63090: इदङ्किमोरीश्की

Padacheda: इदम्-किमोः | S | 6 | 2 |

ईश्-की | S | | | 1

Sutrartha


Vasu English Summary

ई is substituted for इदम् and की for किम् before the words 1. दृग् 2. दृश and the affix वत्।

Vasu English Translation

ई is substituted for इदम् and की for किम् before the words 1. दृग् 2. दृश and the affix वत्। Thus इदृक्, ईदृशः and इयान्, कीदृक्, कीदृशः and कियान् ॥ ईवत् and कीवत् are changed to ई + इयत् and को + इयत् by (5.2.40) and the long ई is elided by (6.4.148) : and we get इयत् and कियत् ॥

Vart:- So also before दृक्ष, as ईदृक्षः and कीदृक्षः ॥

Kashika

इदं किम् इत्येतयोरीश् की इत्येतौ यथासंख्यमादेशौ भवतो दृग्दृशवतुषु। ईदृक् । ईदृशः। इयान्। कीदृक्। कीदृशः। कियान्। किमिदम्भ्यां वो घः (५.२.४०) इति वतुप्॥ दृक्षे चेति वक्त व्यम्॥ ईदृक्षः। कीदृक्षः॥

Siddhanta Kaumudi

दृग्दृशवतुषु इदम् ईश् किमः की स्यात् । ईदृक् । ईदृशः । कीदृक् । कीदृशः । वतूदाहरणं वक्ष्यते । दृक्षे च ॥ ईदृक्षः । कीदृक्षः । आ सर्वनाम्नः (SK430) । दृक्षे च ॥ तादृक् । तदृशः । तावान् । तादृक्षः । दीर्घः । मत्वोत्वे । अमूदृक् । अमूदृशः । अमूदृक्षः ॥

Laghu Siddhanta Kaumudi

दृग्दृशवतुषु इदम ईश् किमः किः। कियान्। इयान्॥

Balamanorama

इदङ्किमोरीश्की - इदंकिमोरीश्की । ‘ईश्’की॑ति द्वे पदे । ईदृक् ईदृश इति । ‘इदमिव दृश्यते’ इत्यर्थे त्यदादिषु दृशेः क्विन्कञौ । ईशः शित्त्वं सर्वादेशत्वाय । वक्ष्यत इति । तद्धितप्रकरणे इयानित्युदाहरणं वक्ष्यत इत्यर्थः । दृक्षे चेति । इदंकिमोरीश्की वक्तव्यौ॑ इति शेषः ।आ सर्वनाम्न इति । ‘आ’ इति लुप्तप्रथमाकम् । तादृक् तादृश इति । तदिव दृश्यत इत्यर्थे ‘त्यदादिषु दृशः’ इति क्विन्कञौ । तदो दकारस्य आत्वे सवर्णदीर्घः । तावानिति । तत्परिमाणमस्येति विग्रहे यत्तदेतेभ्य॑ इतिं वतुप् । तादृक्ष इति । तदिव दृश्यते इति विग्रहः । अमूदृगित्यत्र प्रक्रियां दर्शयति — दीर्घ इति । अदस आत्त्वे कृते सवर्णदीर्घः । तत ऊत्त्वमत्वे इत्यर्थः ।अः से॑रिति व्याख्यानेऽपि अकारेम आकारस्यापि ग्रहणादूत्त्वमत्वे ।

Padamanjari

इयान्कियानिति । घस्येयादेशे कृते यस्येति च इतीकारलोपः । किमिदम्म्यां वो घ इति वतुबीति । नासतो वतुपो वकारस्य घकारः शक्यो विधातुमिति वतुपोऽप्यनेनैव विधानमिति भावः ॥

Nyaas

द्वयो सहप्रयुक्तयोरप्रधानो यः स द्वितीयः इति। प्रधानेतरसन्निपाते सत्यप्रधान एव द्वितीयशब्दस्य प्रयोगात्। तथा हि -स्वामिभृत्ययोः सहयुक्तयोर्भृत्य एव स्वामिनं प्रति द्वितीय उच्यते, न तु भृत्यं प्रति स्वामी। उपाख्यायते यः स उपाख्यः इति। आतश्चोपसर्गे (3.3.106) इति कः, स च भवन्? कृत्यल्युटो बहुलम् (3.3.113) इति कर्मणि भवति। साग्निः कपोतः इति। पूर्ववद्बहुव्रीहिः। अत्रागनिसहयुक्तः कपोतः, तयोर्हि साहचर्य लोके प्रसिद्धम्। तत्राग्निरप्रधानः। तथा ह्रग्निः कपोतमनुविधत्ते -यत्र हि कपोतस्तत्राग्निनाऽवश्यं भवितव्यम्, न तु यत्राग्निस्तत्र कपोतेनेति नासावग्निमनुविधत्ते, तेन कपोतस्य प्राधान्यम्। अग्न्यादयः पुनरप्रधाना एव। अग्न्यादयः इति। अत्रादिशब्देन पिशाचदयो गृहयन्ते। तेन हि क्वचित्? प्रत्यक्षेण उपलभ्यन्ते, अपि तु कपोतादिभिरविनाभाविभिरनुमीयन्त इत्यनुपाख्या भवन्ति॥

Prakriyasarvasvam

इदंकिमोर्दृग्दृशवतुषु परिष्वेतो स्तः । आद्यः शित्त्वादन्योऽनेकाल्त्वात् सर्वादेशः । ईदृशः । ईदृक् । कीदृशः । कीदृक् । ‘समानान्यायोश्च कञ् क्विनौ वाच्यौ’ (वा० ३-२-६०) । अन्यादृशः । अन्यादृक् ।

Vartika

दृक्षे चेति वक्तव्यम् ।

Sutra Prayogas

  • इदमीदृग्गुणोपेतं (किरातार्जुनीयम्): इदंकिमोरीश्की इतीशादेशः।

  • कीदृक् (भट्टिकाव्यम्): इदं- किमोरीश की इति किमो की-आदेशः।