63091: आ सर्वनाम्नः¶
Padacheda: आ | S | | | 1
सर्वनाम्नः | S | 6 | 1 |
Sutrartha¶
Vasu English Summary¶
आ is substituted for the final of the pronouns - सर्वादीनि सर्वनामानि (1.1.27), before the words 1. दृग् 2. दृश and the affix वत्।
Vasu English Translation¶
आ is substituted for the final of the pronouns - सर्वादीनि सर्वनामानि (1.1.27), before the words 1. दृग् 2. दृश and the affix वत्। Thus तादृक्, तादृशः, तावान्, यादृक्, यादृशः, यावान् ॥
Vart:- So also before दृक्ष, as तादृक्षः and यादृक्षः ॥
Kashika¶
सर्वनाम्न आकारादेशो भवति दृग्दृशवतुषु। तादृक्। तादृशः। तावान्। यादृक्। यादृशः। यावान्॥ दृक्षे चेति वक्तव्यम्॥ तादृक्षः। यादृक्षः॥
Siddhanta Kaumudi¶
सर्वनाम्न आकारोऽन्तादेशः स्याद्दृग्दृशवतुषु । कुत्वस्याऽसिद्धत्वात् व्रश्च (SK294) इति षः । तस्य जश्त्वेन डः । तस्य कुत्वेन गः । तस्य चर्त्वेन पक्षे कः । तादृक् । तादृग् । तादृशौ । तादृशः । षत्वापवादत्वात्कुत्वेन खकार इति कैयटहरदत्तादिमते तु चर्त्वाभावपक्षे ख एव श्रूयेत नतु गः । जश्त्वं प्रति कुत्वस्यासिद्धत्वात् । दिगादिभ्यो यत् (SK1429) इति निर्देशान्नासिद्धत्वमिति वा बोध्यम् । व्रश्च (SK294) इति षत्वम् । जश्त्वचर्त्वे । विट् । विड् । विशौ । विशः । विशम् ॥
Laghu Siddhanta Kaumudi¶
सर्वनाम्न आकारोऽन्तादेशः स्याद्दृग्दृशवतुषु। तादृक्, तादृग्। तादृशौ। तादृशः। तादृग्भ्याम्॥ व्रश्चेति षः। जश्त्वचर्त्वे। विट्, विड्। विशौ। विशः। विड्भ्याम्॥
Balamanorama¶
आ सर्वनाम्नः - आ सर्वनाम्नः । ‘आ’ इत्यविभक्तिकनिर्देशः । ‘दृग्दृशवतुषु’ इति सूत्रमनुवर्तत । तदाह — सर्वनाम्न इति । अन्तादेश इति । अलोऽन्त्यपरिभाषालभ्यमिदम् । दकारस्य आत्वे सवर्णदीर्घः । तादृश् इति रूपम् । ततः सुबुत्पत्तिः । कुत्वस्येति । तादृश् स् इति स्थिते हल्ङ्यादिलोपे,क्विन्प्रत्ययस्य कु॑किति कुत्वस्याऽसिद्धत्वात् ।व्रश्चे॑ति ष इत्यर्थः । तस्येति ।व्रश्चे॑ति संपन्नस्य षकारस्येत्यर्थः । तस्य कुत्वेनेति । डकारस्यक्विन्प्रत्ययस्य कु॑रिति कुत्वेन गकार इत्यर्थः । तस्य चर्त्वेनेति । गकारस्य ‘वावसाने’ इति चर्त्वविकल्प इत्यर्थः । तादृगिति । स इव दृश्यत इति न विग्रहः,कर्तरि कृत्इति कर्तर्येव क्विन्विधानात् । किंतु कर्मकर्तरि क्विन् । स इवायं पश्यति । ज्ञानविषयो भतीत्यर्थः ।दृशेरत्र ज्ञानविषयत्वापत्तिमात्रवृत्तित्वादज्ञानार्थता॑ इति ‘त्यदादिषु दृशेः’ इति सूत्रे भाष्ये स्पष्टम् । रूढशब्द एवायमित्यन्ये । अथात्र कैयटादिमतं दूषयति — षत्वापवादत्वादिति । यद्यपि दधृगञ्चुयुजिक्रुञ्चुषु अप्राप्ते ।ञपि व्रश्चादिषत्वेक्वन्प्रत्ययस्य कुः॑ इति कुत्वमारभ्यते । तथापि क्विपैव सिद्धेस्पृशोऽनुदके क्विन्,त्यदादिषु दृशोऽनालोचने कञ् चे॑ति क्विन्विधानंक्विन्प्रत्ययस्य कु॑रिति कुत्वार्थं क्रियमाणं घृतस्पृक्, तादृगित्यादिषु अप्रवृत्तौ निरवकाशमेव स्यात् । अतस्तद्विषये कुत्वस्य फलतः षत्वापवादत्वमिति भावः । क्विन्विधानंक्विन्प्रत्ययस्य कुः॑ इति कुत्वार्थमेवेति ‘स्पृशोऽनुदके’ इति सूत्रे भाष्ये स्पष्टम् । अनवकाशत्वादेव च षकारविषये कुत्वस्य नाऽसिद्धत्वमपि । अन्यथास्पृशोऽनुदके क्वि॑नित्यादिना स्पृशादेः क्विन्विधिवैयथ्र्यात् । उक्तं चपूर्वत्रासिद्ध॑मित्यत्र भाष्ये — ॒अपवादो वचनप्रमाण्या॑दिति । खकार इतीति । अघोषमहाप्राणसाम्यादिति भावः । ख एवेति । #आतदृक्, तादृगिति रूपद्वयमिष्टम् । शकारस्य कुत्वेन खकारे सति तस्य ‘वावसाने’ इति चर्त्वपक्षे तादृगिति रूपसिद्धावपि चर्त्वाऽभावपक्षे तादृखित्येव स्यात्, ताद-गिता गकारो न श्रूयेतेत्यर्थः । नन्वस्तु शकारस्य खकारस्तथापि तस्य चर्त्वाभावपक्षे जश्त्वेन गकारो निर्बाध इत्यात आह — जश्त्वं प्रतीति । जश्त्वेन गकारे कर्तव्ये शकारस्थानकस्य कुत्वसम्पन्नखकारस्याऽसिद्धतया झलोऽभावेन जश्त्वाऽसंभवादित्यर्थः । अथ कैयटादिमते उक्तदोषं निरस्यति-दिगादिभ्यो यदितीति । ‘विश प्रवेशने’ क्विप्, विशिति रूपम् । तस्य विशेषमाह — व्रश्चेति षत्वमिति । विश् सिति स्थिते हङ्यादिलोपेव्रश्चे॑ति शकारस्य षकार इत्यर्थः । जश्त्वचर्त्वे इति । षस्य जश्त्वेन डः । ‘वाऽवसाने’ इति तस्य चर्त्वेन पक्षे ट इत्यर्थः । विड्भ्याम् । विट्त्सु विट्सु । ‘णश अदर्शने’ क्विप् । नश् इति रूपम् । ततः सुबुत्पत्तिः । सोर्हल्ङ्यादिलोपे व्रश्चादिना नित्यं षत्वे प्राप्ते- ।
Tattvabodhini¶
आ सर्वनाम्नः - आकारोऽन्तादेश इति । अकारादेशे सति त्वतो गुणे इथि स्यात् । न चाऽकारोच्चारणसामर्थ्याद्दीर्घः स्यादेवेति वाच्यमि, अकारस्याऽविधौ हल एव श्रवणप्रसङ्गांत् । विडिति ।विश प्रवेशने॑इत्यस्मात् क्विप् । नशेर्वा । केचिदिहझली॑त्यनुवत्र्यझलि पदान्ते चे॑ति व्याचक्षते, तन्न,नष्ट॑मित्यादावतिप्रसङ्गात् ।
Padamanjari¶
अकारोच्चारणमतो गुणो पररुपत्वं मा भूत् । अकारविधानं त्वन्तस्य निवृत्यर्थं स्यात्, लोपविधौ तु गौरवं भवति ॥
Nyaas¶
अकालवाचिनि इति। अनेन काले इति नेह सवरूपस्य ग्रहणम्, अपि तु कालविशेषवाचिनां पूर्वाह्णादिशब्दानामिति दर्शयति। कुत एतत पुनरवसितम्? ग्रन्थान्ताधिके च (6.3.79) इत्यत्र ग्रन्थान्तग्रहणात्। अनेन हि कालवाचिन्युत्तरपदे प्रतिषेधः पर्राप्नोति, स मा भूदिति। तत्र ग्रन्थान्तग्रहणं क्रियते, यदि चात्र काले इति स्वरूपग्रहणं स्यात्। ततस्तेनैव सकलम्, समुहूर्तमित्यत्र सभावः सिद्ध इति तत्र ग्न्थान्तग्रहणमनर्थकं स्यात्। सचक्रम् इति। अव्ययं विभक्ति (2.1.6) इत्यादना यौगपद्येऽव्ययीभावः। सधुरम् इति। ऋक्पूरब्धूः पथामानक्षे (5.4.74) इत्यकारः समासान्तः। सहपूर्वाह्णम् इति। तेनैव सूत्रेव साकल्येऽव्ययीभावः॥
Prakriyasarvasvam¶
दृग्दृशवतुषु परेषु सर्वनाम्नान्त्यस्यात्वं स्यात् त आ दृश । दीर्घः । तादृशः । कर्मकर्त्रर्थवृत्त्या प्रकाशार्थोऽत्र दृशिरिति भाष्यकृता हरेण चोक्तम् । रूढिवशादि- वार्थयोगः । स इव दृश्यते स इव प्रकाशत इति तादृशः । क्विनि तादृक् । दर्शनार्थे तु तद्दर्श इत्यणैव ।
Sudha¶
आ सर्वनाम्न इति । आ इत्यविभक्तिकनिर्देशः । दृग्दृशवतुषु**(6.3.89) इति सूत्रमनुवर्तते । तदाह - सर्वनाम्न इत्यादिना । तादृक्-तादृग् । <ृततद् दृश>> इति स्थिते **त्यदादिषु दृशोऽनालोचने कञ् च**(3.2.60) इति क्विन् तस्य सर्वस्य लोपे कृते **आ सर्वनाम्नः**(6.3.91) इति तद्शब्दस्याकारान्तादेशे सवर्णदीर्घे च ‘तादृश्’ इति रूपम्, तस्य **कृत्तद्धितसमासाश्च**(1.2.46) इति प्रातिपदिकसंज्ञायां सावागते तस्य हल्ङ्यादिना लोपे **क्विन्प्रत्ययस्य कुः**(8.2.62) इत्यस्यासिद्वत्वात् **व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः**(8.2.36) इत्यादिना षत्वे तस्य **झलां जशोऽन्ते**(8.2.39) इति डत्वे, **क्विन्प्रत्ययस्य कुः**(8.2.62) इति कुत्वेन गकारे **वाऽवसाने**(8.4.56) इति चर्त्वेन पक्षे ककारे ‘तादृक’ इति । तदभावे ‘तादृग्’ इति । **तादृग्भ्याम् । तादृश् + भ्याम् अत्र व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः**(8.2.36) इत्यादिना षत्वे जश्त्वेन डत्वे **क्विन्प्रत्ययस्य कुः**(8.2.62) इति इति गत्वे ‘तादृग्भ्याम्’ इति रूपम् । **विट् – विड् । ‘विश्- प्रवेशने’ धातोः क्विपि, कृदन्तत्वात्प्रातिपदिकसञ्ज्ञायां सौ हल्ङयादिना लोपे **व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः**(8.2.36) इत्यादिना षत्वे **झलां जशोऽन्ते**(8.2.39) इति जश्त्वेन डत्वे **वाऽवसाने**(8.4.56) इति चर्त्वेन पक्षे टत्वे ‘विट्’ इति, चर्त्वाभावे - ‘विड्’ इति । विड्भ्याम् । ‘विश् भ्याम्’ अत्र पदसंज्ञायाम् **व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः**(8.2.36) इति षत्वे तस्य जश्त्वेन डत्वे सति रूपम् ।
Vartika¶
दृक्षे चेति वक्तव्यम् ।
Sutra Prayogas¶
भवादृशेषु (किरातार्जुनीयम्): आ सर्वनाम्नः इति आकारादेशः।
यादृड् (भट्टिकाव्यम्): आ सर्वनाम्नः इति आकारः।