63093: समः समि¶
Padacheda: समः | S | 6 | 1 |
समि | S | | | 1
Sutrartha¶
‘सम्’ उपसर्गात् परं यदि ‘अञ्च्’ धातोः लुप्तप्रत्ययान्तरूपमागच्छति, तर्हि ‘सम्’ इत्यस्य ‘समि’ इति आदेशः भवति ।
अस्मिन् सूत्रे प्रयुक्तानाम् शब्दानामादौ अर्थं पश्यामः - 1) अप्रत्ययः = अविद्यमानः प्रत्ययः यस्मात् सः । इत्युक्ते, यस्मात् शब्दात् विहितस्य प्रत्ययस्य सम्पूर्णरूपेण लोपः भवति, प्रत्ययः च न श्रूयते, तादृशः शब्दः । क्विप् प्रत्ययः क्विन्-प्रत्ययः च सर्वापहारिणौ प्रत्ययौ स्तः, अतः एताभ्यां कश्चन प्रत्ययः यस्य अन्ते अस्ति, सः शब्दः अत्र अभिप्रेतः अस्ति । (स्मर्तव्यम् - अत्र ‘अप्रत्ययः = न प्रत्ययः / प्रत्ययविहीनः’ इति अर्थः नास्ति, केवलं ‘अविद्यमानः / अश्रूयमाणः प्रत्ययः यस्मात्, सः’ इत्येव अर्थः स्वीकर्तव्यः । ) 2) अञ्चतौ = इयम् परसप्तमी । अञ्चुँ (गतिपूजनयोः) अस्य धातोः अयं निर्देशः कृतः अस्ति । अत्र ‘अप्रत्यये’ इति ‘अञ्चतौ’ इत्यस्य विशेषणमस्ति, अतः अत्र तादृशस्य अञ्च्-धातोः ग्रहणं क्रियते यस्मात् सर्वापहारी क्विप् / क्विन् प्रत्ययः प्रयुक्तः अस्ति । 3) उत्तरपदे = उत्तरपदस्य उपस्थितौ । एतत् सूत्रम् अलुगुत्तरपदे (6.3.1) अस्मिन् अधिकारे अस्ति, अतः अत्र उत्तरपदस्य उपस्थितिः आवश्यकी । अत्र ‘उत्तरपदे’ इति ‘अञ्चतौ’ इत्यस्य विशेषणमस्ति । अतः अञ्च्-धातोः अप्रत्ययान्तरूपम् यत्र उत्तरपदरूपेण उपस्थीयते, तत्र अस्य सूत्रस्य प्रसक्तिः अस्ति । 4) समः = सम्-उपसर्गस्य स्थाने । इयं स्थानषष्ठी । 5) समि = अयमादेशः अस्ति । अतः सूत्रस्य सम्पूर्णः अर्थः एतादृशः भवति - यदि अञ्च्-धातोः लुप्तप्रत्ययान्तरूपम् (कस्मिंश्चित् शब्दे) उत्तरपदरूपेण आगच्छति, तथा च, (तस्मिनन्नेव शब्दे) ‘सम्’ इति उपसर्गः पूर्वपदरूपेण उपस्थितः अस्ति, तर्हि ‘सम्’ उपसर्गस्य ‘समि’ इति आदेशः भवति । यथा, ‘सम् + अञ्च् + क्विन्’ इत्यत्र क्विन्-प्रत्ययस्य सम्पूर्णरूपेण लोपः भवति । ततः वर्तमानसूत्रेण ‘सम्’ इत्यस्य ‘समि’ इति आदेशः भवति । अग्रे अनिदितां हलः उपधायाः क्ङितो (6.4.24) इत्यनेन नलोपं कृत्वा ‘सम्यच्’ इति प्रातिपदिकं सिद्ध्यति । अस्यैव अग्रे ‘सम्यङ्, सम्यञ्चौ, सम्यञ्चः’ एतादृशानि रूपाणि सिद्ध्यन्ति ।
Sutrartha (English)¶
If the ‘सम्’ उपसर्ग is followed by an लुप्तप्रत्ययान्त-अञ्च् word, then ‘सम्’ is converted to ‘समि’.
Vasu English Summary¶
समि is substituted for सम् before this अञ्च् when no affix (or व affix) follows.
Vasu English Translation¶
समि is substituted for सम् before this अञ्च् when no affix (or व affix) follows. Thus सम्यक्, सम्यञ्चौ, सम्यञ्चः ॥
Bhashya¶
समः समि (2952) (पूर्वपदादेशाधिकरणम्) (क्विग्रहणानर्थक्यबोधकभाष्यम्) किमर्थमञ्चतिनह्यादिषु क्विग्रहणं क्रियते । इह मा भूत् - समञ्चनम्, उपनहनम् । नैतदस्ति प्रयोजनम् । उत्तरपदे इति वर्तते । न चान्तरेण क्विपमञ्चतिनह्यादय उत्तरपदानि भवन्ति । तत्रान्तरेण क्विब्ग्रहणं क्विबन्त एव भविष्यति । तदादिविधिना प्राप्नोति । अत उत्तरं पठति - (6486 क्विब्ग्रहणस्य ज्ञापकत्वबोधकवार्तिकम् ॥ 1 ॥) - अञ्चतिनह्यादिषु क्विब्ग्रहणानर्थक्यं यस्मिन् विधिस्तदादावल्ग्रहणे - अञ्चतिनह्यादिषु क्विब्ग्रहणमनर्थकम् । किं कारणम् ? यस्मिन् विधिस्तदादावल्ग्रहणे । अल्ग्रहणेष्वेतद्भवति । न चेदमल्ग्रहणम् । एवं तर्हि सिद्धे सति यदञ्चतिनह्यादिषु क्विब्ग्रहणं करोति तज्ज्ञापयत्याचार्यः - अन्यत्र धातुग्रहणे तदाविधिर्भवतीति । किमेतस्य ज्ञापने प्रयोजनम् ? अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य इत्यत्र अयस्कृत् अयस्कार इत्यपि सिद्धं भवति ॥
Kashika¶
समित्येतस्य समि इत्ययमादेशो भवत्यञ्चतौ वप्रत्ययान्त उत्तरपदे। सम्यङ्, सम्यञ्चौ, सम्यञ्चः॥
Siddhanta Kaumudi¶
वप्रत्ययान्तेऽञ्चतौ परे । सम्यङ् । सम्यञ्चौ । सम्यञ्चः । समीचः । समीचा ॥
Laghu Siddhanta Kaumudi¶
वप्रत्ययान्तेऽञ्चतौ। सम्यङ्। सम्यञ्चौ। समीचः। सम्यग्भ्याम्॥
Balamanorama¶
समः समि - समः समि ।समी॑ति लुप्तप्रथमाकम् । ‘अञ्चतावप्रत्यये’ इत्यनुवर्तते । तदभिप्रेत्य शेषपूरणेन सूत्रे व्याचष्टे — अप्रत्ययेति । समीचेति । ‘अचः’ इति लोपे ‘चौ’ इति दीर्घः ।
Tattvabodhini¶
समः समि - समः समि ।समी॑त्यविभक्तितो निर्देशः । एवंतिरसस्तिरी॑त्यपि । सङ्गतमञ्चतीति — सम्यङ् । समीचेति । अल्लोपेचौ॑ इथि दीर्घः । सह अञ्चतीति ।
Nyaas¶
पूर्वेणातिप्रसक्तस्य सभावस्य प्रकृतिभावेन निवृत्तिः क्रियते। नेति वक्तव्ये प्रकृत्येति वचनं वैचित्र्यार्थम्॥
Sudha¶
समः समीति । समीत्यविभक्तिकोऽनिर्देशः । सम्यङ् । ‘सम् अन् च् क्विन्’ इत्यत्र **समः समि**(6.3.93) इति समः स्थाने सम्यादेशे विहिते, **इको यणचि**(6.1.77) इति यणि ‘सम्यन् च् क्विन्’ इति स्थिते क्विनः सर्वस्यापहारे **अनिदितां हल उपधायाः क्ङिति**(6.4.24) इति न् लोपे कृदन्तत्वात्प्रातिपदिकसञ्ज्ञायाम् सावागते नुमि, हलङ्यादिना सुलोपे संयोगान्तलोपे कुत्वे च ‘सम्यङ्’ इति । सम्यञ्चौ । ‘सम् अच् औ’ इति स्थिते **समः समि**(6.3.93) इति सम्यादेशे, यणि, नुमि, अनुस्वारे, परसवर्णे च रूपम् । एवं सम्यञ्चः । सम्यञ्चम्, सम्यञ्चौ । समीचः । ‘सम् अन् च् शस्’ इति दशायां शस्येत्सञ्ज्ञायां लोपे च **अनिदितां हल उपधायाः क्ङिति**(6.4.24) इति नलोपे **समः समि**(6.3.93) इति सम्यादेशे ‘समि अच् अस्’ इति जाते भसञ्ज्ञायाम् **अचः**(6.4.138) इत्यकारलोपे **चौ**(6.1.222) इति पूर्वस्याणो दीर्घे संयोगे च कृते, रुत्वविसर्गयोः ‘समीचः’ इति । सम्यग्भ्याम् । ‘सम् अच् भ्याम्’ इत्यत्र **समः समि**(6.3.93) इति सम्यादेशे यणि कृते जश्त्वे च ‘सम्यग्भ्याम्’ इति । एवं सम्यग्भिः । समीचा, समीचे । समीचे । समीचोः । समीचाम् । समीचि । सम्यक्षु ।
Sutra Prayogas¶
सम्यञ्चो (भट्टिकाव्यम्): अञ्चतावप्रत्यये समः समि इति सम्यादेशः।