63102: रथवदयोश्च ================ **Padacheda:** रथ-वदयोः | S | 7 | 2 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- कत् is substituted for कु before रथ and वद। Vasu English Translation ------------------------ कत् is substituted for कु before रथ and वद। Thus कद्रथः, कद्वदः ॥ Kashika ------- रथ वद इत्येतयोश्चोत्तरपदयोः कोः कदित्ययमादेशो भवति। कद्रथः। कद्वदः॥ Siddhanta Kaumudi ----------------- कद्रथः । कद्वदः ॥ Balamanorama ------------ **रथवदयोश्च** - रथवदयोश्च । 'कोः कत्तत्पुरुषे' इति शेषः । कद्रथः कद्वद इति ।कुगती॑ति समासः । वदतीति वदः । कुत्सितो वदः कद्वदः । Nyaas ----- `विष्वद्रङ्` इति। विष्वगञ्चतीति ऋत्विगादिसूत्रेण (3.2.59) क्विन्, `उगिदचाम्` (7.1.70) इति नुम्, हल्ङ्यादिसंयोगान्तलोपौ, **क्विन्प्रत्ययस्य कुः** (8.2.62) इति कुत्वम्। `अद्रिसध्र्योरन्तोदात्तनिपातम्` इत्यादि। विष्वद्रङित्यत्रानेनाद्रआदेशे कृते सध्य्रङित्यत्र सहस्य सध्य्रादे देशे च **गतिकारकोपपदात् कृत्** (6.2.139) इति प्रकृतिस्वरेणोत्तरपदसर्यान्तोदात्तत्वं प्राप्नोति, स्वरितत्वं चेष्यते। तस्मादुत्तरपदान्तोदात्ततवविधानार्थमिहाद्रिसध्य्रारेन्तोदात्तत्वं निपात्यते। तेन शेषं भवत्यनुदात्तम्। तत्र यणादेशे कृते सति **उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य** (8.2.4) इति स्वरितत्वमुत्तरपदस्य सिद्धम्। अथ वप्रत्ययगरहणं किमर्थम्, यावता `अञ्चतौ` इत्युक्ते केवल एवाञ्चतावुत्तरपदे कार्येण भवितव्यम्। वप्रत्ययान्त एवाञ्चतिः केवलमुत्तरपदं भवति। तत्रैतद्वक्तव्यमञ्चतावित्याह -`वप्रत्ययग्रहणम्` इत्यादि। अन्यत्र धातुग्रहणे, धात्वादेः प्रकृतिपरतययसमुदायस्य प्रतिपत्तिः=प्रतीतिर्यथा स्यादित्येवमर्थं वप्रत्ययग्रहणम्। अनेन ह्रयमर्थो विज्ञाप्यते -इतोऽन्यत्र धातुगरहणे सति न केवलं धातुरेव गृह्रते, अपि तु धात्वादिः शब्द इति। तेनायस्कृतम्, अयस्कार इत्यत्र `अतः कृकमि` (8.3.46) इत्यादिना विसरजनीयस्य सकारः सिद्धो भवति। यदि पुनरयमर्थो न विज्ञाप्येत, तदा करोतेरेव केवलस्य ग्रहणं स्यात्; ततो यत्र करोतेः केवलस्य प्रत्ययरहितस्य प्रयोगस्तत्रैव स्यात् -अयस्कृदिति। अत्र तुगागमः करोतेरेव भकतत्वात्? तद्ग्रहणेनैव गृह्रत इति करोतेरेव केवलस्य प्रयोगः। `अआआची` इति। अआमञ्चतीति क्विन्, `अञ्चतेश्चोपसंख्यानम्` (वा।336) इति ङीप्, `अचः` (6.4.138) इत्यकारलोपः `चौ` (6.3.137) इति दीर्घः। `विष्वग्युक्` इति। विष्वगयुनक्तीति `सत्सूद्विष` (3.2.61) इत्यादिना क्विप्। `विष्वगञ्चनम्` इति। `ल्युट्? च` (3.3.115) इति ल्युट्। `छन्दसि` इत्यादि। छन्दसि विषये स्त्रियामभिधेयायां बहुलमद्रआदेशे भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -**विभाषोदरे** (6.3.88) इत्यतो विभाषाग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा। इह वा चकारोऽनुक्तसमुच्चयार्थः, तेन च्छन्दसि विषये विष्वगावेरन्यत्रापि क्वचिदद्रआदेशो भवतीति, क्वचिन्न भवत्येव। ननु च सर्वनाम्नोऽनुकर्षणार्थश्चकारः? नैतदस्ति; स्वरितत्वादेव हि सर्वनाम्नोऽनुवृत्तिर्भविष्यति। `विआआची` इत्यादि। विआघृतकिंशब्देषूपपदेष्वञ्चतेः पूर्ववत्? क्विन्, ङीबादिकार्यञ्च॥ Prakriyasarvasvam ----------------- कद्रथः । बहुव्रीहिस्तत्पुरुषो वा । कद्वदः । पचाद्यच् । चकारात् कुत्सित- श्चरतीति कच्चरो मलिनः ॥ Sutra Prayogas -------------- * **कद्-वदं** (भट्टिकाव्यम्): `कुत्सितं वदतीति रथ-वदयोश्च` इति कोः कदादेशः। * **कद्-रथ-वद्भीमंबभञ्ज** (भट्टिकाव्यम्): `रथ- चदयोश्च` इति कदादेशः।