63129: नरे संज्ञायाम्

Padacheda: नरे | S | 7 | 1 |

संज्ञायाम् | S | 7 | 1 |

Sutrartha


Vasu English Summary

The final vowel of विश्व is lengthened before नर when the compound is a Name.

Vasu English Translation

The final vowel of विश्व is lengthened before नर when the compound is a Name. Thus विश्वानरः, वैश्वानरिः (the son of Vishvanara). But विश्वनरः = विश्वे नरा यस्य when it is not a name.

Kashika

नरशब्द उत्तरपदे संज्ञायां विषये विश्वस्य दीर्घो भवति। विश्वानरो नाम यस्य वैश्वानरिः पुत्रः। संज्ञायामिति किम्? विश्वे नरा यस्य स विश्वनरः॥

Siddhanta Kaumudi

विश्वानरः ॥

Balamanorama

नरे संज्ञायाम् - नरे संज्ञायाम् । ‘विश्वस्य दीर्घ’ इति शेषः ।विश्वस्य वसुराटोरिति पूर्वसूत्राद्विश्वस्येत्यनुवर्तते ।

Nyaas

व्रीहिमती इत्यादौ पूर्ववन्मतुप्। वलयवती इत्यत्र तु तदस्यास्त्यस्मिन्निति मतुप् (5.2.94) ॥

Prakriyasarvasvam

विश्वानरः कश्चित् ।।