63126: छन्दसि च =============== **Padacheda:** छन्दसि | S | 7 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- In the छन्दस् (Vedas) also, the long vowel is substituted for the final of अष्टन् before a second member. Vasu English Translation ------------------------ In the छन्दस् (Vedas) also, the long vowel is substituted for the final of अष्टन् before a second member. Thus आग्नेयमष्टाकपालं निर्वपेत्, अष्टाहिरण्या दक्षिणा, अष्टापदी देवता सुमती ॥ The form अष्टापदी is the feminine in ङीप् (4.1.8) of अष्टपात् (5.4.138) the अ of पाद being elided in a *Bahuvrihi*)), पद् being substituted for पात् by (6.4.130). Vart:- The final of अष्टन् is lengthened before गो even in the vernacular, when yoking is meant. Thus अष्टागवं शकटम् ॥ Kashika ------- छन्दसि विषयेऽष्टन उत्तरपदे दीर्घो भवति। आ॒ग्ने॒य॑म॒ष्टा॑क॒पालं॒ नि॑र्व॒पेत् (मै०सं० २.१.३)। अष्टाहिरण्या दक्षिणा। अष्टापदी देवता सुमती। अष्टौ पादावस्या इति बहुव्रीहौ पादस्य लोपे (५.४.१३८) कृते **पादोऽन्यतरस्याम्** (४.१.८) इति ङीप्॥ गवि च युक्ते भाषायामष्टनो दीर्घो भवतीति वक्त व्यम्॥ अष्टागवं शकटम्॥ Siddhanta Kaumudi ----------------- अष्टन आत्वं स्यादुत्तरपदे । अष्टापदी (अ॒ष्टाप॑दी) ॥ Padamanjari ----------- अष्टाकपालमिति । आन्महतः इत्यत्राष्टनः कपाले हविषीति अष्टागवं शकटमिति च व्युत्पादितम्, इदं तु व्युत्वतिविकल्पप्रदर्शनार्थमात्वं वा, दीर्घो वेति ॥ Nyaas ----- `णह बन्धने` (धातुपाठः-1166)। उपनह्रत इति `उपानत्` सम्पदादित्वात्? क्विप्? `नहो धः` (8.2.34) इति धत्वम्, ततो जश्त्वम्, चर्त्वञ्च। परिणह्रतीति `परिणत्`। `#उपसर्गादसमासे` (8.4.14) इत्यादिना णत्वम्। निवर्तत इति `नीवृत्`। **अन्येभ्योऽपि दृश्यते** (3.3.130) इति क्विप्। एवमुत्तरत्रापि क्विबेव वेदितव्यः। `वृषु सेचने` (धातुपाठः-706) प्रवर्षतीति `प्रावृट्`। षकारस्य जश्त्वम् -डकारः, तस्य चर्त्वेटकारः। `व्यध ताडने` (धातुपाठः-1181), मर्माणि विध्यतीति `मर्मावित्` ग्रह्रादिसूत्रेण (6.1.16) सम्प्रसारणम्। `रुच दीप्तौ` [`रुच दीप्तावभिप्रीतौ च` -धातुपाठः-] (धातुपाठः-745), निरोचणं `नीरुक्`। **चोः कुः** (8.2.30) इति कुत्वम्। ऋतिं सहत इति `ऋतीषट्`। `सहेः पृतनर्ताभ्याञ्ज` (8.3.109) इत्यत्र `सहेः` इति योगविभागादनुक्तसमुच्चयार्थत्वाद्वा चकारस्य षत्वम्। परितनोतीति `परीतत्`। अनुनासिकलोपे कृते तुक्।केन पुनरत्रानुनासिकलोपः? इत्याह -`गमः क्वौ` इत्यादि। गतिकारकयोरेवेष्यत इति। तदर्थम्? **विभाषा पुरुषे** (6.3.106) इत्यतो विभाषाग्रहणनुवर्तते, सा च व्यवस्थितविभाषा विज्ञेया॥ Prakriyasarvasvam ----------------- अष्टन उत्तरपदे परे दीर्घः स्यात् । अष्टापदी नवपदी । अत्र 'पादोऽन्यतर- स्याम्' (४-१-८) इति ङीप् । पादः पत् (६-४-१३०) । अत्र संहिताधिकारे सत्यपि दीर्घान्तमेवागृह्णन्ति । Vartika ------- भाषायामाष्टनो दीर्घो भवतीति वक्तव्यम् ।