63103: तृणे च जातौ¶
Padacheda: तृणे | S | 7 | 1 |
च | S | 0 | 0 |
जातौ | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
कत् is substituted for कु when तृण follows denoting a species.
Vasu English Translation¶
कत् is substituted for कु when तृण follows denoting a species. As कत्तृणा नाम जातिः ॥ But कुत्सितानि तृणानि = कुतृणानि ॥
Kashika¶
तृणशब्द उत्तरपदे जातावभिधेयायां कोः कदित्यादेशो भवति। कत्तृणा नाम जातिः। जाताविति किम्? कुत्सितानि तृणानि कुतृणानि॥
Siddhanta Kaumudi¶
कत्तृणम् ॥
Balamanorama¶
तृणे च जातौ - तृणे च जातौ । तृणशब्दे कोः कत्स्याज्जातौ वाच्यायाम् । कत्तृणमिति । तृणजातिविशेषोऽयम् ।अस्त्री कुशं कुथो दर्भः पवित्रमथः कत्तृण॑मित्यमरः ।
Prakriyasarvasvam¶
कत्तृणम् ॥