63123: इकः काशे¶
Padacheda: इकः | S | 6 | 1 |
काशे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
A preposition ending in इ or उ lengthens its final before काश।
Vasu English Translation¶
A preposition ending in इ or उ lengthens its final before काश। As नीकाशः, वीकाशः, अनूकाशः ॥ काश is formed by अच् (3.1.134). Why do we say ‘ending in इ or उ’? Observe प्रकाशः where the Preposition does not end in इक् ॥
Kashika¶
इगन्तस्योपसर्गस्य काशशब्द उत्तरपदे दीर्घो भवति। नीकाशः। वीकाशः। अनूकाशः। पचाद्यच्प्रत्ययान्तोऽयं काशशब्दो न तु घञन्तः। इक इति किम्? प्रकाशः॥
Siddhanta Kaumudi¶
इगन्तस्योपसर्गस्य दीर्घः स्यात्काशे । वीकाशः । नीकाशः । इकः किम् । प्रकाशः ॥
Balamanorama¶
इकः काशे - इकः काशे । नीकाश इति । पचाद्यजन्तत्वात्पूर्वेण न प्राप्तिः ।
Padamanjari¶
पचाद्यच्प्रत्ययान्तोऽयं काशशब्द इति । नघञन्तः, तत्र पूर्वेणैव सिद्धम् । यथा निगमे - प्राकाशावध्वर्यवे ददातीति । इको वहेऽपीलोः इत्यत्र पूर्वपदमात्रस्येष्यते, इह तूपसर्गस्य तेन द्विरिक इत्युक्तम् ॥
Nyaas¶
साढ्वेत्यादौ ओत्त्वाभावो निपात्यते। दीर्घस्तु ढ्रलोपे पूर्वस्य दीर्घोऽणः (6.3.111) इत्यादिनैव सिद्धः॥
Prakriyasarvasvam¶
इगन्तोपसर्गस्य काशे परे दीर्घः । नीकाशः । प्रतीकाशः । पचायच् । बहुलानुवृत्तेर्निकाशः ।
Sutra Prayogas¶
आसक्तभरनीकाशैः (किरातार्जुनीयम्): इकः काशे इति दीर्घः।