63071: श्येनतिलस्य पाते ञे ========================== **Padacheda:** श्येनतिलस्य | S | 6 | 1 | पाते | S | 7 | 1 | ञे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- मुम् is the augment of the words श्येन and तिल before पात when the affix ञ् follows. Vasu English Translation ------------------------ मुम् is the augment of the words श्येन and तिल before पात when the affix ञ् follows. Thus श्येनपातोऽस्यां क्रीडायां = श्येनंपाता, तैलंपाता ॥ See (4.2.58). Why do we say before ञ? Observe श्येनपातः ॥ Kashika ------- श्येन तिल इत्येतयोः पातशब्द उत्तरपदे ञप्रत्यये परे मुमागमो भवति। श्येनपातोऽस्यां क्रियायां श्यैनंपाता। तैलंपाता। ञ इति किम्? श्येनपातः॥ Siddhanta Kaumudi ----------------- श्येन तिल एतयोर्मुमागमः स्यात् ञप्रत्ययपरे पातशब्दे उत्तरपदे । श्येनपातोऽस्यां वर्तते श्यैनंपाता मृगया । तिलपातोऽस्यां वर्तते तैलंपाता स्वधा । श्येनतिलस्य किम् । दण्डपातोऽस्यां तिथौ वर्तते दाण्डपाता तिथिः ॥ Balamanorama ------------ **श्येनतिलस्य पाते ञे** - श्येनतिलस्य । मुमागम इति । 'अरुर्द्विष' दित्यतस्तदनुवृत्तेरिति भावः । ञप्रत्यये इति । ञप्रत्यये परे यः पातशब्दस्तस्मिन्नित्यर्थः । उत्तरपदे इति । 'अलुगुत्तरपदे' इत्यतस्तदधिकारादिति भावः । श्येनपात इति । पतनं पातः । भावे घञ् । श्यैनंपातेति । श्येनपातशब्दाद्धञन्ताञ्ञः । यद्यपि पातशब्द एव घञन्तस्तथापि कृद्ग्रहणपरिभाषया श्येनपातशब्दस्यापि ग्रहणं बोध्यम् । श्येनस्य पात इति कृद्योगषष्ठआ समासः । तथाच श्येनपातशब्दस्यादिवृद्धिः । तैलंपाता स्वधेति । स्वधाशब्दः स्त्रीलिङ्ग पित्र्यक्रियायां वर्तते, 'नमः स्वधायै' इत्यादिदर्शनात् ।स्वधे॑त्यनेन क्रीडायामिति नानुवर्तते इति सूचितम् । तदस्यामिति प्रकृते पुनरस्यामिति ग्रहणात् । Tattvabodhini ------------- **श्येनतिलस्य पाते ञे** - दण्डापातोऽस्यां तिथाविति । Padamanjari ----------- एश्येनपातोऽस्यां क्रियायामिति । यद्यपि घञः सास्यां क्रियेति ञः इत्यतः क्रियाग्रहणं प्रकृत्यर्थविशेषणम्, न प्रत्ययार्थः, श्येनपातोऽस्यां तिथौ श्येनपाता तिथिरिति तत्रोदाहृतत्वात् , तथाप्यस्यामिति स्त्रीलिङ्गमात्रस्य प्रत्ययार्थत्वात्कियाया अपि प्रत्ययार्थत्वामविरुद्धम् । श्यैनम्पातेति । पतनं पातः श्येनस्य पातः, कर्तरि षष्ठ।ल समासः, ततः घञः सास्याम् इति ञः ॥ Nyaas ----- `ञप्रत्यये परे` इति। ञः प्रत्ययो यस्मादुत्तरपदात्? तत्? तथोक्तम्। `श्यैनम्पाता` इति। पतनं पातः, भावे घञ्, श्येनस्य पातः श्येनपातः। `कृद्योगा च षष्ठी समस्यते` (वा।86) इति समासः, **घञः साऽस्यां क्रियेति ञः** (4.2.58) ॥ Prakriyasarvasvam ----------------- ञान्ते पातशब्दे परेऽनयोर्मुं स्यात् । श्येनपातोऽस्यामस्तीति श्यैनम्पाता मृगया । तैलम्पाता पितृक्रिया ।।