63111: ढ्रलोपे पूर्वस्य दीर्घोऽणः¶
Padacheda: ढ्रलोपे | S | 7 | 1 |
पूर्वस्य | S | 6 | 1 |
दीर्घः | S | 1 | 1 |
अणः | S | 6 | 1 |
Sutrartha¶
ढलोपनिमित्तके ढकारे परे ढकारलोपे कृते , रलोपनिमित्तके रेफे परे रलोपे कृते वा, तस्मात् पूर्वस्य अण्-वर्णस्य दीर्घः भवति ।
<pt> अण् = अ, आ, इ, ई, उ, ऊ । <light>अत्र पूर्वेण णकारेण प्रत्याहारनिर्माणम् । </light> </pt> अण्-वर्णात् परः यः ढकारः, तस्य ढकारे परे लोपे कृते अण्-वर्णस्य दीर्घः भवति । एवमेव, अण्-वर्णात् परः यः रेफः, तस्य रेफे परे लोपे कृते अण्-वर्णस्य दीर्घः भवति । अस्य सूत्रस्य प्रसक्तिः तदा एव विद्यते यदा ढकारलोपः**ढो ढे लोपः (8.3.13) इत्यनेन क्रियते, तथा च रेफलोपः रो रिः (8.3.14) इत्यनेन क्रियते । अतएव, निर्देशसामर्थ्यात् अस्य सूत्रस्य कृते **ढो ढे लोपः (8.3.13) तथा च रो रिः (8.3.14) इति द्वे सूत्रे सिद्धे भवतः । क्रमेण उदाहरणानि एतानि — <hlb>1. ढकारलोपे कृते अण्-वर्णस्य दीर्घादेशः —</hlb> 1. लिह्-धातोः लोट्लकारस्य मध्यमपुरुषस्य बहुवचनस्य रूपसिद्धौ प्रकृतसूत्रेण इकारस्य दीर्घः भवति —
लिहँ (आस्वादने, अदादिः, उभयपदी, (2.6))
→ लिह् + लोट् [**लोट् च** (3.3.162) इति लोट्]
→ लिह् + ध्वम् [लोट्लकारस्य मध्यमपुरुषबहुवचनस्य विवक्षायाम् **तिप्तस्झि..** (3.4.78) इति ध्वम्-प्रत्ययः]
→ लिह् + शप् + ध्वम् [**कर्तरि शप्** (3.1.68) इति शप्-विकरणप्रत्ययः]
→ लिह् + ध्वम् [**अदिप्रभृतिभ्यः शपः** (2.4.72) इति शप्-प्रत्ययस्य लुक्]
→ लिढ् + ध्वम् [**हो ढः** (8.2.31) इति ढत्वम्]
→ लिढ् + ढ्वम् [**ष्टुना ष्टुः** (8.4.41) इति ढत्वम्]
→ लि + ढ्वम् [**ढो ढे लोपः** (8.3.13) इति ढकारलोपः]
→ लीढ्वम् [**ढ्रलोपे पूर्वस्य दीर्घोऽणः** (6.3.111) इति अण्-वर्णस्य दीर्घः]
गुह् -धातोः क्त-प्रत्ययान्तरूपस्य सिद्धौ प्रकृतसूत्रेण उकारस्य दीर्घः भवति —
गुहूँ (संवरणे, भ्वादिः, (1.1043))
→ गुह् + क्त [**निष्ठा** (3.2.102) इति सूत्रेण क्त-प्रत्ययः]
→ गुढ् + त [ **हो ढः** (8.2.31) इति ढत्वम्]
→ गुढ् + ढ [**झषस्तथोर्धोऽधः** (8.2.40) इति भष्भावे ढत्वम्]
→ गु + ढ [**ढो ढे लोपः** (8.3.13) इति ढकारस्य ढकारे परे लोपः]
→ गूढ [लुप्तढकारात् पूर्वस्य इकारस्य **ढ्रलोपे पूर्वस्य दीर्घोऽणः** (6.3.111) इति दीर्घः]
<hlb>2. रेफलोपे कृते अण्-वर्णस्य दीर्घादेशः —</hlb> 1. “पुनर्”-इति अव्ययस्य रेफस्य लोपे कृते नकारात् अनन्तरम् विद्यमानस्य अकारस्य दीर्घः भवति —
पुनर् + रमते
→ पुन + रमते [**रो रि** [8.3.14]] इति रेफस्य लोपः]
→ पुना रमते [**ढ्रलोपे पूर्वस्य दीर्घोऽणः** (6.3.111) इति लुप्तरेफात् पूर्वस्य अण्-वर्णस्य दीर्घः]
इवर्णान्तशब्देभ्यः उवर्णान्तशब्देभ्यः विहितस्य सुँ-प्रत्ययस्य रुँत्वे कृते तस्य रो रि (8.3.14) इत्यनेन लोपः भवति चेत् इवर्णस्य / उवर्णस्य प्रकृतसूत्रेण दीर्घः भवति —
हरि / शम्भु + सुँ + राजते
→ हरि / शम्भु + रुँ + राजते [**ससजुषो रुँः** (8.2.66) इति रुँत्वम्]
→ हरि+ शम्भु + र् + राजते [**उपदेशेऽजनुनासिक इत्** (1.3.2) इति उकारस्य इत्संज्ञा । **तस्य लोपः** (1.3.9) इति लोपः]
→ हरि + शम्भु + राजते [**रो रि** (8.3.14) इति रेफलोपः]
→ हरी / शम्भू राजते [**ढ्रलोपे पूर्वस्य दीर्घोऽणः** (6.3.111) इति अण्-वर्णस्य दीर्घः]
“निर्” इति उपसर्गस्य अन्ते विद्यमानस्य पदान्तरेफस्य रेफे परे प्रकृतसूत्रेण लोपः भवति —
निर्गतः रसः यस्य सः [**अनेकमन्यपदार्थे** (2.2.24) इति बहुव्रीहिसमासः]
→ निर् + रस [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुँलोपः]
→ नि रस [**रो रि** (8.3.14) इति रेफस्य रेफे परे लोपः]
→ नीरस [**ढ्रलोपे पूर्वस्य दीर्घोऽणः** (6.3.111) इति दीर्घः]
सिद्धान्तकौमुद्याम् अत्र “अजर्घाः” इति शब्दः उदाहरणरूपेण दत्तः अस्ति ।गृधुँ-धातोः यङ्लुकि लङ्लकारस्य मध्यमपुरुषैकवचनस्य रूपम् इदम् । अस्य सिद्धिः इयम् —
गृधुँ (अभिकाङ्क्षायाम्, दिवादिः, (4.161))
→ गृध् + यङ् [**धातोरेकाचो हलादेः क्रियासमभिहारे यङ्** (3.1.22) इति यङ्-प्रत्ययः । ]
→ गृध् [**यङोऽचि च** (2.4.74) इत्यत्र चकारग्रहणसामर्थ्यात् अच्-प्रत्ययभिन्नस्थले अपि यङ्-प्रत्ययस्य लुक् भवति । अन्तरङ्गात् अयम् द्वित्वात् पूर्वं भवति ।]
→ गृध् गृध् [**सन्यङोः** (6.1.9) इति द्वित्वम्]
→ गृ गृध् [**हलादिः शेषः** (7.4.60) इति अभ्यासस्य हलादिः अवशिष्यते ]
→ गर् गृध् [**गुणो यङ्लुकोः** (7.4.82) इति इगन्तस्य अभ्यासस्य गुणः । **उरण् रपरः** (1.1.51) इति सः रपरः]
→ ग गृध् **हलादिः शेषः** (7.4.60) इति अभ्यासस्य हलादिः अवशिष्यते ]
→ ग रुक् गृध् [**रुग्रिकौ च लुकि** (7.4.91) इति यङ्लुकि रुगागमः]
→ गर् गृध् [इत्संज्ञालोपः । रेफोत्तरः उकारः उच्चारणार्थः, सोऽपि लुप्यते ।]
→ जर्गृध् [**कुहोश्चुः** (7.4.62) इति अभ्यासस्य चुत्वम् । ]
→ जर्गृध् + लङ् [**सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा । ततः **अनद्यतने लङ्** (3.2.111) इति लङ्]
→ अट् + जर्गृध् + लङ् [**लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इति अडागमः]
→ अ + जर्गृध् + सिप् [**तिप्तस्झि...** (3.4.78) इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः]
→ अ + जर्र्गृध् + स् [**हलन्त्यम्** (1.3.3) इति पकारस्य इत्संज्ञा । **तस्य लोपः** (1.3.9) इति लोपः । **इतश्च** (3.4.100) इति इकारलोपः]
→ अ + जगृध् + शप् + सि [**कर्तरि शप्** (3.1.68) इति शप्]
→ अ + जर्गृध् + अ + सि [शकारपकारयोः इत्संज्ञा, लोपः]
→ अ + जर्गृध् + स् [यङ्लुङन्ताः नित्यम् अदादिगणे एव स्वीक्रियन्ते, अतः तेभ्यः विहितस्य शप्-प्रत्ययस्य **अदिप्रभृतिभ्यः शपः** (2.4.72) इति लुक् भवति ।]
→ अ + जर्गर्ध् + स् [**पुगन्तलघूपधस्य च** (7.3.86) इति ऋकारस्य गुणः । **उरण् रपरः** (1.1.51) इति सः रपरः]
→ अ + जर्गर्ध् [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति अपृक्तसकारस्य लोपः]
→ अ + जर्घर्ध् [**एकाचो बशो भष् झषन्तस्य स्ध्वोः** (8.2.37) इति गकारस्य भष्भावे घकारः]
→ अ + जर्घर्द् [**झलां जशोऽन्ते** (8.2.39) इति पदान्तधकारसस्य जश्त्वे दकारः]
→ अ + जर्घर् र् [**दश्च** (8.2.75) इति दकारस्य रेफः]
→ अ + जर्घ र् [रेफे परे **रो रि** (8.3.14) इति रेफस्य लोपः]
→ अ + जर्घा र् [**ढ्रलोपे पूर्वस्य दीर्घोऽणः** (6.3.111) इति दीर्घः]
→ अजर्घाः [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः]
अण्-ग्रहणम् पूर्वेण णकारेण
अस्मिन् सूत्रे विद्यमानः “अण्” इति प्रत्याहारः अइउण् इति सूत्रस्थणकारेण सिद्ध्यति । इत्युक्ते, अनेन प्रत्याहारेण केवलम् अवर्ण-इवर्ण-उवर्णानाम् एव निर्देशः भवति । एतान् विहाय अन्यस्वराणाम् अनेन सूत्रेण दीर्घः न भवति इति अत्र आशयः । यथा, तृहूँ-धातोः क्त-प्रत्ययान्त-रूपस्य सिद्धौ ढकारलोपे कृते अपि प्रकृतसूत्रेण दीर्घः नैव विधीयते ।
तृहूँ (हिंसायाम्, (6.75))
→ तृह् + क्त [**निष्ठा** (3.2.102) इति क्त-प्रत्ययः]
→ तृढ् + त [**हो ढः** (8.2.31) इति हकारस्य झलि परे ढकारः]
→ तृढ् + ध [**झषस्तथोर्धोऽधः** (8.2.40) इत्यनेन तकारस्य धकारः]
→ तृढ् + ढ [**ष्टुना ष्टुः** (8.4.41) इति ष्टुत्वे धकारस्य ढकारः]
→ तृढ [**ढो ढे लोपः** (8.3.13) इति ढकारे परे ढकारस्य लोपः]
<br>
अत्र ढकारलोपे कृते अपि ऋकारस्य **ढ्रलोपे पूर्वस्य दीर्घोऽणः** (6.3.111) इति दीर्घः न भवति यतः अण्-प्रत्याहारे ऋकारः न स्वीक्रियते ।
“ढ्रलोपः” इति शब्दस्य अर्थः
अस्मिन् सूत्रे प्रयुक्तः ढ्रलोपः इति शब्दः ढकारस्य, रेफस्य च विशेषणरूपेण प्रयुक्तः अस्ति । ढ्रलोपः इत्युक्ते सः ढकारः / रेफः, येन पूर्वम् विद्यमानस्य ढकारस्य / रेफस्य लोपः कृतः अस्ति । अतः ढ्रलोपे परे (= ढकारलोपकारिणि ढकारे परे, रेफलोपकारिणि रेफे वा परे) पूर्वस्य अणः दीर्घः भवति इति सूत्रार्थः अत्र घटते ।
सूत्रे ‘पूर्वस्य’ इति शब्दस्य प्रयोजनम्
प्रकृतसूत्रे “ढ्रलोपे” इति सप्तम्यन्तम् पदम् प्रयुक्तम् अस्ति । तस्मिन्निति निर्दिष्टे पूर्वस्य (1.1.66) इत्यनेन सप्तमी विभक्तिः परनिमित्तं दर्शयति, अतः अत्र सप्तमीविभक्तेः प्रयोगेण एव ‘पूर्वस्य’ इति अर्थः अवश्यम् स्पष्टी भवति । तथापि अस्मिन् सूत्रे पाणिनिः “पूर्वस्य” इति पदं स्थापयति । अस्य किं कारणम् इति चेत्, प्रकृतसूत्रम् अलुगुत्तरपदे (6.3.1) इति उत्तरपदाधिकारे पाठ्यते । अस्मिन् अधिकारे पाठितानां सूत्राणां प्रयोगः प्रायेण तदा एव भवति यदा स्थानी पूर्वपदे, निमित्तं च उत्तरपदे विद्यते । यथा, “पुनर् रमते” इत्यत्र रो रि (8.3.14) इत्यनेन रेफलोपे कृते “पुन रमते” इति प्राप्ते; नकारोत्तरः अकारः (अण्-वर्णः) पूर्वपदे विद्यते, ढ्रलोपः (इत्युक्ते, रेफस्य लोपकारी रेफः) च उत्तरपदे विद्यते — अस्यां स्थितौ प्रकृतसूत्रेण पूर्वपदस्थस्य अण्-वर्णस्य उत्तरपदस्थरेफेण दीर्घः भवति । परन्तु, बहुषु स्थलेषु, यत्र निमित्तं स्थानी च एकस्मिन् एव पदे स्तः, तत्र अपि वर्तमानसूत्रस्य प्रयोगः इष्यते । एतदेव ज्ञापयितुम् अस्मिन् सूत्रे “पूर्वस्य” इति पदं स्थापितम् अस्ति । एतादृशं क्रियते अतएव उपरि निर्दिष्टासु “लीढ”, “अजर्घाः” एतादृशेषु स्थलेषु समानपदे विद्यमानेन रेफेण दीर्घादेशः सम्भवति । एतमेव बिन्दुं स्पष्टीकर्तुं काशिकाकारः ब्रूते — **पूर्वग्रहणमनुत्तरपदेऽपि पूर्वमात्रस्य दीर्घार्थम् ** । उत्तरपदम् नास्ति चेदपि पूर्वस्यैव दीर्घः भवेत्, इति पूर्वग्रहणस्य प्रयोजनम् — इति अस्य आशयः ।
बाध्यबाधकभावः
**सहिवहोरोदवर्णस्य (6.3.112) इति सूत्रम् प्रकृतसूत्रस्य अपवादरूपेण प्रवर्तते । “सह्” तथा “वह्” धात्वोः अकारस्य प्रकृतसूत्रेण प्राप्तं दीर्घं बाधित्वा **सहिवहोरोदवर्णस्य (6.3.112) इत्यनेन ओकारादेशः भवति ।
त्रिपादीसूत्रयोः आश्रयात् सिद्धत्वम्; प्रकृतसूत्रस्य सपादसप्ताध्याय्यां उपस्थितिः चिन्त्या एव
यद्यपि एतत् सूत्रम् सपादसप्ताध्याय्याम् विद्यते, तथापि अस्य सूत्रस्य प्रसक्तिः केवलं ढो ढे लोपः (8.3.13) उत रो रिः (8.3.14) इत्यस्मात् अनन्तरम् एव विद्यते । अतः अस्य सूत्रस्य कृते एते द्वे त्रिपादीसूत्रे आश्रयात् सिद्धे स्तः । वस्तुतस्तु, प्रकृतसूत्रस्य सपादसप्ताध्याय्याम् (उत्तरपदाधिकारे) स्थापनस्य प्रयोजनम् चिन्त्यम् एव । प्रकृतसूत्रात् अनन्तरम् केवलम् खरवसानयोर्विसर्जनीयः (8.3.15) इत्यस्यैव प्रयोगः भवितुम् अर्हति, अतः प्रकृतसूत्रम् रो रि (8.3.14) इत्यस्मात् अनन्तरम् संस्थाप्यते चेदपि नैव दोषाय । किञ्च, एतादृशं क्रियते चेत् प्रकृतसूत्रे विद्यमानः “पूर्वस्य” इति शब्दः अपि निष्कासयितुम् शक्यः —
(8.3.13) ढो ढे लोपः (8.3.14) रो रि (8.3.14अ) ढ्रलोपे दीर्घोऽणः — अत्र पूर्वस्य इति शब्दस्य ग्रहणम् नैव आवश्यकम्, यतः इदं सूत्रम् उत्तरपदाधिकारे नास्ति, अतः “ढ्रलोपे” इत्यत्र विद्यमानेन सप्तमीप्रयोगेनैव “पूर्वस्य” इति अर्थः स्पष्टी भवति । 8.3.15 खरवसानयोर्विसर्जनीयः
एतादृशम् क्रियते चेद् सूत्रलाघवम् अपि जायते, आश्रयात् सिद्धत्वस्य अपि न काचित् आवश्यकता वर्तते ।
Sutrartha (English)¶
When a ढकार is deleted due to a ढकार that follows it, or when a रेफ is deleted due to a रेफ that follows the अण् letter occurring before the deleted ढकार/रेफ becomes दीर्घ.
Vasu English Summary¶
When ढ् or र् is elided for the preceding अ , इ and उ a corresponding long vowel is substituted.
Vasu English Translation¶
When ढ् or र् is elided for the preceding अ , इ and उ a corresponding long vowel is substituted. Thus लीढम्, मीढम्, उपगूढम् ॥ रलोपे-निर्-रक्तम् = नीरक्तम्, अग्निर् रथः = अग्नीरथः, इन्दू रथः, पुना रक्तम् वासः, प्राता राजक्रयः ॥ For the elision of ढ see (8.3.13), and for the elision of र् see (8.3.14). But आवृढम्, the ऋ is not lengthened because it is not included in the pratyahara अण् which is formed with the ण of अ इ उ ण् ॥
Bhashya¶
ढ्रलोपे पूर्वस्य दीर्घोऽणः (2970) (दीर्घाधिकरणम्) (पूर्वग्रहणप्रयोजनभाष्यम्) पूर्वग्रहणं किमर्थम्, न तस्मिन्निति निर्दिष्टे पूर्वस्य (1.1.66) इति पूर्वस्य भविष्यति ? न सिध्यति । न हि ढ्रलोपेनानन्तर्यमस्ति ॥ अथेह कस्मान्न भवति - करणीयम् - हरणीयम् - इति । नैष दोषः । नैवं विज्ञायते - ढ्रोर्लोपः - ढ्रलोपः, ढ्रलोप इति । कथं तर्हि ? ढ्रोर्लोपोऽस्मिन् सोऽयं - ढ्रलोप इति । यद्येवं, नार्थः पूर्वग्रहणेन । भवति हि ढ्रलोपेनानन्तर्यम् ॥ इदं तर्हि प्रयोजनम् - उत्तरपदे इति वर्तते, तेनानन्तर्यमात्रे यथा स्यात् । औदुम्बरी राजा । धूमाकी रथेन । पुना रूपाणि प्रकल्पयन् ॥
Kashika¶
ढकाररेफयोर्लोपो यस्मिन् स ढ्रलोपः, तत्र पूर्वस्याणो दीर्घो भवति। लीढम्। मीढम्। उपगूढम्। मूढः। रलोपे — नीरक्त म्। अग्नी रथः। इन्दू रथः। पुना रक्त ं वासः। प्राता राजक्रयः। पूर्वग्रहणमनुत्तरपदेऽपि पूर्वमात्रस्य दीर्घार्थम्। अण इति किम्? आतृढम्। आवृढम्॥
Siddhanta Kaumudi¶
ढरेफौ लोपयतीति तथा तस्मिन्वर्णेऽर्थाद् ढकाररेफात्मके परे पूर्वस्याणो दीर्घः स्यात् । पुनारमते । हरीरम्यः । शंभूराजते । अणः किम् । तृढः । वृढः । तृहू हिंसायाम् । वृहू उद्यमने । पूर्वग्रहणमनुत्तरपदेऽपि पूर्वमात्रस्य दीर्घार्थम् । लीढः । अजर्घाः । मनस् रथ इत्यत्र रुत्वे कृते हशि चेत्युत्वे रोरीति लोपे च प्राप्ते ॥
Laghu Siddhanta Kaumudi¶
ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः। पुना रमते। हरी रम्यः। शम्भू राजते। अणः किम्? तृढः। वृढः। मनस् रथ इत्यत्र रुत्वे कृते हशि चेत्युत्वे रोरीति लोपे च प्राप्ते -
Balamanorama¶
ढ्रलोपे पूर्वस्य दीर्घोऽणः - ढ्रलोपे । ढच् रेफश्च ढ्रौ, तौ लोपयतीति-ढ्रलोपः । ण्यन्तात्कर्मण्युपपदे अण्, उपपदसमासः । ढलोपनिमित्तं रेफलोपनिमित्तञ्च विवक्षितम् । तच्च ढकाररेफात्मकमेव, ढो ढे लोपः, रो रीति तयोरेव ढ्रलोपनिमित्तत्वात् । तथाच ढलोपनिमित्ते ढकारे, रेफलोपनिमित्ते रेफे च परतः पूर्वस्याणो दीर्घ इत्यर्थः फलति । तदाह — ढरेफाविति ।ढलोपे रेफलोपे च पूर्वस्याणो दीर्घ॑ इति तु न व्याख्यातं, तथा सति चयनीयमित्यनीयप्र्रत्ययान्ते ‘तस्य लोप’ इति रेफलोपे यकारादकारस्य, चकार चचारेत्यादौ अभ्यासे अकारस्य च हलादिशेषेण रेफलोपे दीर्घापत्तेः । पुना रमत इति । ‘पुनर्-रमते’ इति स्थिते ‘रो री’ ति रेफलोपः । तन्निमित्ते रेफे परे नकारादकारस्य दीर्घः । हरी रम्य इति । हरिस् — रम्य इति स्थिते रुत्वे रेफलोपे चाऽनेन दीर्घः । शम्भू राजत इति । शम्बुस्-राजते इति स्थिते रुत्वे रेफलोपेऽनेन दीर्घः । त्रयाणामुदाहरणात्पूर्वेणैव णकारेणात्राण् गृह्रत इति सूचितम् । तृढो वृढ इति । अत्र ऋकारस्य दीर्घनिवृत्त्यर्थमण्ग्रहणम् । ऋकारश्चात्र अण्ग्रहणे न गृह्रते । पूर्वेणैव णकारेण प्रत्याहाराश्रयणात्, अन्यथा दीर्घश्रुत्या ‘अच’ इत्युपस्थितौ किमण्ग्रहणेनेति भावः । ननु तृढो वृढ इत्यत्र ढ्रलोपस्यैवाऽभावाद्दीर्घाऽप्रसक्तेरण्ग्रहणं व्यर्थमित्याशङ्क्य तत्र ढलोपं दर्शयितुमाह — तृहू हिंसायाम् । वृहू उद्यमन इति । आभ्यां क्तप्रत्यये ‘हो ढः’ इति ढत्वे ‘झषस्तथोः’ इति तकारस्य धत्वे, तस्य ष्टुत्वेन ढकारे, ढो ढे लोप इति पूर्वस्य ढकारस्य लोपे, तृढो वृढ इति रूपे । अत्र ढलोपनिमित्ते ढकारे परे ऋकारस्य दीर्घनिवृत्त्यर्थमण्ग्रहणमिति भावः । ननुतस्मिन्निति निर्दिष्टे पूर्वस्य॑त्येव सिद्धौ पूर्वस्येति किमर्थमित्यत आह — पूर्वग्रहणमिति । ‘ढ्रलोप’ इति सूत्रस्य ‘अलुगुत्तरपदे’ इत्युत्तरपदाधिकारस्थत्वादुत्तरपदस्थयोरेव ढ्रलोपनिभित्तभूतढरेफयोः परतः पूर्वपदस्थत्वाभावाच्च । इष्यते च लीढो गुढ इति । अतः पूर्वग्रहणम् । कृते तु पूर्वग्रहणे तत्सामर्थ्यादनुत्तरपदस्थयोरपि ढरेफयोः परतोऽपूर्वपदस्थस्यापि पूर्वस्या.ञणो दीर्घः सिध्यतीत्यर्थः । तथा उत्तरपद इत्यस्यानुवृत्तौ अजर्घा इत्यत्रापि दीर्घो न स्यात् ।गृधु अभिकाङ्क्षायाम् । यङ्लुक्, द्वित्वम्, हलादिः शेषः, अब्यासस्य रुक्, कुहोश्चुः, जश्त्वम् , लङ् सिप्, शप्, लुक्, लघूपधगुणः, रपरत्वम्, इतश्चेति इकारलोपः, हल्ङ्यादिना सुलोपः, जर्गर्ध् इति स्थिते ‘एकाचो बश’ इति गकारस्य भष्भावो घकारः, जश्त्वं दकारः, दश्चेति रुः, अडागमः, अजर्घर् र् इति स्थिते रो रीति रेफलोपः, ढ्रलोप इति दीर्घः, विसर्गः । अजर्घा इति रूपम् । अत्रापि रेफलोपनिमित्तरेफस्य उत्तरपदस्थत्वाभावात्तस्मिन् परतोऽकारस्य दीर्घो न स्यात् । अत उत्तरपदानुवृत्तिनिवृत्तये पूर्वग्रहणम् । यद्यपि ढ्रलोपे इत्यत्र ढलोपनिमित्तढकारविषये उत्तरपद इत्यस्यानुवृत्तिसंभवादेव न सम्भवति, तथापि ‘अजर्घा’ इत्यत्र रेफलोपनिमित्तरेफविषये उत्तरपद इत्यस्यानुवृत्तिनिवृत्तये पूर्वग्रहणम् । तदनुवृत्तौ हि नीरक्तम्, दूरक्तमित्यादावेव स्यात् । ‘अजर्घा’ इत्यत्र न स्यात् । पुना रमत इत्यादावसमासे ।ञपि न स्यात् । उत्तरपदशब्दस्य समासचरमावयव एव रूढत्वादित्यलम् । ननु मनोरथ इत्यत्र मनस्-रथ इति स्थिते, सस्य रुत्वे, तस्य रेफस्यहशि चे॑त्युत्वं रो री॑ति लोपश्चेत्युभयं प्रसक्तं, तत्र कतरद्बाध्यमित्यत्र निर्धारयति — मनस् रथ इत्यत्रेति । मनस्-रथैत्यत्र रुत्वे कृते, हशि चेत्युत्वे, रो रीति रेफलोपे च प्राप्ते उत्वमेवेत्यन्वयः ।
Tattvabodhini¶
ढ्रलोपे पूर्वस्य दीर्घोऽणः - ढ्रलोपे ।रे॑त्यकार उच्चारणार्थः । ढश्च रश्च ढ्रौ, तौ लोपयतीति ढ्रलोपः । णिजन्तात्कर्मण्यण्युपपदसमासः । तृढो वृढ इति । ऊदित्त्वेन वेट्कत्वाद्यस्य विभाषेति निष्ठायां नेट् । ढत्वधत्वष्टुत्वढलोपाः । प्राचा तुदृढ॑ इति प्रत्युदाहृतं, तदसत्, तत्र ढलोपस्यैवाऽभावात् ।दृढः स्थूलबलयो॑रिति घत्वेन बाधात् । न चेडभावो ढत्वं नलोपश्च निपात्यतां, धत्वष्टुत्वढलोपास्तु भविष्यन्त्येवेति वाच्यम्, तथा सतिपरिद्रढय्ये॑त्यत्रल्यपि लघुपूर्वा॑दिति णेरयादेशो न स्यात् । [तथा]पारिवृढी कन्ये॑त्यत्रइतो मनुष्यजाते॑रिति ङीषं बाधित्वाअणिञो॑रिति ष्यङ् स्यात्, ढलोपस्याऽसिद्धत्वेन गुरूपोत्तमत्वादित्याकरे स्थितम् । ननुपरिद्रढय्ये॑त्यत्र ल्यबादेशः कथं भवेद्यावता परिदृढमाचण्टे इति णिचि कृते क्त्त्वाप्रत्यये च क्त्त्वान्त एव परेरन्तर्भावात्समासाऽभाव इति चेदत्र कैयटः-सङ्ग्रामयतेरेव सोपसर्गात्प्रत्ययोत्पत्तिर्नान्यस्मादिति नियमात्परिशब्दं पृथक्कृत्य दृढशब्दादेव णिच्क्रियते । णिजन्तस्य धातुत्वात्क्त्त्वाप्रत्यये कृते परेः क्त्त्वान्तेन कृदन्तेन समास इति सिद्धो ल्यबादेशः । णाविष्ठवद्भावाद्रभाव इति । ननुपूर्वस्ये॑ति व्यर्थं, सप्तमीनिर्देशादेव तल्लाभादत आह-पूर्वग्रहणमित्यादि ।ढ्रलोपे पूर्वस्ये॑ति सूत्रस्योत्तरपदाधिकारस्थत्वादुत्तरपदस्थयोरेव ढरेफयोः परतो दीर्घः स्यान्न तुलीढः॑अजर्घाः॑ इत्यत्रेति भावः । यद्यप्यसंभवादेवानुत्तरपदस्थे ढकारे दीर्घो भनेत्तथाप्यजर्घा इत्यत्र दीर्घो न स्यादिति ज्ञेयम् । वस्तुतस्तूत्तरपदस्य समासचरमावयवे रूढत्वात्पुना रमत इत्यादावपि न स्यात्, किंतुनीरक्तं॑दूरक्त॑मित्यादावेव स्यादिति तत्त्वम् । लीढ इति ।लिह आस्वादने॑ क्तः । ढत्वधत्वष्टुत्वढलोपाः । इह ढलोपं प्रति ष्टुत्वं नासिद्धं, ढकारे परतो लोपविधिसामर्थ्यात् । अतएवढो ढे लोपः॑ इत्यस्य पदाधिकारस्थत्वेऽप्यपदान्तस्य ढस्य लोपो भवति । अजर्घा इति ।गृधु अभिकाङ्क्षायां॑ यङ्लुकि द्वित्वे अभ्यासस्य रुक् । लङः सिपि शब्लुकि सिप ईडभावपक्षे लघूपधगुणो रपरः ।इतश्चे॑तीकारलोपे हल्ङ्यादिलोपः । भष्भावः । जश्त्वं ।दश्चे॑ति रुत्वपक्षेअजर्घर् र् इति स्थितेरोरी॑ति रेफलोपेऽनेन दीर्घः । अत्रेयं सुगमा व्याख्या-ढ्रलोपे पूर्वस्य दीर्घोऽणः । लीढः । नीरक्तं । दूरक्तम् । अणः किम् । तृढः वृढः । पूर्वग्रहणमनुत्तरपदेऽप#इपूर्वमात्रस्य दीर्घार्थम् । अजर्घाः । पुना रमते । हरी रम्यः । शम्भू राजते॑ इति ।
Padamanjari¶
रेफे अकार उच्चारणार्थः । यद्ययं षष्ठीतत्पुरुषः स्यात्, तदाणः पूर्वत्वं नोपपद्यते, लोपस्याभावरुपत्वात् । अथापि बुद्धिपरिकल्पितं पौर्वापर्यमाश्रीयते एवमपि करणीयमित्यादावप्यनीयरो रेफस्य लोपे परतः पूर्वस्य दीर्घप्रसङ्ग इति तत्पुरुषे एवं दोषं दृष्ट्वा कण्ठेकालवद्व्यधिकरणपदो बहुव्रीहिरित्याह - ढकाररेफयोर्लोपो यस्मिन्निति । अत्र लिङ्गम् - भव्यगेयप्रवचनीय इति निर्देशः । लीढमिति । लिह आस्वादने, निष्ठा, ढत्वधत्वष्टुअत्वढलोपेषु रुपम्, मिह सेचने, गुह संवरणे, मुह नैचित्ये । पूर्वग्रहणमनर्थकम्, तस्मिन्निति निर्दिष्टे पूर्वस्य इति सिद्धेः इत्यत आह - पूर्वग्रहणमित्यादि । सति पूर्वग्रहणे यद्यपि ढलोपे वचनप्रामाण्यादनुतरपदेऽपि स्यात्, रलोपे त्वनुतरपदे न स्यात् नीरक्तमित्यादाबुतरपदस्यापि सम्भाव्त । आतृढमिति । तृहूहिंसायाम् यस्य विभाषा इतीट्प्रतिषेधः । क्वचिदादृढमिति पाठः, तदसत् ,सेट्त्वादस्य धातोः दृढः स्थूलबलयोः इति हलोपो निपात्यते । आवृढमिति वृहू उद्यमने ॥
Nyaas¶
कदजः इति। कुत्सितोऽज इति कुगतिप्रादयः (2.2.18) इति समासः कूष्ट्रो राजेति बहुव्रीहिः। कद्भावे इत्यादि। अजादावत्तरपदे कद्भाव उच्यमानस्त्रिशब्द उत्तरपदे न प्राप्नोति। तस्मात् त्रिशब्दादुत्तरपदात्? पूर्वो यः कुशब्दः, तस्य कद्भावस्योपसंख्यानम्=प्रतिपादनं कर्तव्यम्। तत्रेदं प्रतिपादनम् -उत्तरसूत्रे चकारः क्रियते, सचानुक्तसमुच्चयार्थः। तेन त्रिशपब्देऽप्युत्तरपदे परतः कद्भावो भविष्यतीति॥
Praudhamanorama¶
तृढो वृढ इति। उदित्त्वेन वेट्कत्वात् यस्य विभाषा (7.1.15) इति निष्ठायां नेट्। ढत्वधत्वष्टुत्वढलोपाः। यत्तु प्राचा प्रत्युदाहृतं दृढ इति तन्न। तत्र ढलोपस्यैवाभावात्। तथा हि, दृढः स्थूलबलयोः (7.2.20) इति सूत्रेण दृंहेर्नकारहकारयोर्लोपः, तकारस्य ढत्वं च निपात्यते न त्वसिद्धकाण्डस्थढत्वस्येह प्रवृत्तिः दादेर्धातोः— (8.2.32) इति घत्वेन बाधात्। न च इडभावो ढत्वं च निपात्यतां धत्वष्टुत्वढलोपास्तु भविष्यन्त्येवेति वाच्यम्, तथा सति परिद्रढय्येत्यत्र ल्यपि लघुपूर्वात् (6.4.56) इति णेरयादेशो न स्यात्, पारिदृढी कन्येत्यत्र अणिञोः— (4.1.78) इति ष्यङ् च स्यात्, ढलोपस्यासिद्धत्वेन गुरूपोत्तमत्वादिति भाष्ये स्थितम्। यत्तु प्राचा व्याख्यातं दृंहेरेवेदं निपातनं, दृह वृद्धाविति तु प्रकृत्यन्तरम्, तस्य निष्ठायामागमशास्त्रस्यानित्यत्वादिडभावे वा द्रुह— (8.2.33) इत्यत्र ‘वा’ इति योगविभागात् पक्षे घत्वाभावे ढलोपे च प्रत्युदाहरणमिदं द्रष्टव्यमिति। तन्न। उभयोरपि निपातनाभ्युपगमात्। तदाह वामनः— अथ दृहिः प्रकृत्यन्तरमस्ति तस्याप्येतन्निपातनं नलोपवर्जमिति। युक्तं चैतत्। अन्यथा हि अस्माद् णेरय् न स्यात्, ष्यङ् च स्यात्।
Sarala¶
ढश्च रश्च ढ्रौ । ढ्रौ लोपयतीति ढ्रलोपः, तस्मिन् ढ्रलोपनिमित्ते ढकारे, रेफलोपनिमित्ते रेफे च परे पूर्वस्याऽणो दीर्घ इति यावत् । उत्तरपदाधिकारनिवृत्त्यर्थमत्र पूर्वग्रहणं, तेन व्यस्तेऽपि पूर्वस्य दीर्घः सिद्ध्यति । तदाह - पुना रमते इत्यादि ॥
Sudha¶
** ढ्रलोप इति ।** ढ् च रेफश्च ढ्रौ तौ लोपयतीति ढ्रलोपः । ण्यन्तात्कर्मण्युपपदे अण्, उपपदसमासः । ढलोपनिमित्तकं रेफलोपनिमित्तञ्च विवक्षितम् । तच्च ढकाररेफात्मकमेव । ढो ढे लोपः (8.3.13), रो रि (8.3.14) इति तयोरेव ढ्रलोपनिमित्तत्वात् । तथा च ढलोपनिमित्ते ढकारे रेफलोपनिमित्ते रेफे च परतः पूर्वस्याणो दीर्घः इति फलति तदाह— ढरेफयोरित्यादिना । पुना रमते इति । “पुनर् रमते” इति स्थिते रो रि (8.3.14) इत्यनेन रेफस्य लोपे “पुन रमते” इति जाते, अत्र ढ्रलोपे पूर्वस्य दीर्घोऽणः (6.3.111) इति सूत्रेणात्र लोपनिमित्ते रेफे परे पूर्वाण्-रूपस्य नकारोत्तवर्तिनोऽकारस्य दीर्घे च विहिते “पुना रमते” इति सिद्धम् ।”हरिस् रम्यः” इत्यत्र ससजुषो रुः (8.2.66) इत्यनेन सस्य रुत्वे, अनुबन्धलोपे “हरिर् रम्यः” इति जाते; तत्र रो रि (8.3.14) इत्यनेन रेफस्य लोपे ढ्रलोपे पूर्वस्य दीर्घोऽणः (6.3.111) इत्यनेन दीर्घे च कृते “हरी रम्यः” इति सिद्धम् । “शम्भूस् राजते” अत्र ससजुषो रुः (8.2.66) इत्यनेन रुत्वे उकारस्येत्संज्ञायां लोपे च “शम्भुर् राजते” इति जाते तत्र रो रि (8.3.14) इत्यनेन रेफस्य लोपे ढ्रलोपे पूर्वस्य दीर्घोऽणः (6.3.111) इत्येननोकारस्य दीर्घे “शम्भू राजते” इति भवति । तृहूँ हिंसायाम्, वृहूँ उद्यमने आभ्यां क्तप्रत्यये हो ढः (8.2.31) इति ढत्वे, झषस्तथोर्धोऽधः (8.2.40) इति तकारस्य धत्वे तस्य ष्टुत्वेन ढकारे “तृढ् ढ”,, “वृढ् ढ” इति जाते अत्र ढो ढे लोपः (8.3.13) इत्यनेन पूर्वढस्य लोपे सति ढ्रलोपे पूर्वस्य दीर्घोऽणः (6.3.111) इत्यस्मिन् सूत्रे अण्-ग्रहणाभावे ढलोपनिमित्ते ढकारे परे पूर्वस्य ऋकारस्य दीर्घे प्राप्ते तन्मा भूत् इति अण्-ग्रहणमत्र कृतम् । तेनात्र न दीर्घस्तदेवाह — **अणः किम्? तृढः वृढः इति ** ॥
Sutra Prayogas¶
पुना रोद्धुम् (शिशुपालवधम्): ढ्रलोपे पूर्वस्य दीर्घोऽणः इति दीर्घः।
नीलमूर्ती (शिशुपालवधम्): ढ्लोपे पूर्वस्य- इति दीर्घः।
संपन्नवपू रणेषु (शिशुपालवधम्): ट्रलोपे पूर्वस्य दीर्घोऽणः इति रेफलोपे सति पूर्वस्य अणः (उकारस्य) दीर्घः।
**** (भट्टिकाव्यम्): टू- लोपे इति दीर्घत्वम् ।
कथाभी (भट्टिकाव्यम्): ढलोपे इति दीर्घः।
धनू रामो (भट्टिकाव्यम्): ढ्रलोपे पूर्वस्य दीर्घोऽणः इति दीर्घः।