63121: इकः वहेऽपीलोः¶
Padacheda: इकः | S | 6 | 1 |
वहे | S | 7 | 1 |
अपीलोः | S | 6 | 1 |
Sutrartha¶
Vasu English Summary¶
The final इ and the उ of a word with the exception of पीलु are lengthened before वह।
Vasu English Translation¶
The final इ and the उ of a word with the exception of पीलु are lengthened before वह। Thus ऋषीवहम्, कपीवहम्, मुनीवहम् ॥ Why do we say ‘ending in इक् vowels’? Observe पिण्डवहम् ॥ Why not of पीलु? Observe पीलुवहम् ॥
Vart:- It should be stated “with the exception of पीलु and the rest.” As दारुवहम् ॥
Bhashya¶
इको वहेऽपीलोः (2980) (उपसंख्यानभाष्यम्) अपील्वादीनामिति वक्तव्यम् । इह मा भूत् - रुचिवहम्, चारुवहम् ॥
Kashika¶
इगन्तस्य पूर्वपदस्य पीलुवर्जितस्य वह उत्तरपदे दीर्घो भवति। ऋषीवहम्। कपीवहम्। मुनीवहम्। इक इति किम्? पिण्डवहम्। अपीलोरिति किम्? पीलुवहम्॥ अपील्वादीनामिति वक्त व्यम्॥ इह मा भूत् — दारुवहम्॥
Siddhanta Kaumudi¶
इगन्तस्य दीर्घः स्याद्वहे । ऋषीवहम् । इकः किम् । पिण्डवहम् । अपीलोः किम् । पीलुवहम् ।<!अपील्वादीनामिति वाच्यम् !> (वार्तिकम्) ॥ दारुवहम् ॥
Balamanorama¶
इकः वहे अपीलोः - इको वहेऽपीलोः ।अपीलो॑रिति च्छेदः । इगन्तस्येति ।पूर्वपदस्ये॑ति शेषः ।
Padamanjari¶
ऋषीवहादयः षष्ठीसमासः । वहशब्दः पचाद्यजन्तः ॥ एउपसर्गस्य घञ्यनुष्ये बहुलम् ॥ उपसर्गाद् घञोऽविधानादुतरपदाधिकारेऽप्यत्र तदन्तविधिर्विज्ञायत इत्याह - घञन्त उतरपदे इति । वीमार्ग इति । मृजेर्वृद्धिः । कृत्रिमम् - करणेन निर्वृतम् । पुरुषव्यापाराभिनिर्वृतमित्यर्थः । निषीदत्यस्मिन्पापमिति निषादः, हलश्चेति घञ् ॥
Nyaas¶
ढ्रलोपे इति तत्पुरुषोऽयं वा स्यात्, बहुव्रीहिर्वा? तत्र यदि तत्पुरुषः स्यात् - ढ्रयोर्लोपो ढ्रलोप इति, तदाणः पूर्वत्वं नोपपद्यते; लोपस्याभावरूपत्वात्, अभावे च पौर्वापर्यासम्भवात्। अथापि स्थानिद्वारकं पोर्वापर्यमाश्रित्य पूर्वत्वमुच्यते, करणीयः - इत्यत्रापयनीयरो रेफस्य लोपे कृते पूर्वस्य दीर्घत्वं स्यादितीमं दोषं दृष्ट्वा बहुव्रीहिरयमिति दर्शयन्नाह - ढकाररेफयोर्लोपो यस्मिन् इत्यादि। गमकत्वाद्वैयधिकरण्येऽपि बहुव्रीहिर्भवत्येव, यथा - काण्ठेकाल इति। लीढम् इति। लिह आस्वादने, (धातुपाठः-1066) निष्ठा, `हो ढः (8.2.31) झषस्तथोर्दोऽधः (8.2.40) ष्टुना ष्टुः` (8.4.40) ढोढे लोपः (8.3.13) - इत्येतो विधयः कर्तव्याः। मीढम् इति। मिह सेचने (धातुपाठः-992)। उपगूढम् इति। गुहू संवरणे (धातुपाठः-896)। `मूढः इति। मुह वैचित्ये (धातुपाठः-1198)। नीरक्तम् इति। कुगतिप्रादयः (2.2.18) इति समासः, रो रि (8.3.14) इति रेफस्य लोपः। अथ पूर्वग्रहणं किमर्थम्, यावता ढ्रलोपे इति। सप्तम्या निर्देशः, तत्रान्तरेणापि पूर्वग्रहं तस्मिन्निति निर्दिष्टे पूर्वस्य (1.1.66) इति पूर्वस्यैव भविष्यति? इत्यत आह - पूर्वग्रहणम् इत्यादि। असति पूर्वग्रहणे, उत्तरपदाधिकारादुत्तरपद एव स्यात् - नीरक्तम् इत्यादौ, अनुत्तरपदे न स्यात् - लीढम् इत्यादौ। यद्यपि ढलोपस्योत्तरपदेऽसम्भवादनुत्तरपदेऽपि वचनप्रामण्याद्दीर्घत्वं स्यात्, रलोपे त्वनुत्तरपदे न प्राप्नोति; उत्तरपदे रलोपस्य सम्भवात्। तस्मादनुत्तरपदेऽपि पूर्वमात्रस्याणो दीर्घो यथा स्यादिति पूर्वग्रहणम्। आतृढम् इति। तृहू तृन्हू हिंसार्थौ (धातुपाठः-1348,1350)। आदृढम् इति क्वचित् पाठः। दृह दृहि दृहि वृद्धौ (धातुपाठः-733-736) इत्यस्य निष्ठायां किलेदं रूपम्, एतत्तु नोपपद्यते; दृहेः सेट्त्वात्? तस्येटा भवितव्यम्। अथापि कथञ्चिन्न स्यात्, एवमपि दादेर्धातोर्घः (8.2.32) इति घत्वेन भवितव्यम्। स्थूलबलवद्विवक्षायां दृढः स्थूलबलयोः (7.2.20) इति निर्देशादुभयं न भविष्यतीति चेत्? दीर्घत्वमप्यत एव तर्हि न स्यात्। केचिदत्रानित्यत्वादागमशासनस्याभावमिटो वर्णयन्ति। वा द्रुह (8.2.33) इत्यादौ सूत्रे वा इति योगविभागात्? पक्षे घत्वस्याभावः। आवृढम् इति। वृहू उद्यमनस् (धातुपाठः-1347)॥
Vartika¶
अपील्वादीनामिति वाच्यम् ।