63092: विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये¶
Padacheda: विष्वक्-देवयोः | S | 6 | 2 |
च | S | 0 | 0 |
टेः | S | 6 | 1 |
अद्रि | S | | | 1
अञ्चतौ | S | 7 | 1 |
अप्रत्यये | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
In the room of the last consonant that follows it, of a pronoun and of the words विषवक् and देव is substituted अद्रि when अञ्च् with the affix व follows.
Vasu English Translation¶
In the room of the last consonant that follows it, of a pronoun and of the words विषवक् and देव is substituted अद्रि when अञ्च् with the affix व follows. Thus विष्वगञ्चति = विष्वद्र्यङ्, This form is thus evolved. अञ्च + क्विन् = अञ्च् + ० = अञ्च् + नुम् (7.1.70) Then there is elision of the final conjunct consonant ऊच्, then the final dental is changed to guttural because of the क्विन् affix (8.2.62), i. e. न् is changed to ङ् and we have अङ् which with विष्वद्रि gives the above form. देवद्र्यङ्, तद्र्यङ्, यद्र्यङ् ॥ अद्रि and सध्रि (6.3.95) have acute on the final irregularly (nipatan) in order to prevent the krit-accent, and when इ is changed into य् the following vowel becomes svarita (8.2.4). Why do we say of विष्वग् and देव? Observe अश्वाची = अश्वमञ्चति, the feminine ङीप् being added by (4.1.6) Vartika The अ of अच् is elided by (6.4.138) and the final of अश्व is lengthened by (6.3.138). Why ‘when अञ्च् follows’? Observe विष्वग्युक् ॥ Why do we say ‘when the affix व् follows’? Observe विष्वगञ्चनं ॥ The व is totally elided by (6.1.67). Another reading of the sutra is अप्रत्यये (अञ्चतावप्रत्यये). It would give the same result, the meaning then being when no affix follows. The word वप्रत्यये or अप्रत्यये indicates by implication that in other places where simply a verb is mentioned, it means a word-form beginning with that verb which ends with some affix. For had अप्रत्यये not been used, then the rule would have applied not only when anch followed, but when anchana ending in ल्युट् also followed. The maxim धातुग्रहणे तदादि विधिरिष्यते is illustrated in अयस्कृतं and अयस्कारः; for (8.3.46) teaches that visarga is changed into स् when कृ follows. There the कृ denotes not only the root कृ but a word derived from कृ, therefore which begins with कृ, such as कारः and कृतः ॥ Therefore the rule applies to forms like अयस्कृत् which is followed merely by the verb कृ; as well as to forms like अयस्कृतः ॥
Vart:- In the Vedas, diversely before the feminine nouns: thus in “विश्वाची व घृताची च” there is no substitution in विश्वाची, but in कद्रीची there is this substitution. कद्रीची is derived from किम् + अञ्च् = कद्रि + अञ्च् ॥ Then is added ङीप् and then like अश्वाची ॥
Bhashya¶
विष्वग्देवयोश्च टेरद्र्यञ्चतौ वप्रत्यये (2951) (6487 उपसंख्यानवार्तिकम् ॥ 1 ॥) - अद्रिसध्र्योरन्तोदात्तवचनं कृत्स्वरनिवृत्त्यर्थम् - अद्रिसध्र्योरन्तोदात्तत्वं वक्तव्यम् । किं प्रयोजनम् ? कृत्स्वरनिवृत्त्यर्थम् । कृत्स्वरो मा भूदिति । विष्वद्र्यङ्, विष्वद्र्यञ्ञ्चौ, विष्वद्र्यञ्ञ्चः । सध्र्यङ्, सध्र्यञ्ञ्चौ, सध्र्यञ्ञ्चः ॥ (प्रतिषेधभाष्यम्) तत्र छन्दसि स्त्रियां प्रतिषेधो वक्तव्यः । विश्वाची, घृताची । यदि छन्दसि स्त्रियां प्रतिषेध उच्यते कथं - सा कद्रीची ? एवन्तर्हि छन्दसि स्त्रियां बहुलम् इति वक्तव्यम् ॥
Kashika¶
विष्वक् देव इत्येतयोः सर्वनाम्नश्च टेरद्रीत्ययमादेशो भवत्यञ्चतौ वप्रत्ययान्त उत्तरपदे। विष्वगञ्चतीति विष्व॒द्र्य॑ङ् (ऋ० ७.२५.१)। देवद्र्यङ् । सर्वनाम्नः — तद्र्यङ्। यद्र्यङ् । अद्रिसध्र्योरन्तोदात्तनिपातनं कृत्स्वरनिवृत्त्यर्थम्। तत्र यणादेशे कृत उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य**(८.२.४) इत्येष स्वरो भवति। विष्वग्देवयोरिति किम्? अश्वाची। अञ्चताविति किम्? विष्वग्युक्। वप्रत्यय इति किम्? विष्वगञ्चनम्। वप्रत्ययग्रहणमन्यत्र धातुग्रहणे तदादिविधिप्रतिपत्त्यर्थम्। तेनायस्कृतमयस्कार इत्यत्र **अतः कृकमिकंसकुम्भपात्र० (८.३.४६) इति सत्वं भवति॥ छन्दसि स्त्रियां बहुलमिति वक्तव्यम्॥ वि॒श्वाची॑ (ऋ० ७.४३.३) च घ्ाृताची॑ (ऋ० १.१६७.३) चेत्यत्र न भवति। क॒द्रीची॑ (ऋ० १.१६४.१७) इत्यत्र तु भवत्येव॥
Siddhanta Kaumudi¶
अनयोः सर्वनाम्नश्च टेरद्र्यादेशः स्यादप्रत्ययान्तेऽञ्चतौ परे । अदद्रि-अञ्चेति स्थिते यण् ॥
Padamanjari¶
व प्रत्ययो यस्मात्स वप्रत्ययः । विष्वद्र।ल्ङिति । अञ्चतेः क्विनि लोपे उगिदचाम् इति नुम्, संयोगान्तलोपः, क्विन्प्रत्ययस्य कुः इति कुत्वम् - नकारस्य ङ्कारः । अद्रिसर्ध्योरिति । वार्तिकस्य साधारणत्वादिह सध्रशब्देपादानम्, अश्वमञ्चतीति अश्वाची, अञ्चतेश्चोप संख्यानम् इति ङीप् अचः इत्यकारलोपः, चौ इति दीर्घत्वम् । विष्वग्युनक्तीति विष्वग्युक, सत्मद्विष इत्यादिना क्विप् । विष्वगञ्चनमिति । ल्युट् । कथं पुरत्र प्रसङ्गः, यावता उतरपदे इत्युच्यते, न चात्राञ्चतिरुतरपदम्, किं तर्हि ल्युडन्तम्, न च तदादिविधिरस्ति, अल्ग्रहण एव तदादिविधिः इत्यत आह वप्रत्ययग्रहणमिति । यदि धातुग्रहणे तदादिविधिर्न स्याद्वप्रत्ययग्रहणमकर्तव्यं स्यात्, कृतं तु तदादिविधिं ज्ञापयति । अत्र प्रयोजनमाह तेनेति । अपस्कृतमिति । असति तु ज्ञापने अयस्कृदित्यादौ यत्र करोतिमात्रमुतरपदं तत्रैव स्यात् । विश्वाची च धृताची चेति । वेदपाठोऽयं प्रदशितः, न तु पृताजीत्युदाहरणम् प्राप्त्यभावात् । उपसंख्याने एस्त्रियाम् इत्येतेन नार्यः, पुंस्यपि हि क्वचिदद्र।लदेशो न दृश्यते । तस्माद्विप्वञ्चौ प्राथणापानाविति । कव्रीचीति । किंशब्दस्य टेरद्र।लदेशः, पूर्ववन्ङीब्लोपदीर्घत्वादि ॥
Nyaas¶
यदि उपसर्जनस्य इत्येतत्? सहशब्दसय विशेषणं स्यात्? तदाऽतिप्रसङ्गः स्यात्। विशेषानुपादानादिहापि स्यात् -सहयुध्वा, सहकृत्वेति। अत्रापि सहशब्द उपसर्जनम्; उपपदमतिङ् (2.2.19) इति प्रथमा निर्देशात्, अप्राधान्याच्च। अनर्थकञ्च विशेषणं स्यात्; सर्वत्रैव हि समासे सहशब्दस्योपसर्जनत्वात्। समासश्चेहोत्तरपदेन सन्निधापितः, यस्मात्? समासे ह्रुत्तरपदं भवति, अतसतस्यैवेदं विशेषणमिति मन्यमान आह -उपसरजनसर्वावयवः इति। उपसर्जनं सर्वोऽवयवो यस्य स तथोक्तः; अवयवधर्मेण समुदायधर्मस्य तथा निर्देशात्, यथा -आढमिदं नगरमिति। यदि कस्यचित्कश्चिदुपसरजनमवयवः कश्चिदनुपसर्जनं सोऽप्युपसर्जनमित्युच्यते, तदाऽतिप्रसङ्गदोषस्तदवस्थः स्यादिति सर्वग्रहणम्। कः पुनरसौ सर्वोपसजेनावयवः समासः? बहुव्रीहिः। ननु द्वन्द्वोऽप्युपसर्जनसर्वावयव एव, तस्यापि ग्रहणं प्राप्नोति? नैष दोषः; न हि सहपदेन तु गुणभावस्तत्रैव प्रयुज्यते। अथ वा -उभयगतिरिह शास्त्रे सम्भवतति लौकिकमप्युपसर्जनमिह गृह्रते। तेन शास्त्रीयोपसर्जनेन लौकिकेन चोपसर्जनीभूताः सर्वोऽवयव यस्य स एवोपसर्जनशब्देन विवक्षित इति विज्ञायते। न चैवंविधो द्वन्द्वः। तस्य ह्रवयवानां शास्त्रीयेणैवोपसर्जनेनोपसर्जत्वम्, न तु लौकिकेन। बहुव्रीहिस्तु लौकिकेनापि। तस्मात्? तस्यैवोपसर्जनग्रहणेन ग्रहणम्। तदवयवस्य इति। अनेनोपसर्जनस्येत्येषाऽवयवषष्ठीति दरिशयति। सपुत्रः इति। पूर्ववद्बहुवरीहिः। सहयुष्वा, सहकृत्वा इति। तत्पुरुषोऽयमुत्तरपदार्थप्रधानः। अथेह कस्मान्न भवति -सहकृत्वप्रियः, प्रियसहकृत्वेऽति, भवति ह्यत्रापि सहशब्दो बहुव्रीह्रवयवः? इत्याह -इह इत्यादि। वा प्रियस्य (वा।114) इति प्रियशब्दस्य विकल्पेन पूर्वनिपतः। उत्तरपदाधिकारादिह बहुव्रीह्राश्रयणाच्च बहुव्रीहौ यदुत्तरपदं तत्? परं यस्मात्? सहशब्दात्? तसय सभावेन भवितव्यम्। न चेह बहुव्रीहौ यदुत्तरपदं तत्? सहशब्दात्? परम्, शब्दान्तरेण व्यवधानादिति न भवति सभावः॥
Prakriyasarvasvam¶
अभावरूपप्रत्ययान्ते क्विबन्तेऽञ्चतौ परे विष्वग्देवयोः सर्वनाम्नश्च टेरद्रि इत्यादेशः स्यात् । वप्रत्यय इति पाठे वकाररूपप्रत्ययान्त इत्यर्थः । विष्वगिति सर्वतोऽर्थेऽव्ययम् । विष्वगञ्चतीति विष्वद्र्यङ् । पदकार्यम् । विष्वद्र्यङ् । देवद्र्यङ् । सर्वद्र्यङ् । विश्वद्र्यङ् । तद्र्यङ् । यद्र्यङ् । अदसष्टेरद्र्यादेशे अदद्र्यञ्च् । अत्र ‘अदसोऽसेः…’ (८-२-८०) इत्युत्वमत्वप्राप्तावाह कौमुदी— <karika> “परतः केचिदिच्छन्ति केचिदिच्छन्ति पूर्वतः । उभयोः केचिदिच्छन्ति केचिदिच्छन्ति नोभयोः” ।। ४१३ ।। </karika> अत्र परदकारस्य मत्वे तदुपरि रेफस्योत्त्वे च कृते यकारशेषाद् अदमुयङ् । पूर्वदकारस्येति मते अमुद्र्यङ् । उभयोश्चेद् अमुमुयङ् । नोभयोश्चेद् अदद्र्यङ् ।। २४०४. समः समि (६. ३. ९३) अप्रत्ययान्तेऽञ्चतौ परे समः समिः स्यात् । सम्यङ् ।
Vartika¶
छन्दसि स्त्रियां बहुलं विष्वग्देवयोष्टेरद्र्यादेशः ।
Sutra Prayogas¶
विष्वद्रीचीर् (शिशुपालवधम्): विष्वग्देवयोश्च टेरद्चञ्चतावप्रत्यये इति टेरद्चादेशः।