63130: मित्रे चर्षौ¶
Padacheda: मित्रे | S | 7 | 1 |
च | S | 0 | 0 |
ऋषौ | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The final vowel of विश्व is lengthened before मित्र when it is the name of a ऋषि।
Vasu English Translation¶
The final vowel of विश्व is lengthened before मित्र when it is the name of a ऋषि। As विश्वामित्रः ‘the sage Visvamitra’. But विश्वमित्रः ‘a boy called Visvamitra’.
Kashika¶
मित्रे चोत्तरपद ऋषावभिधेये विश्वस्य दीर्घो भवति। विश्वामित्रो नाम ऋषिः। ऋषाविति किम्? विश्वमित्रो माणवकः॥
Siddhanta Kaumudi¶
विश्वामित्रः । ऋषौ किम् । विश्वमित्रो माणवकः ।<!शुनो दन्तदंष्ट्राकर्णकुन्दवराहपुच्छपदेषु दीर्घो वाच्यः !> (वार्तिकम्) ॥ श्वादन्तः इत्यादि ॥
Balamanorama¶
मित्रे चर्षौ - मित्रे चर्षौ । मित्रशब्दे परे विआस्य दीर्घः स्यादृषौ वाच्ये इत्यर्थः । शुनो दन्तेति । आन्शब्दस्य दन्तादिषु परतो दीर्घ इत्यर्थः । आआदन्त इति । शुनो दन्त इति विग्रहः । आआदंष्ट्रा । षष्ठीसमासः ।दीर्घान्त एव दंष्ट्रशब्दो वार्तिके पठत इति केचित् । ह्रस्वान्त इत्यन्ये । आआदंष्ट्रः । बहुव्रीहिरयम् । आआकर्णः, आआकुन्दः, आआवराहः, आआपुच्छं, आआपदः ।आपुच्छमवनामित॑मित्यसाध्वेव ।
Nyaas¶
अबह्वर्थोऽयमारम्भः। शरावती इति। नद्यां मतुप् (4.2.85) इति मतुप्॥
Prakriyasarvasvam¶
विश्वं मित्रमस्येति विश्वामित्र ऋषिः । ‘अन्येषामपि दृश्यते’ (६-३-१३७) इति दीर्घेण पुरुषः पूरुष इत्यादि । शुनो दन्तदंष्ट्राकर्णकुट्टवराहपुच्छपदेषु । शुनो दन्तः श्वादन्तः । श्वादंष्ट्रा । श्वादंष्ट्र इति बहुव्रीहिरित्यन्ये । श्वाकर्णः । श्वाकुट्टः । कर्मण्यण् णञ्वा । श्वावराहौ । श्वापुच्छः । श्ववत् पदमस्येति श्वापदः । श्ववराह- कलहन्यायेनेत्यत्र तु शुनां वराहकलह इति समासः ।