63102: रथवदयोश्च¶
Padacheda: रथ-वदयोः | S | 7 | 2 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
कत् is substituted for कु before रथ and वद।
Vasu English Translation¶
कत् is substituted for कु before रथ and वद। Thus कद्रथः, कद्वदः ॥
Kashika¶
रथ वद इत्येतयोश्चोत्तरपदयोः कोः कदित्ययमादेशो भवति। कद्रथः। कद्वदः॥
Siddhanta Kaumudi¶
कद्रथः । कद्वदः ॥
Balamanorama¶
रथवदयोश्च - रथवदयोश्च । ‘कोः कत्तत्पुरुषे’ इति शेषः । कद्रथः कद्वद इति ।कुगती॑ति समासः । वदतीति वदः । कुत्सितो वदः कद्वदः ।
Nyaas¶
विष्वद्रङ् इति। विष्वगञ्चतीति ऋत्विगादिसूत्रेण (3.2.59) क्विन्, उगिदचाम् (7.1.70) इति नुम्, हल्ङ्यादिसंयोगान्तलोपौ, क्विन्प्रत्ययस्य कुः (8.2.62) इति कुत्वम्। अद्रिसध्र्योरन्तोदात्तनिपातम् इत्यादि। विष्वद्रङित्यत्रानेनाद्रआदेशे कृते सध्य्रङित्यत्र सहस्य सध्य्रादे देशे च गतिकारकोपपदात् कृत् (6.2.139) इति प्रकृतिस्वरेणोत्तरपदसर्यान्तोदात्तत्वं प्राप्नोति, स्वरितत्वं चेष्यते। तस्मादुत्तरपदान्तोदात्ततवविधानार्थमिहाद्रिसध्य्रारेन्तोदात्तत्वं निपात्यते। तेन शेषं भवत्यनुदात्तम्। तत्र यणादेशे कृते सति उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य (8.2.4) इति स्वरितत्वमुत्तरपदस्य सिद्धम्। अथ वप्रत्ययगरहणं किमर्थम्, यावता अञ्चतौ इत्युक्ते केवल एवाञ्चतावुत्तरपदे कार्येण भवितव्यम्। वप्रत्ययान्त एवाञ्चतिः केवलमुत्तरपदं भवति। तत्रैतद्वक्तव्यमञ्चतावित्याह -वप्रत्ययग्रहणम् इत्यादि। अन्यत्र धातुग्रहणे, धात्वादेः प्रकृतिपरतययसमुदायस्य प्रतिपत्तिः=प्रतीतिर्यथा स्यादित्येवमर्थं वप्रत्ययग्रहणम्। अनेन ह्रयमर्थो विज्ञाप्यते -इतोऽन्यत्र धातुगरहणे सति न केवलं धातुरेव गृह्रते, अपि तु धात्वादिः शब्द इति। तेनायस्कृतम्, अयस्कार इत्यत्र अतः कृकमि (8.3.46) इत्यादिना विसरजनीयस्य सकारः सिद्धो भवति। यदि पुनरयमर्थो न विज्ञाप्येत, तदा करोतेरेव केवलस्य ग्रहणं स्यात्; ततो यत्र करोतेः केवलस्य प्रत्ययरहितस्य प्रयोगस्तत्रैव स्यात् -अयस्कृदिति। अत्र तुगागमः करोतेरेव भकतत्वात्? तद्ग्रहणेनैव गृह्रत इति करोतेरेव केवलस्य प्रयोगः। अआआची इति। अआमञ्चतीति क्विन्, अञ्चतेश्चोपसंख्यानम् (वा।336) इति ङीप्, अचः (6.4.138) इत्यकारलोपः चौ (6.3.137) इति दीर्घः। विष्वग्युक् इति। विष्वगयुनक्तीति सत्सूद्विष (3.2.61) इत्यादिना क्विप्। विष्वगञ्चनम् इति। ल्युट्? च (3.3.115) इति ल्युट्। छन्दसि इत्यादि। छन्दसि विषये स्त्रियामभिधेयायां बहुलमद्रआदेशे भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -विभाषोदरे (6.3.88) इत्यतो विभाषाग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा। इह वा चकारोऽनुक्तसमुच्चयार्थः, तेन च्छन्दसि विषये विष्वगावेरन्यत्रापि क्वचिदद्रआदेशो भवतीति, क्वचिन्न भवत्येव। ननु च सर्वनाम्नोऽनुकर्षणार्थश्चकारः? नैतदस्ति; स्वरितत्वादेव हि सर्वनाम्नोऽनुवृत्तिर्भविष्यति। विआआची इत्यादि। विआघृतकिंशब्देषूपपदेष्वञ्चतेः पूर्ववत्? क्विन्, ङीबादिकार्यञ्च॥
Prakriyasarvasvam¶
कद्रथः । बहुव्रीहिस्तत्पुरुषो वा । कद्वदः । पचाद्यच् । चकारात् कुत्सित- श्चरतीति कच्चरो मलिनः ॥
Sutra Prayogas¶
कद्-वदं (भट्टिकाव्यम्): कुत्सितं वदतीति रथ-वदयोश्च इति कोः कदादेशः।
कद्-रथ-वद्भीमंबभञ्ज (भट्टिकाव्यम्): रथ- चदयोश्च इति कदादेशः।