63110: संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ¶
Padacheda: संख्या-वि-साय-पूर्वस्य | S | 6 | 1 |
अह्नस्य | S | 6 | 1 |
अहन् | S | 1 | 1 |
अन्यतरस्याम् | S | 7 | 1 |
ङौ | S | 7 | 1 |
Sutrartha¶
संख्यावाचीशब्दात् परस्य , ‘वि’शब्दात् परस्य, तथा ‘साय’शब्दात् परस्य ‘अह्न’ शब्दस्य ङि-प्रत्यये परे विकल्पेन ‘अहन्’ आदेशः भवति ।
यदि ‘अह्न’-शब्दः कस्मिंश्चित् समस्तपस्य उत्तरपदे आगच्छति, तदा तस्य समस्तपदस्य पूर्वपदम् कश्चन संख्यावाची शब्दः अस्ति (यथा - एक, द्वि, त्रि आदयः), उत ‘वि’ शब्दः अस्ति, उत ‘साय’ शब्दः अस्ति, तर्हि सप्तमी-एकवचनस्य ङि-प्रत्यये परे ‘अह्न’ शब्दस्य वैकल्पिकः अहन्-आदेशः भवति । अग्रे [विभाषा ङिश्योः (6.4.136) इति वैकल्पिकः अकारलोपं कृत्वा ‘अह्नि, अहनि’ एते द्वे रूपे भवतः । अहन्-आदेशस्य अभावे तु ‘राम’शब्दवत् ‘अह्ने’ इत्येव रूपम् भवति । कानिचन उदाहरणानि एतादृशानि - 1. ‘द्व्योः अह्नोः भवः’ अस्मिन् अर्थे तद्धितार्थोत्तरपदसमाहारे च (2.1.51) इत्यनेन तद्धितार्थः समासः जायते, येन ‘द्व्यह्नः’ इति प्रातिपदिकम् सिद्ध्यति । अस्य सप्तम्येकवचनम् द्व्यह्ने, द्व्यह्नि, द्व्यहनि - एते भवन्ति । 2. ‘व्यपगतमहः’ अस्मिन् अर्थे कुगतिप्रादयः (2.2.18) इत्यनेन प्रादिसमासे कृते ‘व्यह्नः’ इति प्रातिपदिकम् सिद्ध्यति । अस्य सप्तम्येकवचनम् व्यह्ने, व्यह्नि, व्यहनि - एतानि भवन्ति । 3. ‘सायमह्नः’ अस्मिन् अर्थे पूर्वपरावरोत्तरमेकदेशिनैकाधिकरणे (2.2.1) एकदेशीसमासे कृते ‘सायाह्नः’ इति प्रातिपदिकम् सिद्ध्यति । अस्य सप्तम्येकवचनम् सायाह्ने, सायाह्नि, सायाहनि - एतानि भवन्ति । एतान् शब्दान् विहाय अन्यत् किमपि पूर्वपदमस्ति चेत् अस्य सूत्रस्य प्रयोगः न भवति । यथा, ‘पूर्वाह्न’ इत्यस्य सप्तम्येकवचनम् ‘पूर्वाह्ने’ इत्येव जायते ।
Sutrartha (English)¶
When the word अह्न appears as an उत्तरपद in a समास where the पूर्वपद is either a number, or the words वि or साय, it is optionally converted to अहन् in presence of the प्रत्यय ङि.
Vasu English Summary¶
अहन् may optionally be substituted for अह्न in the Locative -7th case singular when a numeral or वि or साय precede it.
Vasu English Translation¶
अहन् may optionally be substituted for अह्न in the Locative -7th case singular when a numeral or वि or साय precede it. Thus द्वयोरह्नोर्भवः = द्व्यह्नः, त्र्यह्नः ॥ The Locative singular of these are द्व्यह्नि or द्व्यहनि, त्र्यह्नि or त्र्यहनि ॥ So also द्व्यह्ने, त्र्यह्ने ॥ With वि - व्यह्नि, व्यहनि or व्यह्ने; साय - सायाह्नि, सायाहनि, सायाह्ने ॥ These are एकदेशिसमासः, and this very sutra is an indicator that अहन् may be compounded with other words than a Numeral, or वि or साय ॥ Thus we have मध्याह्ने = मध्यमह्नः (2.2.1). But पूर्वाह्णे and अपराह्णे only.
Kashika¶
संख्या वि साय इत्येवंपूर्वस्याह्नशब्दस्य स्थानेऽहनित्ययमादेशो भवत्यन्यतरस्यां ङौ परतः। द्वयोरह्नोर्भवो द्व्यह्नः। त्र्यह्नः। द्व्यह्नि, द्व्यहनि। त्र्यह्नि, त्र्यहनि। द्व्यह्ने। त्र्यह्ने। व्यपगतमहो व्यह्नः। व्यह्नि, व्यहनि, व्यह्ने। सायमह्नः सायाह्नः। सायाह्नि, सायाहनि, सायाह्ने। एकदेशिसमासः पूर्वादिभ्योऽन्यस्यापि भवतीत्येतदेव विसायपूर्वस्याह्नस्य ग्रहणं ज्ञापकम्। तेन मध्यमह्नो मध्याह्न इत्यपि भवति। संख्याविसायपूर्वस्येति किम्? पूर्वाह्णे। अपराह्णे॥
Siddhanta Kaumudi¶
सङ्ख्यादिपूर्वस्याह्नस्याऽहनादेशो वा स्यान् ङौ । द्व्यह्नि । द्व्यहनि । द्व्यह्ने । विगतमहर्व्यह्नः । व्यह्नि । व्यहनि । व्यह्ने । अह्नः सायः सायाह्नः । सायाह्नि । सायाहनि । सायाह्ने । इत्यदन्ताः ॥ विश्वपाः ॥
Balamanorama¶
संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ - ङौ विशेषमाह — सङ्ख्याविसाय । सङ्ख्या च विश्च सायश्च सङ्ख्याविसायाः । ते पूर्वे यस्मादिति विग्रह इत्यभिप्रेत्याह — सङ्ख्येत्यादिना । सङ्ख्यापूर्वमुदाहरति — द्व्यह्नि द्व्यहनीति । अल्लोपे तदभावे च रूपम् । व्द्यह्ने इति । अहन्नादेशाऽभावे रूपम् । एवं विपूर्वमुदाहरति-विगतमिति ।प्रादयो गताद्यर्थे प्रथमये॑ति समासः । पूर्ववदह्नादेशः । सायपूर्वमुदाहरति-अहः साय इत्यादिना । अत एव ज्ञापकादेकदेशिसमासः । विआपा इति । आबन्तत्वाऽभावान्न सुलोपः । एतदर्थमेव हल्ङ्यादिसूत्रे सत्यपि दीर्घग्रहणे आब्ग्रहणमिति भावः । विआं पाति=रक्षतीत्यर्थे ‘आतोऽनुपसर्गे कः’ इति प्राप्ते वाऽसरूपन्यायेनआतो मनिन्क्वनिब्वनिपश्चे॑ति चकाराद्विच् । यद्यपि तत्रविदुपेश्छन्दसी॑त्यतश्छन्दसीत्यनुवर्तते तथापि वेदेऽनेन क्विच्, लोके तुअन्येभ्योऽपि दृश्यते॑ इति विच् । अन्ये तुक्विप्चे॑ति सूत्रेण क्विपमाहुः ।घुमास्थे॑तीत्त्वं तु न,वकारे ईत्त्वप्रतिषेधः॑ इति वार्तिकात् । क्वनिपि ‘पावान’ इत्येतदर्थं तस्यावश्यकत्वात् । क्विपस्त्वादन्तेभ्यो भाष्यानुक्तक्विब्भ्योऽनभिधानमेवेति शब्देन्दुशेखरे स्पष्टम् । अत एव भाष्येपावान॑इत्य्तर वनिपा रूपसिद्धिमाश्रित्यईत्त्वमवकारादाविति वक्तव्य॑मिति वार्तिकं प्रत्याख्यातम् । ततश्च ‘विआपाः’ इत्यत्र विजेव । विआपा-औ इति स्थितेप्रथमयोः पूर्वसवर्णः॑ इति प्राप्ते- ।
Tattvabodhini¶
संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ - अह्नः साय इति । स्यतेर्घञि अवसानवचनः सायशब्दः, सङ्याविसाये॑ति ज्ञापकादेकदेशिसमासः । इत्यदन्ताः । विआपा इति । विआं पाति रक्षतीति विग्रहेपा रक्षणे॑ इत्यस्मात्आतोऽनुपसर्गे॑ इति कं बाधित्वाआतोमनिन्क्वनिब्वनिपश्चे॑ति चकाराद्विजिति व्याख्यातारः । इह च्छन्दसिआतो मनिन् — ॑ इति विच् । लोके तुअन्येभ्योऽपि दृश्यते॑ इत्यनेनेति विवेकः ।
Nyaas¶
अन्यार्थः इति। अन्यस्मै इदमिति चतुर्थी तदर्थार्थ (2.1.35) इत्यादिना समासः॥
Praudhamanorama¶
अह्नः साय इति। स्यतेर्घञि अवसानवचनः सायशब्दः। ‘संख्याविसाय—‘इति ज्ञापकादेकदेशिसमासः। ॥ इत्यदन्ताः॥