। मधूचः पश्य। मधूचा। मधूचे। अन्तरङ्गोऽपि हियणादेशो दीर्घविधानसामर्थ्याद् न प्रवर्तते॥
Siddhanta Kaumudi¶
लुप्ताकारनकारेऽञ्चतौ परे पूर्वस्याणो दीर्घः स्यात् । प्राचः । प्राचा । प्राग्भ्यामित्यादि । प्रत्यङ् । प्रत्यञ्चौ । प्रत्यञ्चः । प्रत्यञ्चम् । प्रत्यञ्चौ । अचेति लोपस्य विषयेऽन्तरङ्गोऽपि यण् न प्रवर्तते । अकृतव्यूहा इति परिभाषया । प्रतीचः । प्रतीचा । अमुमञ्चतीति विग्रहे अदस्-अञ्च् इति स्थिते ॥
Laghu Siddhanta Kaumudi¶
लुप्ताकारनकारेऽञ्चतौ परे पूर्वस्याणो दीर्घः। प्राचः। प्राचा। प्राग्भ्याम्॥ प्रत्यङ्। प्रत्यञ्चौ। प्रतीचः। प्रत्यग्भ्याम्॥ उदङ्। उदञ्चौ॥
Prakriyasarvasvam¶
लुप्तनकाराकारेऽञ्चतौ परे पूर्वस्य दीर्घः स्यात् । प्रतीची । एवं प्राची । समीची । सध्रीची । विष्वद्रीची । अदद्रीची । अमुमुइ अच् ई । अलोपदीर्घयोः कृतयोः अमुमुईची । यणादेशे कार्ये उत्वमत्वयोरसिद्धत्वान्न सन्धिः । एवमदमुईची ।
Sudha¶
चौ । **चजोः कु घिण्ण्यतोः**(7.3.52) इति निर्दशाच्चवर्गग्रहणं न भवतीत्याह - लुप्ताकारनकारेऽञ्चताविति । **ढ्रलोपे पूर्वस्य दीर्घोऽणः**(6.3.111) इति सूत्रात् अणो दीर्घ इत्यनुवर्तते, तदाह - अणो दीर्घ इति । प्राचः । ‘प्र अच् शस्’ इति स्थिते अत्र शस्येत्संज्ञायां लोपे च **यचि भम्**(1.4.18) इति भसञ्ज्ञायाम् **अचः**(6.4.138) इति अच अकारस्य लोपे **चौ**(6.1.222) इति प्र-अकारस्य दीर्घत्वे संयोगे सस्य रुत्वे रस्य विसर्गत्वे च ‘प्राच’ इति रूपम् । सर्वत्राजादौ विभक्तौ परे एवं क्रमः । प्राग्भ्याम् । प्राच् + भ्याम् अत्र पदसञ्ज्ञायाम् **क्विन्प्रत्ययस्य कुः**(8.2.62) इति कुत्वे प्राप्ते तस्यासिद्धत्वात् **चोः कुः**(8.2.30) इति कुत्वेन ककारे **झलां जशोऽन्ते**(8.2.39) इति गकारे ‘प्राग्भ्याम्’ इति रूपम् । प्राग्भिः । प्राचे । प्राचः, प्राचोः, प्राक्षु । प्रत्यङ् । ‘प्रति अन् च्’ इत्यवस्थायाम् **ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च**(3.2.59) इति क्विनि तस्य सर्वस्य लोपे **इको यणचि**(6.1.77) इति यणि **अनिदितां हल उपधायाः क्ङिति**(6.4.24) इति नस्य लोपे कृदन्तत्वात्प्रातिपदिकसञ्ज्ञायां सावागते **उगिदचां सर्वनामस्थानेऽधातोः**(7.1.70) इति नुमि उमि गते मित्वादन्त्यादचः परे हल्ङ्यादिना सुलोपे चकारस्य संयोगान्तलोपे नुमो नकारस्य **क्विन्प्रत्ययस्य कुः**(8.2.62) इति कुत्वेन ङकारे ‘प्रत्यङ्’ इति रूपम् । प्रत्यञ्चौ । प्रत्यच् + औ इति स्थिते **उगिदचां सर्वनामस्थानेऽधातोः**(7.1.70) इति नुमि, तन्नकारस्य अनुस्वारे तस्य परसवर्णे ञकारे मिलित्वा ‘प्रत्यञ्चौ’ इति रूपम् । एवं प्रत्यञ्चः । प्रत्यञ्चम्, प्रत्यञ्चौ । प्रतीवः । ‘प्रति अन् च् शस्’ इत्यवस्थायाम् **अनिदितां हल उपधायाः क्ङिति**(6.4.24) इति नलोपे कृते शकारस्येत्संज्ञायां लोपे च **यचि भम्**(1.4.18) इति भसञ्ज्ञायाम् **अचः**(6.4.138) इत्यकारलोपे **चौ**(6.1.222) इति पूर्वस्याणो दीर्घत्वे सस्य रुत्वे रेफस्य विसर्गत्वे च ‘प्रतीचः’ इति रूपम् । प्रत्यग्भ्याम् । ‘प्रति अन् च् भ्याम्’ इत्यत्र **अनिदितां हल उपधायाः क्ङिति**(6.4.24) इति न लोपे ‘इको यणचि’ इति यणि **चोः कुः**(8.2.30) इति कुत्वे ‘प्रत्यग्भ्याम्’ इति रूपम् । एवं प्रत्यग्भिः । प्रतीचे, प्रतीचः । प्रतीचोः । प्रतीचाम् । प्रतीचि । प्रत्यक्षु । उदङ् । ‘उद् अन् च सु’ इति स्थिते, **अनिदितां हल उपधायाः क्ङिति**(6.4.24) इति न् लोपे **उगिदचां सर्वनामस्थानेऽधातोः**(7.1.70) इति नुमि, हल्ङ्यादिना सुलोपे संयोगान्तलोपे कुत्वे च ‘उदङ्’ इति रूपम् ।
Sutra Prayogas¶
सध्रीचा (शिशुपालवधम्): चौ इति दीर्घः।
नीचि (शिशुपालवधम्): चौ इति दीर्घः।
विष्वद्रीचीर् (शिशुपालवधम्): चौ इति दीर्घः।
प्रत्यगियाय (भट्टिकाव्यम्): चौ इति दीर्घत्वं च।