63122: उपसर्गस्य घञ्यमनुष्ये बहुलम्¶
Padacheda: उपसर्गस्य | S | 6 | 1 |
घञि | S | 7 | 1 |
अमनुष्ये | S | 7 | 1 |
बहुलम् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The final vowel of a preposition is diversely lengthened before a word formed by the कृत् affix घञ् but not when the compound denotes a human being.
Vasu English Translation¶
The final vowel of a preposition is diversely lengthened before a word formed by the कृत् affix घञ् but not when the compound denotes a human being. Thus नीक्लेदः, वीमार्गः, अपामार्गः ॥ It does not take place, as प्रसेचः, प्रसारः ॥ It is lengthened before साद and कार, when building is meant, as प्रासादः and प्राकारः, otherwise प्रसादः and प्रकारः ॥ Optionally in वेश &c. as प्रतिवेशः or प्रतीवेशः, प्रतिरोधः or प्रतीरोधः ॥ When human beings are meant, there is no lengthening, as निपादो मनुष्यः ॥
Bhashya¶
उपसर्गस्य घञ्ञ्यमनुष्ये बहुलम् (2981) (उपसंख्यानभाष्यम्) अमनुष्यादिष्विति वक्तव्यम् । इह मा भूत् - प्रसेवः, प्रसारः, प्रहारः ॥ (6496 उपसंख्यानवार्तिकम् ॥ 1 ॥) - सादकारयोः कृत्रिमे - सादकारयोः कृत्रिम इति वक्तव्यम् । इहैव यथा स्यात् - एषोऽस्य प्रासादः । एषोऽस्य प्राकारः । कृत्रिम इति किमर्थम् ? एषोऽस्य प्रकारः । एषोऽस्य प्रसाद इति ॥ (6497 उपसंख्यानवार्तिकम् ॥ 2 ॥) - प्रतिवेशादीनां विभाषा - प्रतिवेशादीनां विभाषा दीर्घत्वं वक्तव्यम् । प्रतिवेशः, प्रतीवेशः । प्रतिकारः, प्रतीकारः ॥
Kashika¶
उपसर्गस्य घञन्त उत्तरपदेऽमनुष्येऽभिधेये बहुलं दीर्घो भवति। वीक्लेदः। वीमार्गः। अपामार्गः। न च भवति — प्रसेवः। प्रसारः॥ सादकारयोः कृत्रिमे दीर्घो भवति॥ प्रासादः। प्राकारः। कृत्रिम इति किम्? प्रसादः। प्रकारः॥ वेशादिषु विभाषा दीर्घो भवति॥ प्रतिवेशः, प्रतीवेशः। प्रतिरोधः, प्रतीरोधः। अमनुष्य इति किम्? निषादो मनुष्यः॥
Siddhanta Kaumudi¶
उपसर्गस्य बहुलं दीर्घः स्याद्घञन्ते परे नतु मनुष्ये । परीपाकः । परिपाकः । अमनुष्ये किम् । निषादः ॥
Balamanorama¶
उपसर्गस्य घञ्यमनुष्ये बहुलम् - उपसर्गस्य । परीपाक इति । पचेर्भावे घञ्, उपधावृद्धिः ।चजोः कु घिण्ण्यतो॑रिति कुत्वम् । निषाद इति । पुलिन्दो नाम मनुष्यजातिविशेषः । निषीदत्यस्मिन् पापमिति निषादः ।हलश्चे॑त्यधिकरणे घञ् । दौवारिके प्रतीहारशब्दे दीर्घस्त्वप्रामाणिकः । यद्वा प्रतीहारो द्वारम्, तत्स्थत्वान्मनुष्ये गौणः ।
Tattvabodhini¶
उपसर्गस्य घञ्यमनुष्ये बहुलम् - घञन्त इति । निषाद इति । पुलिन्दो मनुष्यजातिः ।निषीदत्यस्मिन्पाप॑मिति निषादः ।हलश्चे॑त्याधिकरणे घञ् । कथं तर्हि दौवारिके प्रतीहारशब्दप्रयोग इति चेत् । अत्राहुः — प्रतीहारो द्वारम् । तास्थ्यात्ताच्छब्द्यमिति ।
Nyaas¶
ऊढः, ऊढवान् इति। यजादित्वात्? सम्प्रसारणम्। सम्प्रसारणाच्च (6.1.108) इति परपर्वत्वम्, दीर्घत्वं च। तत्रेदानीमसत्यवर्णग्रहणे ऊकारस्याप्योत्त्वं स्यात्। ननु च सम्परसारणादिभ्यः परत्वादोत्त्वेन भवितव्यम्, तथा च भाव्ये उभयोर्नित्ययोः परत्वादोत्त्वेन भवितव्यम्, आत्वे कृते सम्प्रसारणम्, सम्प्रसारणे कृते सम्परसारणपरपूर्वत्वम्, कृतकार्यत्वात्? पुनरोत्त्वं न भविष्यति इति। तस्माद्भवितव्यमेवौत्त्वेन, तस्मिन्? सति पश्चा सम्प्रसारणादिभिः। न चैवं किञ्चिदनिष्टमापद्यत इति नार्थो वर्णग्रहणेन। एवं तह्र्रवर्णग्रहणं कुर्वन्नेतज्ज्ञापयति -क्वचित्? सम्प्रसारणं तदाश्रयञ्च कार्यं बलीयो भवतीति। तेन यदुक्तम् -`सम्प्रसारणं सम्प्रसारणाश्रयञ्च कार्यं बलीयो भवति (पु।प।वृ।103) इति तदुपपन्नं भवति। वर्णग्रहणं किम् इति। ओदस्य इतावत्यपि सति सोढा, सोढुमित्यादि सिध्यत्येवेत्यभिप्रायः। कृतायामपि इत्यादि। उत्पूर्वाद्वहेर्लृङि च्लिः, च्लेः सिच् (3.1.44) तसस्ताम्, थसस्तम्? अडागमः, ढत्वादेरसिद्धत्वात्? ततः पूर्वम्? वदव्रज (7.2.3) इत्यादिना वृद्धिः, ततो ढत्वादि। अथेदानीमसति वर्णग्रहणे मात्रिकस्याकारस्योच्यमानमोत्त्वं दीर्घस्य न स्यात्, वर्णग्रहणाद्वर्णमात्रस्य भवतीति सिद्धम् -उदवोढाम्, उदवोढमिति? ननु च अणुदित् सवर्णस्य चाप्रत्ययः (1.1.69) इत्यकारो गृह्रमाण आकारमपि ग्राहयिष्यति, तत्? किं वर्णग्रहणेन? इत्यत आह -तादपि परः इत्यादि। तपरस्तत्कालस्य (1.1.70) इत्यत्र तादपि परस्तपर इत्ययमपि समास आश्रितः खट्वैडका, खट्वैतिकायनः -इत्येवमादिषु त्रिमात्रिके चतुर्मात्रिके वर्तमानस्यैकारस्य वृद्धिसंज्ञा मा भूदित्येवमर्थम्। तत्रासति वर्णग्रहणेऽकरस्य तपरत्वादाकारो न गृह्रेत्? ततश्च तस्योत्त्वं न स्यात्। तस्मादवर्णमात्रस्य यथा स्यादित्येवमर्थ वर्णग्रहणं कर्तवयम्। तादपि परस्तपरः -इत्यस्य च समासस्यैतदेव वर्णग्रहणं ज्ञापकं वेदितव्यम्॥
Prakriyasarvasvam¶
घञन्ते परपदे अमनुष्ये उपसर्गस्य बहुलं दीर्घः स्यात् । परीपाकः परिपाकः । अतीसारः अतिसारः । मनुष्ये त्वदीर्घः । निषीदत्यस्मिन् पापमिति निषादः । सादकारयोः कृत्रिमे दीर्घः । प्रसीदन्त्यत्रेति प्रासादः प्राकारः । अन्यत्र प्रसादः प्रकारः । रन् ज् अ ।
Sutra Prayogas¶
स्वानधीकारान् (कुमारसम्भवम्): उपसर्गस्य घञ्यमनुष्ये बहुलम् इति दीर्घः।
विपत्प्रतीकारपरेण (कुमारसम्भवम्): उपसर्गस्य घञ्यमनुष्ये बहुलम् इति दीर्घः।
परीवारौ (भट्टिकाव्यम्): उपसर्गस्य घनि इति दीर्घः ।
स-परीवारो (भट्टिकाव्यम्): उपसर्गस्यं घनि इति दीर्घः ।
नीवार-फल-मूलाऽशानृषीनप्यतिशेरते (भट्टिकाव्यम्): उपसर्गस्य घञ् इति दीर्घत्वम्।
प्रतिकारमस्मिन् (भट्टिकाव्यम्): उपसर्गस्य धन् इति बहुलं दीर्घः।