63121: इकः वहेऽपीलोः ==================== **Padacheda:** इकः | S | 6 | 1 | वहे | S | 7 | 1 | अपीलोः | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The final इ and the उ of a word with the exception of पीलु are lengthened before वह। Vasu English Translation ------------------------ The final इ and the उ of a word with the exception of पीलु are lengthened before वह। Thus ऋषीवहम्, कपीवहम्, मुनीवहम् ॥ Why do we say 'ending in इक् vowels'? Observe पिण्डवहम् ॥ Why not of पीलु? Observe पीलुवहम् ॥ Vart:- It should be stated "with the exception of पीलु and the rest." As दारुवहम् ॥ Bhashya ------- इको वहेऽपीलोः (2980) (उपसंख्यानभाष्यम्) अपील्वादीनामिति वक्तव्यम् । इह मा भूत् - रुचिवहम्, चारुवहम् ॥ Kashika ------- इगन्तस्य पूर्वपदस्य पीलुवर्जितस्य वह उत्तरपदे दीर्घो भवति। ऋषीवहम्। कपीवहम्। मुनीवहम्। इक इति किम्? पिण्डवहम्। अपीलोरिति किम्? पीलुवहम्॥ अपील्वादीनामिति वक्त व्यम्॥ इह मा भूत् — दारुवहम्॥ Siddhanta Kaumudi ----------------- इगन्तस्य दीर्घः स्याद्वहे । ऋषीवहम् । इकः किम् । पिण्डवहम् । अपीलोः किम् । पीलुवहम् । (वार्तिकम्) ॥ दारुवहम् ॥ Balamanorama ------------ **इकः वहे अपीलोः** - इको वहेऽपीलोः ।अपीलो॑रिति च्छेदः । इगन्तस्येति ।पूर्वपदस्ये॑ति शेषः । Padamanjari ----------- ऋषीवहादयः षष्ठीसमासः । वहशब्दः पचाद्यजन्तः ॥ एउपसर्गस्य घञ्यनुष्ये बहुलम् ॥ उपसर्गाद् घञोऽविधानादुतरपदाधिकारेऽप्यत्र तदन्तविधिर्विज्ञायत इत्याह - घञन्त उतरपदे इति । वीमार्ग इति । मृजेर्वृद्धिः । कृत्रिमम् - करणेन निर्वृतम् । पुरुषव्यापाराभिनिर्वृतमित्यर्थः । निषीदत्यस्मिन्पापमिति निषादः, हलश्चेति घञ् ॥ Nyaas ----- `ढ्रलोपे` इति तत्पुरुषोऽयं वा स्यात्, बहुव्रीहिर्वा? तत्र यदि तत्पुरुषः स्यात् - ढ्रयोर्लोपो ढ्रलोप इति, तदाणः पूर्वत्वं नोपपद्यते; लोपस्याभावरूपत्वात्, अभावे च पौर्वापर्यासम्भवात्। अथापि स्थानिद्वारकं पोर्वापर्यमाश्रित्य पूर्वत्वमुच्यते, करणीयः - इत्यत्रापयनीयरो रेफस्य लोपे कृते पूर्वस्य दीर्घत्वं स्यादितीमं दोषं दृष्ट्वा बहुव्रीहिरयमिति दर्शयन्नाह - `ढकाररेफयोर्लोपो यस्मिन्` इत्यादि। गमकत्वाद्वैयधिकरण्येऽपि बहुव्रीहिर्भवत्येव, यथा - काण्ठेकाल इति। `लीढम्` इति। `लिह आस्वादने`, (धातुपाठः-1066) `निष्ठा, `हो ढः` (8.2.31) `झषस्तथोर्दोऽधः` (8.2.40) ष्टुना ष्टुः` (8.4.40) `ढोढे लोपः` (8.3.13) - इत्येतो विधयः कर्तव्याः। `मीढम्` इति। `मिह सेचने` (धातुपाठः-992)। `उपगूढम्` इति। `गुहू संवरणे (धातुपाठः-896)। `मूढः` इति। `मुह वैचित्ये` (धातुपाठः-1198)। `नीरक्तम्` इति। **कुगतिप्रादयः** (2.2.18) इति समासः, `रो रि` (8.3.14) इति रेफस्य लोपः। अथ पूर्वग्रहणं किमर्थम्, यावता `ढ्रलोपे` इति। सप्तम्या निर्देशः, तत्रान्तरेणापि पूर्वग्रहं **तस्मिन्निति निर्दिष्टे पूर्वस्य** (1.1.66) इति पूर्वस्यैव भविष्यति? इत्यत आह - `पूर्वग्रहणम्` इत्यादि। असति पूर्वग्रहणे, उत्तरपदाधिकारादुत्तरपद एव स्यात् - `नीरक्तम्` इत्यादौ, अनुत्तरपदे न स्यात् - `लीढम्` इत्यादौ। यद्यपि ढलोपस्योत्तरपदेऽसम्भवादनुत्तरपदेऽपि वचनप्रामण्याद्दीर्घत्वं स्यात्, रलोपे त्वनुत्तरपदे न प्राप्नोति; उत्तरपदे रलोपस्य सम्भवात्। तस्मादनुत्तरपदेऽपि पूर्वमात्रस्याणो दीर्घो यथा स्यादिति पूर्वग्रहणम्। `आतृढम्` इति। `तृहू तृन्हू हिंसार्थौ` (धातुपाठः-1348,1350)। `आदृढम्` इति क्वचित् पाठः। `दृह दृहि दृहि वृद्धौ` (धातुपाठः-733-736) इत्यस्य निष्ठायां किलेदं रूपम्, एतत्तु नोपपद्यते; दृहेः सेट्त्वात्? तस्येटा भवितव्यम्। अथापि कथञ्चिन्न स्यात्, एवमपि **दादेर्धातोर्घः** (8.2.32) इति घत्वेन भवितव्यम्। स्थूलबलवद्विवक्षायां **दृढः स्थूलबलयोः** (7.2.20) इति निर्देशादुभयं न भविष्यतीति चेत्? दीर्घत्वमप्यत एव तर्हि न स्यात्। केचिदत्रानित्यत्वादागमशासनस्याभावमिटो वर्णयन्ति। `वा द्रुह` (8.2.33) इत्यादौ सूत्रे `वा` इति योगविभागात्? पक्षे घत्वस्याभावः। `आवृढम्` इति। वृहू उद्यमनस् (धातुपाठः-1347)॥ Vartika ------- अपील्वादीनामिति वाच्यम् ।