63124: दस्ति

Padacheda: दः | S | 6 | 1 |

ति | S | 7 | 1 |

Sutrartha


Vasu English Summary

A preposition ending in इ or उ lengthens its final before the verb दा when the latter is changed to त।

Vasu English Translation

A preposition ending in इ or उ lengthens its final before the verb दा when the latter is changed to त। Thus नीत्तम्, वीत्तम्, परीत्तम् ॥ See (7.4.47) for the change of दा to त ॥ But प्रत्तम्, अवत्तम्, where the prepositions do not end in इ or उ ॥ Why do we say ‘दा is changed to त’? Observe वितीर्णम् नितीर्णम् ॥ Why do we say ति ‘a substitute of दा, beginning with a त’? Observe सुदत्तम्, here दद् is the substitute of दा (7.4.46).

Bhashya

दस्ति (2983) (पक्षद्वयोपस्थापकं भाष्यम्) कथमिदं विज्ञायते -दा इत्येतस्य -तकारादाविति, आहोस्वित्तकारान्त इति । किञ्ञ्चातः ? यदि विज्ञायते -तकारादाविति, नीत्ता -वीत्ता -अत्र न प्राप्नोति । अथ विज्ञायते -तकारान्त इति, सुदत्तं -प्रतिदत्तं -अत्रापि प्राप्नोति ॥ (सिद्धान्तभाष्यम्) यथेच्छसि तथाऽस्तु । अस्तु तावत्तकारादाविति । कथं नीत्ता वीत्ता ? चर्त्वे कृते भविष्यति । असिद्धं र्चत्वं तस्यासिद्धत्वान्न प्राप्नोति । आश्रयात्सिद्धत्वं भविष्यति ॥ अथवा पुनरस्तु तकारान्त इति । कथं सुदत्तं प्रतिदत्तम् ? नैतत्तकारान्तं किं तर्हि ? थकारान्तमेतत् ॥

Kashika

दा इत्येतस्य यस्तकारादिरादेशस्तस्मिन् परत इगन्तस्योपसर्गस्य दीर्घो भवति। नीत्तम्। वीत्तम्। परीत्तम्। अच उपसर्गात् तः (७.४.४७) इत्यन्तस्य यद्यपि तकारः क्रियते, तथापि चर्त्वस्याश्रयात् सिद्धत्वमिति तकारादिर्भवति। इक इत्येव — प्रत्तम्। अवत्तम्। द इति किम्? वितीर्णम्। नितीर्णम्। तीति किम्? सुदत्तम्॥

Siddhanta Kaumudi

इगन्तोपसर्गस्य दीर्घः स्याद्दादेशो यस्तकारस्तदादावुत्तरपदे । खरिच (SK121) इति चर्त्वमाश्रयात्सिद्धम् । नीत्तम् । सूत्तम् । घुमास्था (SK2462) इतीत्वम् । धेट् । धीतम् । गीतम् । पीतम् । जनसन - (SK2504) इत्यात्वम् । जातम् । सातम् । खातम् ॥

Balamanorama

दस्ति - दस्ति । ‘इकः काशे’ इत्यत इक इति,उपसर्गस्य घञ्यमनुष्ये॑ इत्यत उपसर्गस्येति , ‘ढ्रलोपे’ इत्यतो दीर्घ इति चानुवर्तते । उत्तरपदे इत्यधिकृतं तीत्यनेन विशेष्यते । तदादिविधिः । द इति षष्ठी ति इत्यत्रान्वेति । तथा च दाधातोरादेशो यस्तकारस्तदादौ उत्तरपदे इति लभ्यते । तदाह — इगन्तत्यादि । ननु नि दात त इति स्थिते ‘अच उपसर्गात्तःर’ इति दकारादाकास्य तकारे दकारस्यखरि चे॑ति चर्त्वे प्रकृतसूत्रेण उपसर्गस्य दीर्घे नीत्त्मिति रूपं वक्ष्यति, तदयुक्तम्, दीर्घे कर्तव्ये चत्त्र्वस्याऽसिद्धत्वे दादेशे तकाराद्युत्तरपदत्वाऽभावादित्यत आह — चत्त्र्वमाश्रयात्सिद्धमिति । दादेशतकारमाश्रित्य विधियमाने दीर्घे चर्त्वं नाऽसिद्धं, चर्त्वसिद्धं तकारमाश्रित्य विधिबलादित्यर्थ- । सूत्तमिति तु चिन्त्यम्,गतिश्चे॑ति सूत्रभाष्यवार्तिकयोः सुदत्तमित्यत्र ‘अच उपसर्गात्तः’ इति तत्वे कर्तव्ये सोरुपसर्गत्वं नेति प्रपञ्चितम् । अथ धेङ्गापाधुतभ्यः क्ते आह — घुमास्थेति । धीतमिति । ‘दधातेर्हिः’ इत्यत्र श्लुविकरणग्रहणान्न हिभावः ।

Tattvabodhini

दस्ति - दस्ति ।इकः काशे॑ इत्यतइक॑ इति,उपसर्गस्य घञी॑त्यत उपसर्गस्येति,ढ्रलोपे पूर्वस्ये॑त्यतो दीर्घ इति चानुवर्तते ।अलुगुत्तरपदे॑ इत्यतोऽनुवृत्तस्योत्तरपदे इत्यस्य तीति विशेषणं ।यस्मिन्विधि॑रिति तदादिविधिः, तदेतत्सकलमभिप्रेत्य व्याचष्टे — इगन्तोपसर्गस्येत्यादिना । ननु चत्त्र्वस्याऽसिद्धत्वाद्दादेशतकारो नास्तीत्यत आह — आश्रयात्सिद्धमिति ।अतो रो॑रित्युत्वं प्रति रुत्ववदिति भावः । धीतमिति ।दधातेर्हि॑रित्यत्र लुग्विकरणस्य निर्देशात् घेट् पान इति भ्वादेर्हिर्न भवति, नापि दत्दो दद्धो॑रिति द इत्युपादानादिति भावः ।

Padamanjari

दा इत्येतस्यादि । अत्र तकारादिशब्दः कर्मधारयः । तस्मिन्परत इति । यस्मिन्विधिस्तदादौ इति वचनातदादावुतरपदे परत इत्यर्थः । दा इत्येतस्य सम्बन्धी यस्तकारस्तदादावुतरपदे दीर्घ इत्येषोऽर्थो विवक्षितः । नीतमिति । ननु चात्र तकार आदिर्न भवति, यस्तावद् अच उपसर्गातः इति तकारः स अलोऽन्त्यस्य इत्यन्तस्य क्रियते, योऽपि दकारस्य खरि चेति तकारः, सोऽप्यस्मिन्दीर्घे कर्तव्येऽसिद्धः अत आह - अच उपसर्गात इत्यादि । उच्यते चेदं तकारादावुतरपद तैति । यदि चर्त्वमसिद्धं स्याद्, दीर्घविधिरनर्थकः स्यात्, अत आश्रयात्सिद्धं चर्त्वम् । तेन तकार आदिरुतरपदस्य सम्भवतीत्यर्थः । यद्यपीति । अनेनैतद्दर्शयति - द्वितकारपक्षस्याश्रयणे न किञ्चिद्वक्तव्यमिति । सुदतमिति ॥ अवदतं विदतं च प्रदतं चादिकर्मणि । सुदतमनुदतं च निदतं चेति चेष्यते ॥ इत्यनयेष्ट।लऽत्र ददादेशः ॥

Nyaas

उत्तरपदे (6.3.1) इति वर्तते उत्तरपदं च समासे भवति, तत्र चान्तरेणापि वचनं नित्यमेव संहितया भवितव्यम्, तस्मादुत्तरपदे परतो वक्ष्यमाणानां यत्? कार्यं न तदर्थताधिकारस्योपपद्यत इति यदनुत्तरपदे कार्यं तदर्थमेवायमधिकारः। तेन यैर्योगैरुत्तरपदे कार्यं विधीयते तानुल्लङ्घ्य तेन योगेनानुत्तरपदे कार्यं विधीयते तत्रास्योपयोगं दर्शयन्नाह -वक्ष्यति द्व्यचोऽतस्तिङः इत्यादि। विद्मा हि त्वा इत्यादि। विदेर्लोटि मसः स उत्तमस्य (3.4.98) इति सकारलोपः, अदादित्वाच्छापो लुक्॥

Prakriyasarvasvam

दाधातोस्तकारे परे इगन्तोपसर्गस्य दीर्घः स्यात् । परीत्तम् अनूत्तम् । ‘सुविन्ववानुभ्यः क्ते चे’ति तत्वविकल्पमाह भोजः । सुदत्तं सूत्तमित्यादि । ‘प्रादादिकर्मणी’ति च । दातुमारब्धम् । प्रदत्तं प्रत्तं वा । अन्यत्र प्रत्तमेवेति ॥