63094: तिरसस्तिर्यलोपे¶
Padacheda: तिरसः | S | 6 | 1 |
तिरि | S | | | 1
अलोपे | S | 7 | 1 |
Sutrartha¶
‘तिरस्’ इत्यस्मात् परं यदि ‘अञ्च्’ धातोः अलुप्त-अकारात्मकं लुप्तप्रत्ययान्तं च रूपमागच्छति, तर्हि ‘तिरस्’ इत्यस्य ‘तिरि’ इति आदेशः भवति ।
अस्मिन् सूत्रे प्रयुक्तानाम् शब्दानामादौ अर्थं पश्यामः - 1) अप्रत्ययः = अविद्यमानः प्रत्ययः यस्मात् सः । इत्युक्ते, यस्मात् शब्दात् विहितस्य प्रत्ययस्य सम्पूर्णरूपेण लोपः भवति, प्रत्ययः च न श्रूयते, तादृशः शब्दः । क्विप् प्रत्ययः क्विन्-प्रत्ययः च सर्वापहारिणौ प्रत्ययौ स्तः, अतः एताभ्यां कश्चन प्रत्ययः यस्य अन्ते अस्ति, सः शब्दः अत्र अभिप्रेतः अस्ति । (स्मर्तव्यम् - अत्र ‘अप्रत्ययः = न प्रत्ययः / प्रत्ययविहीनः’ इति अर्थः नास्ति, केवलं ‘अविद्यमानः / अश्रूयमाणः प्रत्ययः यस्मात्, सः’ इत्येव अर्थः स्वीकर्तव्यः । ) 2) अञ्चतौ = इयम् परसप्तमी । अञ्चुँ (गतिपूजनयोः) अस्य धातोः अयं निर्देशः कृतः अस्ति । अत्र ‘अप्रत्यये’ इति ‘अञ्चतौ’ इत्यस्य विशेषणमस्ति, अतः अत्र तादृशस्य अञ्च्-धातोः ग्रहणं क्रियते यस्मात् सर्वापहारी क्विप् / क्विन् प्रत्ययः प्रयुक्तः अस्ति । 3) अलोपे = अस्य शब्दस्य विग्रहः अयम् - ‘अकारस्य लोपः = अल्लोपः ; न विद्यते अल्लोपः यस्मिन्, सः = अलोपः’ । इत्युक्ते, यस्मिन् शब्दे अकारस्य लोपः न कृतः अस्ति, सः शब्दः अत्र ‘अलोपः’ इत्यनेन निर्दिश्यते । अयमपि ‘अञ्चतौ’ इत्यस्यैव विशेषणमस्ति, अतः अनेन तादृशः अञ्च्-शब्दः स्वीक्रियते यस्य अकारस्य लोपः कृतः नास्ति । 4) उत्तरपदे = उत्तरपदस्य उपस्थितौ । एतत् सूत्रम् अलुगुत्तरपदे (6.3.1) अस्मिन् अधिकारे अस्ति, अतः अत्र उत्तरपदस्य उपस्थितिः आवश्यकी । अत्र ‘उत्तरपदे’ इति ‘अञ्चतौ’ इत्यस्य विशेषणमस्ति । अतः अञ्च्-धातोः अप्रत्ययान्तरूपम् यत्र उत्तरपदरूपेण उपस्थीयते, तत्र अस्य सूत्रस्य प्रसक्तिः अस्ति । 5) तिरसः = तिरस्-शब्दस्य स्थाने। इयं स्थानषष्ठी । 6) तिरि = अयमादेशः अस्ति । अतः सूत्रस्य सम्पूर्णः अर्थः एतादृशः भवति - यदि अञ्च्-धातोः लुप्तप्रत्ययान्तं रूपम्, यस्मिन् अकारस्य लोपः न कृतः अस्ति, (कस्मिंश्चित् शब्दे) उत्तरपदरूपेण आगच्छति, तथा च, (तस्मिनन्नेव शब्दे) ‘तिरस्’ इति शब्दः पूर्वपदरूपेण उपस्थितः अस्ति, तर्हि ‘तिरस्’ इत्यस्य ‘तिरि’ इति आदेशः भवति । यथा, ‘तिरस् + अञ्च् + क्विन्’ इत्यत्र क्विन्-प्रत्ययस्य सम्पूर्णरूपेण लोपः भवति । तथा च, अञ्च्-इत्यस्य नकारस्य अपि अनिदितां हलः उपधायाः क्ङिति (6.4.24) इत्यनेन लोपः भवति, अतः ‘तिरस् + अच्’ इति प्रातिपदिकं जायते । अस्य प्रथमैकवचनस्य प्रक्रियायाम् ‘तिरस् + अच् + सुँ’ इत्यत्र अकारलोपः न भवति, अतः वर्तमानसूत्रेण तिरस्-इत्यस्य ‘तिरि’ इति आदेशः भवति, अतः ‘तिर्यङ्’ इति प्रथमैकवचनस्य रूपं सिद्ध्यति । यत्र ‘अञ्च्’ धातोः अकारस्यापि लोपः भवति, तत्र तु अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, ‘तिरस् + अच्’ शब्दस्य द्वितीयाबहुवचनस्य प्रक्रिया इयम् - तिरस् + अच् + शस् → तिरस् + च् + अस् [अचः (6.4.138) इति अकारस्य लोपः] → तिरश्चः [अकारलोपे कृते वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः तिरस्-इत्यस्य तिरि-आदेशः न भवति । अग्रे विसर्गनिर्माणं श्चुत्वं च कृत्वा रूपं सिद्ध्यति ।]
Sutrartha (English)¶
If the word ‘तिरस्’ is followed by a लुप्तप्रत्ययान्त-अञ्च् word from which an अकार has not been removed, then the word ‘तिरस्’ is converted to ‘तिरि’.
Vasu English Summary¶
तिरि is substituted for तिरस् before this अञ्च् when no affix (or व affix) follows, provided that the अ of अञ्च् is not elided.
Vasu English Translation¶
तिरि is substituted for तिरस् before this अञ्च् when no affix (or व affix) follows, provided that the अ of अञ्च् is not elided. Thus तिर्यङ्, तिर्यञ्चौ, तिर्यञ्चः ॥ Why do we say ‘when there is no elision’? Observe तिरश्चा, तिरश्चे ॥ Here अ is elided by (6.4.138). The word अलोपे in the sutra is ambiguous. It may mean either (1) “where अ is elided” or (2) “Where there is no elision”. The latter meaning should be taken however.
Kashika¶
तिरस् इत्येतस्य तिरि इत्ययमादेशो भवत्यञ्चतौ वप्रत्ययान्त उत्तरपदेऽलोपे, यदास्य लोपो न भवति। तिर्यङ्, तिर्यञ्चौ, तिर्यञ्चः। अलोप इति किम्? तिरश्चा। तिरश्चे। **अचः**(६.४.१३८) इत्यकारलोपः॥
Siddhanta Kaumudi¶
अलुप्ताकारेऽञ्चतौ वप्रत्ययान्ते परे तिरसस्तिर्यादेशः स्यात् । तिर्यङ् । तिर्यञ्चौ । तिर्यञ्चः । तिर्यञ्चम् । तिर्यञ्चौ । तिरश्चः । तिरश्चा । तिर्यग्भ्यामित्यादि ॥
Laghu Siddhanta Kaumudi¶
अलुप्ताकारेऽञ्चतौ वप्रत्ययान्ते तिरसस्तिर्यादेशः। तिर्यङ्। तिर्यञ्चौ। तिरश्चः। तिर्यग्भ्याम्॥
Balamanorama¶
तिरसस्तिर्यलोपे - तिरसस्तिर्यलोपे । ‘तिरि’ इति लुप्तप्रथमाकम् । ‘॒अञ्चतावप्रत्यये’ इत्यनुवर्तते । न विद्यते ‘अचः’ इत्यल्लोपो यस्य सअलोपः॑, तस्मिन्निति विग्रहः । तदाह — अलुप्तेत्यादिना । तिर्यङिति । तिरः-अञ्चतीति विग्रहे क्विन्नादि । तिरसस्तिर्यादेशे यण् । तिरश्चेति । शसादावचि ‘अचः’ इत्यल्लोपसत्त्वान्नतिर्यादेशः । सस्य श्चुत्वेन श इति भावः ।
Tattvabodhini¶
तिरसस्तिर्यलोपे - तिरसः । न विद्यते लोपो यस्य सःअलोप॑इति बहुव्रीहिः । अञ्चतावित्यनुवर्तमानमन्यपदार्थः । अवयवद्वारकश्च लोपः समुदाये उपचर्यत इत्यभिप्रेत्याह -अलुप्ताकार इत्यादि ।अकारलोपे सती॑ति नोक्तं, व्याख्यानात् । अप्रत्ययान्ते किम्,तिरोऽञ्चन॑मित्यादौ मा भूत् । तिरश्च इथि । लुप्ताऽकारत्वात्तिर्यादेशाऽभावे सस्य श्रुत्वेन शः । न चाऽल्लोपस्य स्थानिवत्त्वात् । श्चुत्वं न स्यादिति वाच्यम्, पूर्वत्रासिद्धे तदभावात्पदान्तविधित्वाच्च ।
Nyaas¶
सगर्भः, सपूथ्यः इति। समानो गर्भः, समानं यूथमिति विगृह्र पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च (2.1.58) इत्यादिना कर्मधारयः। साधम्र्यम् इति। बहुव्रीहेर्भावप्रत्ययः। सजातीयः इति। अत्रापि बहुव्रीहेरेव जात्यन्ताच्छ बन्धुनि (5.4.9) इति च्छः। सस्थानीयः इति। स्थानान्ताद्विभाषा सस्थानेनेति चेत् (5.4.10) इति च्छप्रत्ययः॥
Prakriyasarvasvam¶
अलुप्ताकारेऽञ्चतौ परे तिरसस्तिरि स्यात् । तिर्यङ् । तिर्यञ्चौ । भत्वे ‘अचः’ (६-४-१३८) इत्यल्लोपे तिर्यदिशो न । श्रुत्वम् । तिरश्चः । तिरश्चा । तिर्यग्भ्याम् । पूजार्थस्वाञ्चेः क्विन् । प्राङ् च् । ‘नाञ्चेः पूजायाम्’ (६-४-६०) इति नलोपाभावः । सौ लुप्ते संयोगान्तलोपे कुत्वम् । प्राङ् पूजयिता । प्राञ्चौ । प्राञ्चः । प्राञ्चम् । प्राञ्चौ । प्राञ्चः । प्राञ्चा । संयोगान्तलोपः । कुत्वम् । प्राङ्भ्याम् । प्राङ्क्षु । ‘ङणोः कुक्टुक्-’ (८-३-२८) इति वा कुक् । प्राङ्क्षु प्राङ्षु । एवं पूजार्थे प्रत्यङ्- पर्यङ्ङादि । क्रुञ्चेश्च नलोपाभावात् क्रुङ् । क्रुञ्चौ । क्रुञ्चः । क्रुञ्चा । क्रुङ्भ्याम् । क्रुङ्क्षु । ‘चो कुः’ (८-२-३०) पयोमुक् । पयोमुचौ । पयोमुग्भ्याम् । सकारोपधाद् व्रश्चेः क्विपि प्रसारणम् । कंसवृस्च् स् । सुलोपः । ‘स्कोः—’ (८-२-२९) इति सलोपः कंसवृच् । भ्रश्चादिना चस्य षः । कंसवृष् । जश्त्वचर्त्वे कंसवृट् । सस्य श्रुत्वम् । कंसवृश्चौ । कंसवृश्चः । कंसवृश्चा । कंसवृड्भ्याम् ।। भवत् स् । शतुरुगित्त्वान्नुम् । भवन्त् स् । सुलोपसंयोगान्तलोपौ । भवन् । भवन्तौ । भवन्तः । हे भवन् । शसि भवतः । भवद्भ्याम् । महत् स् । नुमि ‘सान्तमहतः—’ (६-४-१०) इति दीर्घः । महान् महान्तौ । महान्तः । असम्बुद्धावेव दीर्घोक्तेः हे महन् । महान्तम् । महान्तौ । शेषं भवद्वत् । सर्वादिशु पठितो भवतुशब्द उदित् । त्यदाद्यत्वं द्विपर्यन्तानामेवेष्टमिति, भवतौ न । भवत् स् ।
Sudha¶
तिरसस्तिर्यलोप इति । अञ्चतावप्रत्यये इत्यनुवर्तते । न विद्यते **अचः**(6.4.138) इत्यल्लोपो यस्य सः, अलोपः, तस्मिन्निति विग्रहः । तदाह - अलुप्तेत्यादिना । तिर्यङ् । ‘तिरस् अन् च्’ इत्यत्र **ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च**(3.2.59) इत्यादिना क्विनि; तस्य सर्वस्यापहारे, **अनिदितां हल उपधायाः क्ङिति**(6.4.24) इति न् लोपे **तिरसस्तिर्यलोपे**(6.3.94) इति तिरसस्तिर्यादेशे **इको यणचि**(6.1.77) इति यणि कृदन्तत्वात्प्रातिपदिकसञ्ज्ञायां सावागते नुमि, हल्ङयादिना सुलोपे ‘सध्र्यन् च’ इति जाते चकारस्य संयोगान्तलोपे नकारस्य **क्विन्प्रत्ययस्य कुः**(8.2.62) इति कुत्वेन ङकारे ‘तिर्यङ्’ इति रूपम् । तिर्यञ्चौ । ‘तिरस्+अच् औ’ इति स्थिते **तिरसस्तिर्यलोपे**(6.3.94) इति तिरसस्तिर्यादेशे यणि, नुमि, अनुस्वारे, परसवर्ण च रूपम् । तिरश्चः । ‘तिरस् अच् शस्’ इति दशायां शस्येत्सञ्ज्ञायां लोपे च भसञ्ज्ञायाम् **अचः**(6.4.138) इत्यकारलोपे अल्लोपसत्वात्तिर्यादेशाभावे **स्तोः श्चुना श्चुः**(8.4.40) इति तिरसः सकारस्य शकारादेशे संयोगे रुत्वविसर्गयोः ‘तिरश्चः’ इति । तिर्यग्भ्यामिति । ‘तिरस् अच् भ्याम्’ अत्र **तिरसस्तिर्यलोपे**(6.3.94) इति तिरि आदेशे यणि कुत्वे जश्त्वे च रूपम् । एवं तिर्यग्भिः । तिरश्चा, तिरश्चः, तिरश्चः , तिरश्चोः, तिरश्चाम, तिरश्चि, तिर्यक्षु ।