63094: तिरसस्तिर्यलोपे ====================== **Padacheda:** तिरसः | S | 6 | 1 | तिरि | S | | | 1 अलोपे | S | 7 | 1 | Sutrartha --------- **'तिरस्' इत्यस्मात् परं यदि 'अञ्च्' धातोः अलुप्त-अकारात्मकं लुप्तप्रत्ययान्तं च रूपमागच्छति, तर्हि 'तिरस्' इत्यस्य 'तिरि' इति आदेशः भवति ।** अस्मिन् सूत्रे प्रयुक्तानाम् शब्दानामादौ अर्थं पश्यामः - 1) अप्रत्ययः = अविद्यमानः प्रत्ययः यस्मात् सः । इत्युक्ते, यस्मात् शब्दात् विहितस्य प्रत्ययस्य सम्पूर्णरूपेण लोपः भवति, प्रत्ययः च न श्रूयते, तादृशः शब्दः । क्विप् प्रत्ययः क्विन्-प्रत्ययः च सर्वापहारिणौ प्रत्ययौ स्तः, अतः एताभ्यां कश्चन प्रत्ययः यस्य अन्ते अस्ति, सः शब्दः अत्र अभिप्रेतः अस्ति । (स्मर्तव्यम् - अत्र 'अप्रत्ययः = न प्रत्ययः / प्रत्ययविहीनः' इति अर्थः नास्ति, केवलं 'अविद्यमानः / अश्रूयमाणः प्रत्ययः यस्मात्, सः' इत्येव अर्थः स्वीकर्तव्यः । ) 2) अञ्चतौ = इयम् परसप्तमी । अञ्चुँ (गतिपूजनयोः) अस्य धातोः अयं निर्देशः कृतः अस्ति । अत्र 'अप्रत्यये' इति 'अञ्चतौ' इत्यस्य विशेषणमस्ति, अतः अत्र तादृशस्य अञ्च्-धातोः ग्रहणं क्रियते यस्मात् सर्वापहारी क्विप् / क्विन् प्रत्ययः प्रयुक्तः अस्ति । 3) अलोपे = अस्य शब्दस्य विग्रहः अयम् - 'अकारस्य लोपः = अल्लोपः ; न विद्यते अल्लोपः यस्मिन्, सः = अलोपः' । इत्युक्ते, यस्मिन् शब्दे अकारस्य लोपः न कृतः अस्ति, सः शब्दः अत्र 'अलोपः' इत्यनेन निर्दिश्यते । अयमपि 'अञ्चतौ' इत्यस्यैव विशेषणमस्ति, अतः अनेन तादृशः अञ्च्-शब्दः स्वीक्रियते यस्य अकारस्य लोपः कृतः नास्ति । 4) उत्तरपदे = उत्तरपदस्य उपस्थितौ । एतत् सूत्रम् **अलुगुत्तरपदे** (6.3.1) अस्मिन् अधिकारे अस्ति, अतः अत्र उत्तरपदस्य उपस्थितिः आवश्यकी । अत्र 'उत्तरपदे' इति 'अञ्चतौ' इत्यस्य विशेषणमस्ति । अतः अञ्च्-धातोः अप्रत्ययान्तरूपम् यत्र उत्तरपदरूपेण उपस्थीयते, तत्र अस्य सूत्रस्य प्रसक्तिः अस्ति । 5) तिरसः = तिरस्-शब्दस्य स्थाने। इयं स्थानषष्ठी । 6) तिरि = अयमादेशः अस्ति । अतः सूत्रस्य सम्पूर्णः अर्थः एतादृशः भवति - यदि अञ्च्-धातोः लुप्तप्रत्ययान्तं रूपम्, यस्मिन् अकारस्य लोपः न कृतः अस्ति, (कस्मिंश्चित् शब्दे) उत्तरपदरूपेण आगच्छति, तथा च, (तस्मिनन्नेव शब्दे) 'तिरस्' इति शब्दः पूर्वपदरूपेण उपस्थितः अस्ति, तर्हि 'तिरस्' इत्यस्य 'तिरि' इति आदेशः भवति । यथा, 'तिरस् + अञ्च् + क्विन्' इत्यत्र क्विन्-प्रत्ययस्य सम्पूर्णरूपेण लोपः भवति । तथा च, अञ्च्-इत्यस्य नकारस्य अपि **अनिदितां हलः उपधायाः क्ङिति** (6.4.24) इत्यनेन लोपः भवति, अतः 'तिरस् + अच्' इति प्रातिपदिकं जायते । अस्य प्रथमैकवचनस्य प्रक्रियायाम् 'तिरस् + अच् + सुँ' इत्यत्र अकारलोपः न भवति, अतः वर्तमानसूत्रेण तिरस्-इत्यस्य 'तिरि' इति आदेशः भवति, अतः 'तिर्यङ्' इति प्रथमैकवचनस्य रूपं सिद्ध्यति । यत्र 'अञ्च्' धातोः अकारस्यापि लोपः भवति, तत्र तु अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, 'तिरस् + अच्' शब्दस्य द्वितीयाबहुवचनस्य प्रक्रिया इयम् - तिरस् + अच् + शस् → तिरस् + च् + अस् [**अचः** (6.4.138) इति अकारस्य लोपः] → तिरश्चः [अकारलोपे कृते वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः तिरस्-इत्यस्य तिरि-आदेशः न भवति । अग्रे विसर्गनिर्माणं श्चुत्वं च कृत्वा रूपं सिद्ध्यति ।] Sutrartha (English) ------------------- If the word 'तिरस्' is followed by a लुप्तप्रत्ययान्त-अञ्च् word from which an अकार has not been removed, then the word 'तिरस्' is converted to 'तिरि'. Vasu English Summary -------------------- तिरि is substituted for तिरस् before this अञ्च् when no affix (or व affix) follows, provided that the अ of अञ्च् is not elided. Vasu English Translation ------------------------ तिरि is substituted for तिरस् before this अञ्च् when no affix (or व affix) follows, provided that the अ of अञ्च् is not elided. Thus तिर्यङ्, तिर्यञ्चौ, तिर्यञ्चः ॥ Why do we say 'when there is no elision'? Observe तिरश्चा, तिरश्चे ॥ Here अ is elided by (6.4.138). The word अलोपे in the *sutra* is ambiguous. It may mean either (1) "where अ is elided" or (2) "Where there is no elision". The latter meaning should be taken however. Kashika ------- तिरस् इत्येतस्य तिरि इत्ययमादेशो भवत्यञ्चतौ वप्रत्ययान्त उत्तरपदेऽलोपे, यदास्य लोपो न भवति। तिर्यङ्, तिर्यञ्चौ, तिर्यञ्चः। अलोप इति किम्? तिरश्चा। तिरश्चे। **अचः**(६.४.१३८) इत्यकारलोपः॥ Siddhanta Kaumudi ----------------- अलुप्ताकारेऽञ्चतौ वप्रत्ययान्ते परे तिरसस्तिर्यादेशः स्यात् । तिर्यङ् । तिर्यञ्चौ । तिर्यञ्चः । तिर्यञ्चम् । तिर्यञ्चौ । तिरश्चः । तिरश्चा । तिर्यग्भ्यामित्यादि ॥ Laghu Siddhanta Kaumudi ----------------------- अलुप्ताकारेऽञ्चतौ वप्रत्ययान्ते तिरसस्तिर्यादेशः। तिर्यङ्। तिर्यञ्चौ। तिरश्चः। तिर्यग्भ्याम्॥ Balamanorama ------------ **तिरसस्तिर्यलोपे** - तिरसस्तिर्यलोपे । 'तिरि' इति लुप्तप्रथमाकम् । '॒अञ्चतावप्रत्यये' इत्यनुवर्तते । न विद्यते 'अचः' इत्यल्लोपो यस्य सअलोपः॑, तस्मिन्निति विग्रहः । तदाह — अलुप्तेत्यादिना । तिर्यङिति । तिरः-अञ्चतीति विग्रहे क्विन्नादि । तिरसस्तिर्यादेशे यण् । तिरश्चेति । शसादावचि 'अचः' इत्यल्लोपसत्त्वान्नतिर्यादेशः । सस्य श्चुत्वेन श इति भावः । Tattvabodhini ------------- **तिरसस्तिर्यलोपे** - तिरसः । न विद्यते लोपो यस्य सःअलोप॑इति बहुव्रीहिः । अञ्चतावित्यनुवर्तमानमन्यपदार्थः । अवयवद्वारकश्च लोपः समुदाये उपचर्यत इत्यभिप्रेत्याह -अलुप्ताकार इत्यादि ।अकारलोपे सती॑ति नोक्तं, व्याख्यानात् । अप्रत्ययान्ते किम्,तिरोऽञ्चन॑मित्यादौ मा भूत् । तिरश्च इथि । लुप्ताऽकारत्वात्तिर्यादेशाऽभावे सस्य श्रुत्वेन शः । न चाऽल्लोपस्य स्थानिवत्त्वात् । श्चुत्वं न स्यादिति वाच्यम्, पूर्वत्रासिद्धे तदभावात्पदान्तविधित्वाच्च । Nyaas ----- `सगर्भः, सपूथ्यः` इति। समानो गर्भः, समानं यूथमिति विगृह्र **पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च** (2.1.58) इत्यादिना कर्मधारयः। `साधम्र्यम्` इति। बहुव्रीहेर्भावप्रत्ययः। `सजातीयः` इति। अत्रापि बहुव्रीहेरेव **जात्यन्ताच्छ बन्धुनि** (5.4.9) इति च्छः। `सस्थानीयः` इति। `स्थानान्ताद्विभाषा सस्थानेनेति चेत्` (5.4.10) इति च्छप्रत्ययः॥ Prakriyasarvasvam ----------------- अलुप्ताकारेऽञ्चतौ परे तिरसस्तिरि स्यात् । तिर्यङ् । तिर्यञ्चौ । भत्वे 'अचः' (६-४-१३८) इत्यल्लोपे तिर्यदिशो न । श्रुत्वम् । तिरश्चः । तिरश्चा । तिर्यग्भ्याम् । पूजार्थस्वाञ्चेः क्विन् । प्राङ् च् । 'नाञ्चेः पूजायाम्' (६-४-६०) इति नलोपाभावः । सौ लुप्ते संयोगान्तलोपे कुत्वम् । प्राङ् पूजयिता । प्राञ्चौ । प्राञ्चः । प्राञ्चम् । प्राञ्चौ । प्राञ्चः । प्राञ्चा । संयोगान्तलोपः । कुत्वम् । प्राङ्भ्याम् । प्राङ्क्षु । 'ङणोः कुक्टुक्-' (८-३-२८) इति वा कुक् । प्राङ्क्षु प्राङ्षु । एवं पूजार्थे प्रत्यङ्- पर्यङ्ङादि । क्रुञ्चेश्च नलोपाभावात् क्रुङ् । क्रुञ्चौ । क्रुञ्चः । क्रुञ्चा । क्रुङ्भ्याम् । क्रुङ्क्षु । 'चो कुः' (८-२-३०) पयोमुक् । पयोमुचौ । पयोमुग्भ्याम् । सकारोपधाद् व्रश्चेः क्विपि प्रसारणम् । कंसवृस्च् स् । सुलोपः । 'स्कोः—' (८-२-२९) इति सलोपः कंसवृच् । भ्रश्चादिना चस्य षः । कंसवृष् । जश्त्वचर्त्वे कंसवृट् । सस्य श्रुत्वम् । कंसवृश्चौ । कंसवृश्चः । कंसवृश्चा । कंसवृड्भ्याम् ।। भवत् स् । शतुरुगित्त्वान्नुम् । भवन्त् स् । सुलोपसंयोगान्तलोपौ । भवन् । भवन्तौ । भवन्तः । हे भवन् । शसि भवतः । भवद्भ्याम् । महत् स् । नुमि 'सान्तमहतः—' (६-४-१०) इति दीर्घः । महान् महान्तौ । महान्तः । असम्बुद्धावेव दीर्घोक्तेः हे महन् । महान्तम् । महान्तौ । शेषं भवद्वत् । सर्वादिशु पठितो भवतुशब्द उदित् । त्यदाद्यत्वं द्विपर्यन्तानामेवेष्टमिति, भवतौ न । भवत् स् । Sudha ----- तिरसस्तिर्यलोप इति । अञ्चतावप्रत्यये इत्यनुवर्तते । न विद्यते **अचः**(6.4.138) इत्यल्लोपो यस्य सः, अलोपः, तस्मिन्निति विग्रहः । तदाह - अलुप्तेत्यादिना । तिर्यङ् । 'तिरस् अन् च्' इत्यत्र **ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च**(3.2.59) इत्यादिना क्विनि; तस्य सर्वस्यापहारे, **अनिदितां हल उपधायाः क्ङिति**(6.4.24) इति न् लोपे **तिरसस्तिर्यलोपे**(6.3.94) इति तिरसस्तिर्यादेशे **इको यणचि**(6.1.77) इति यणि कृदन्तत्वात्प्रातिपदिकसञ्ज्ञायां सावागते नुमि, हल्ङयादिना सुलोपे 'सध्र्यन् च' इति जाते चकारस्य संयोगान्तलोपे नकारस्य **क्विन्प्रत्ययस्य कुः**(8.2.62) इति कुत्वेन ङकारे 'तिर्यङ्' इति रूपम् । तिर्यञ्चौ । 'तिरस्+अच् औ' इति स्थिते **तिरसस्तिर्यलोपे**(6.3.94) इति तिरसस्तिर्यादेशे यणि, नुमि, अनुस्वारे, परसवर्ण च रूपम् । तिरश्चः । 'तिरस् अच् शस्' इति दशायां शस्येत्सञ्ज्ञायां लोपे च भसञ्ज्ञायाम् **अचः**(6.4.138) इत्यकारलोपे अल्लोपसत्वात्तिर्यादेशाभावे **स्तोः श्चुना श्चुः**(8.4.40) इति तिरसः सकारस्य शकारादेशे संयोगे रुत्वविसर्गयोः 'तिरश्चः' इति । तिर्यग्भ्यामिति । 'तिरस् अच् भ्याम्' अत्र **तिरसस्तिर्यलोपे**(6.3.94) इति तिरि आदेशे यणि कुत्वे जश्त्वे च रूपम् । एवं तिर्यग्भिः । तिरश्चा, तिरश्चः, तिरश्चः , तिरश्चोः, तिरश्चाम, तिरश्चि, तिर्यक्षु ।